पूर्वपक्षस्तु
आनुकूल्येन गृह्यमाणं ज्ञातिसुखमेव न तु ब्रह्मेतिपूर्वपक्ष:
तात्पर्यचन्द्रिका
पूर्वपक्षस्तु । इदमानुकूल्येन गृह्यमाणं ज्ञानिसुखमेव । न तु ब्रह्म । तद्विजानीयामिति तच्छब्देन ‘‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुख’’मिति प्रकृतसुखपरामर्शात् । न च ‘‘हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातन’’मिति ब्रह्मप्रकरणादनिर्देश्यत्वलिङ्गाच्च तत्सुखं ब्रह्मेति वाच्यम् । प्रकरणाल्लिङ्गाच्च ‘‘तदेत’’दिति सर्वनामश्रुतेर्बलवत्त्वात् । तस्य च ‘‘एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनुपश्यंति धीरास्तेषां सुखं शाश्वतं नेतरेषा’’मिति प्रकृतज्ञानिसुखपरत्वात् ।
न च तत्रेश्वरोऽपि प्रकृत इति वाच्यम् । तस्य पुल्लिङ्गेन प्रकृततया तत्परत्वे तदेतच्छब्दयोः पुल्लिङ्गतापातात् । पूर्वाधिकरणे ‘‘तस्मिन्यदन्त’’रित्यत्र तच्छब्दस्य सन्निहिताकाशत्यागेन पुण्डरीकपरत्वायोगवदिहापि सन्निहितज्ञानिसुखत्यागेन व्यवहितेश्वरपरत्वायोगाच्च । तेषां सुखमिति सुखशब्देन प्रकृतज्ञानिसुखस्यैव ‘‘परमं सुख’’मित्यनेन प्रत्यभिज्ञानाच्च ।
न च पूर्वाधिकरणे विधेयात्मापेक्षयैतच्छब्दस्य पुल्लिङ्गतावदिहापि विधेयसुखापेक्षया नपुंसकलिङ्गत्वमिति युक्तम् । तदेतच्छब्दयोर्मध्य एकस्योद्देशकत्वावश्यम्भावेन द्वयोर्नपुंसकलिङ्गत्वायोगात् । अत एव टीकायां ‘‘तदित्यादी’’त्यादिशब्दः । यदनिर्देश्यं परमं सुखं तदेतत्परमात्मनो रूपमिति नपुंसकलिङ्गनिर्वाहे च रूपशब्दाध्याहारः स्यात् । अध्याहारेण लिङ्गनिर्वाहे च ‘‘प्रास्मा अग्नि’’मित्यत्र पशुशब्दाध्याहारेणास्मैशब्दस्य पुल्लिङ्गनिर्वाहान्न मेषीपरत्वं स्यात् । तच्च नेत्युक्तं नवमे । न चानुकृत्यादिहेतुभिरानुकूल्येन गृह्यमाणस्य ब्रह्मता । अनुकृतिवाक्यस्थस्य तमेवेति तच्छब्दस्य पुंल्लिङ्गत्वेनेश्वरपरतयाऽऽनुकूल्येन गृह्यमाणपरत्वाभावात् । तदेतदभिप्रेत्योक्तं न्यायविवरणे ‘‘तदेतदिति मन्यन्ते । कथं नु तद्विजानीयामिति । तेषां सुखं शाश्वतमित्युक्तज्ञानिसुखपरामर्श’’ इति । भाष्ये च ‘‘परमात्मैवानिर्देश्यसुखरूप’’ इति । तस्मात्तदेतदित्यादौ तत्पदं सन्निहितपरप्रातिपदिकानुरोधात्प्रत्ययार्थभूतलिङ्गानुसारात्समभिव्याहृतसुखपदानुसाराच्च सन्निहितज्ञानिसुखपरमिति आनुकूल्येन गृह्यमाणत्वमपि तस्यैवेति ।
प्रकाशिका
पूर्वपक्षटीकायां यथा भाष्यं ‘‘तद्विजानीया’’मिति तच्छब्दस्य प्रकृतसुखपरत्वमनुक्त्वा ‘‘तदेत’’दिति वाक्यस्य प्रकृतज्ञानिसुखपरत्वसमर्थनात् ‘‘तदेत’’दित्यादिवक्ष्यमाणन्यायविवरणरीत्या ‘‘तद्विजानीया’’मिति तच्छब्दस्य प्रकृतसुखपरत्वोक्तिपूर्वं तां विवृणोति ।। इदमित्यादिना ।। आद्यचिन्ताहेतुव्यक्तिपूर्वं द्वितीयचिन्तां प्रपञ्चयन् ‘‘न च सुखश्रुतिर्विष्णावपि सावकाशे’’त्यादि टीकां सोपपत्तिकं व्यनक्ति ।। न चेति ।। ते वक्ष्यामीति नचिकेतसं प्रति यमवाक्यम् । यथाऽत्तेत्यत्र ‘‘नैवेह किंचनाग्र आसी’’दिति ब्रह्मप्रकरणात्सर्वात्तृत्वलिङ्गाच्चादितिर्ब्रह्म तद्वदिति भावः । श्रुतेरिति जात्येकवचनम् । श्रुत्योरित्यर्थः । शब्दादेवेत्यत्र वक्ष्यमाणदिशा जात्या प्राबल्यादित्यर्थः । अस्तु श्रुतिरीश्वरपरेत्यत आह ।। तस्य चेति ।। सर्वनाम्न इत्यर्थः । एकं रूपमित्याद्यंशोक्तिः सावकाशत्वशङ्कोत्थानाय ।। ज्ञानिसुखपरत्वादिति ।। एतेन ‘‘तदेत’’दित्यस्य ज्ञानिसुखपरत्वेऽपि तद्वाक्योक्तमपरामृश्य ‘‘तद्विजानीया’’मिति तच्छब्दः प्राकरणिकब्रह्मपर एव किं न स्यादिति चोद्यं प्रत्युक्तम् । दुर्बलात्प्रकरणात्सर्वनामश्रुतेस्सन्निहितपरत्वस्वारस्यभङ्गायोगादिति । ननु श्रुतिस्सावकाशा चेल्लिङ्गप्रकरणाभ्यां बाधार्हैवादित्यादिश्रुतिरिवेत्यतस्सर्वनामश्रुतिसावकाशत्वशङ्कानिरासपरां ‘‘न च वाच्यं भगवतोऽपी’’त्यादिटीकां व्यनक्ति ।। न च तत्रेति ।।
‘‘नपुंसकसुखशब्देनाप्रकृतस्य तदित्यादिपरामर्शायोगा’’दिति टीकायां नपुंसकेत्युक्तिसूचितां पुल्लिङ्गत्वापातादिति युक्तिमुक्त्वा ‘‘सम्भवत्समीपे’’ति वाक्योक्तयुक्तिमाह ।। पूर्वाधिकरण इति ।। एतेन पूर्वाधिकरणन्यायेनेति पूर्वोक्तं विवृतं बोध्यम् । ईश्वरोऽपि नित्यो नित्यानामिति सन्निहित इति प्रत्युक्तं चिन्ताव्याख्यानप्रस्तावे । टीकास्थसुखपदसूचितां युक्तिमाह ।। तेषामिति ।। टीकायां ‘‘तदित्यादिपरामर्शायोगा’’दित्यादिपदोक्तिस्वारस्यं शङ्कापूर्वं व्यनक्ति ।। न च पूर्वेति ।। एतेन पूर्ववैषम्येण वेति प्रागुक्तं विवृतं बोध्यम् । सिद्धांत्यभिमतलिङ्गनिर्वाहमाशङ्क्य निराह ।। यदिति ।। प्रास्मा अग्निमिति ।। विवृतमधिकरणशरीरमाकाशाधिकरणे । तथा च यदि रूपशब्दाध्याहारेण नपुंसकलिङ्गनिर्वाहस्तदा ‘‘प्रास्मा अग्निं भरते’’ति वाक्ये पशुशब्दाध्याहारेण प्रास्मै पशव इति मेष्यामपि लिङ्गनिर्वाह सम्भवेनाध्याहारनिरासपराधानेष्ट्यधिकरणसिद्धान्तहानिः स्यादित्यर्थः । निरवकाशलिङ्गबलेन श्रुतेस्सन्निहितपरत्वत्यागो युक्त इत्याशङ्कानिरासाय द्वितीयचिन्ताहेतुत्वं व्यंजयंस्तृतीयचिन्तां सिद्धान्तहेत्वाशङ्कासमाधानाभ्यां विशदयति ।। न चेति ।। ईश्वरपरतयेति ।। अत एव सिद्धान्तटीकायां ‘‘न च मन्तव्य’’मित्यादिनैतदाशङ्क्य समाधीयत इति भावः । तमेवेति तच्छब्दस्येश्वरपरत्वे तत्र तस्येति तच्छब्दयोरपि तथात्वमिति भावेन तमेवेति तच्छब्दस्येश्वरपरतयेत्युक्तम् । भाष्यविवरणपरापि टीका न्यायविवरणपरापीति भावेनाह ।। तदेतदिति ।। भाष्ये चेति ।। सिद्धान्तीयभाष्य इत्यर्थः । तथा च तत्प्रतिभटपूर्वपक्षे ज्ञानिसुखमेवानिर्देश्यसुखमिति वक्तव्यमिति भावः । अतो ज्ञानिसुखस्यैवेत्याद्युपसंहारटीकां व्यनक्ति ।। तस्मादिति ।। बाधकाभावादित्यर्थः । एतेन चिन्तास्थपूर्वपक्षकोटीनां हेतुहेतुमद्भावोप्युपसंहारेण विवृतः ।
चन्द्रिकाबिन्दुः
टीकावाक्यान्येवार्थतो व्याचष्टे ।। पूर्वपक्षस्त्वित्यादिना ।। न च तत्रेति ।। एकं रूपं बहुधा यः करोतीति वाक्येनेति शेषः । पूर्वाधिकरणन्यायेनेत्युक्तं तद्विशदयति ।। पूर्वाधिकरण इति ।। परमं सुखमित्यनेनेति ।। तदेतदिति वाक्ये इति शेषः । पूर्वाधिकरणवैषम्येणेत्युक्तं तद्विशदयति ।। न च पूर्वाधिकरण इति ।। द्वयोरिति विधेयसमर्पकस्य नपुंसकत्वे उद्देश्यसमर्पकस्य पुल्लिङ्गत्वापातादिति भावः ।। अनुकृत्यादिहेतुभिरिति ।। सूर्यादि तेजोनियामकत्वादिहेतुभिरित्यर्थः । अनुकृतिवाक्यं व्यवहितेश्वरविषयं न त्वानुकूल्येन गृह्यमाणविषयम् । तथा चानुकूल्येन गृह्यमाणस्य न ब्रह्मतेत्यभिप्रेत्य परिहारमाह ।। तमेवेतीति ।। तच्छब्दस्येति ।। प्रत्ययार्थभूतलिङ्गानुसारादिति ।।
पाण्डुरङ्गि
न च तत्रेति ।। एकं रूपं बहुधा यः करोति । तमित्यनेनेश्वरः प्रकृत इत्यर्थः । पूर्वाधिकरणन्यायेन पूर्वपक्षादित्युक्तम् । तदुपपादयति ।। पूर्वाधिकरण इति ।। तेषां सुखमिति ।। यद्यप्यत्र तेषां सुखं नेतरेषामिति प्रकृतज्ञानिसुखापेक्षयापि नित्यो नित्यानामितीश्वरस्यैव सन्निहितत्वेन सन्निहितसुखपरामर्श इत्यनुपपन्नम् । तथापि नित्यो नित्यानामित्येतस्मादपि परस्मिन् तमात्मस्थं येऽनुपश्यंति धीरास्तेषां शान्तिः शाश्वती नेतरेषामित्यत्र प्रकृतज्ञानफलेन शान्तिशब्दार्थेन सुखेन तदेतदिति मन्यन्ते निर्देश्यं परमं सुखमित्यनेन प्रत्यभिज्ञानादित्यत्रैव तात्पर्यान्न दोषः । वैषम्येण पूर्वपक्षं दर्शयितुं साम्यं शङ्कते ।। न चेति ।। न चानुकृत्यादिहेतुभिरिति ।। सूर्यादिप्रकाशनियामकत्वमनुकृतिशब्दार्थः । आदिपदेन सर्वजगत्प्रकाशकत्वसूर्याद्यप्रकाश्यत्वयोर्ग्रहः । सन्निहितपरप्रातिपदिकानुरोधात् तदेतदित्यादौ सन्निहितपरतच्छब्दप्रातिपदिकानुरोधादित्यर्थः ।। प्रत्ययार्थेति ।। प्रत्ययार्थभूतनपुंसकलिङ्गानुसारादित्यर्थः ।