यच्चोक्तं सौत्रस्य दर्शनादित्यस्येह..

विशिष्टाद्वैतमतपरीक्षा

तात्पर्यचन्द्रिका

यच्चोक्तं सौत्रस्य दर्शनादित्यस्येह प्रकरणे ब्रह्मणो वक्तव्यत्वेनानुवृत्तेर्दर्शनादित्यर्थ इति । तन्न । तथात्वे आवश्यकत्वेनानुवृत्तेरित्येव वक्तव्यत्वात् ।। केचित्तु ।। इदं सूत्रं ‘‘शब्दादेव प्रमित’’ इत्येतदधिकरणशेषभूतं सत् अङ्गुष्ठमात्रस्य ब्रह्मत्वे हेत्वन्तरपरम् । नत्वधिकरणान्तरम् । ‘‘ज्योतिश्चरणाभिधाना’’दित्यत्रैव ज्योतिश्शब्दसमन्वयोक्तेः । अङ्गुष्ठमात्रप्रकरणे ‘‘न तत्र सूर्यो भाती’’ति ब्रह्मरूपज्योतिर्दर्शनादिति च सूत्रार्थ इत्याहुः । तन्न । तच्छेषत्वे तदानन्तर्यस्य चशब्दस्य चापातात् । ‘‘न तत्रे’’ति श्रुतौ च ज्योतिःपदाभावेन सूत्रस्य श्रुत्यननुगमप्रसङ्गाच्च । सूत्रान्तरेष्विव ज्योतिर्दर्शनपदयोः प्रतिज्ञाहेतुरूपत्वसम्भवे हेतुमात्रत्वायोगात् । ‘‘आकाशस्तल्लिङ्गात्’’ अत एव प्राण इत्यत्रोक्तसमन्वययोरप्याकाशप्राणशब्दयोस्त्वयाऽपि ‘‘दहर उत्तरेभ्यः प्राणस्तथानुगमा’’दित्यत्र पुनः समन्वयस्याङ्गीकृतत्वाच्चेति ।। टीकाक्षरार्थस्तु स्पष्टः ।।

प्रकाशिका

सूत्रार्थोऽप्ययुक्त एवेत्याह ।। यच्चेति ।। ज्योतिश्शब्दं ब्रह्मेति प्रतिज्ञार्थः ।। अनुवृत्तेरिति ।। ‘‘प्राणस्तथानुगमा’’दितिवदिति भावः ।। केचित्त्विति ।। पूर्वशेषत्वे कथं सूत्रार्थ इत्यतस्तमनुवदति । अङ्गुष्ठमात्रप्रकरण इति ।। ‘‘न तत्र सूर्योभाती’’त्यारभ्य ‘‘तस्य भासा सर्वमिदं विभाती’’ति सर्वेषां छादकस्य निरवधिकातिशयस्य भाशब्दाभिहितस्य परब्रह्मभूतस्य ज्योतिषो दर्शनाच्चाङ्गुष्ठप्रमितः परमात्मेति सूत्रार्थ इत्यर्थः । यदुक्तं समन्वितस्य समन्वयो नेति तत्राह ।। आकाश इति ।। ननु तत्र प्रापकविशेषसत्त्वात्पूर्वपक्षादिसम्भवात्पुनरुक्तिः । इह तु समुत्थानादिश्रुतेरन्यथोपपत्तेः परंज्योतिश्शब्दस्य विष्णावेव प्रसिद्धेर्न पुनरुक्तिर्युक्तेति चेत्तर्ह्यनेकप्रापकयुक्तास्मदीयोदाहरणमेवाद्रियताम् । न तु पूर्वशेषत्वम् । क्लिष्टत्वादिति भावः । यत्तु कश्चिदाह ‘‘परञ्ज्योतिरुपसम्पद्ये’’त्यत्र परञ्ज्योतिर्नारायणो वा शिवो वेति संशये ‘‘स उत्तमः पुरुष’’ इति वाक्यशेषे ‘‘देवकीनन्दनश्शौरिश्श्रीपतिः पुरुषोत्तम’’ इत्यादौ नारायणे प्रसिद्धपुरुषोत्तमशब्दश्रवणान्नारायण एवेति प्राप्ते ज्योतिश्शिव एव । तत्प्राप्तानामनिवृत्तिदर्शनात् । शिवादन्यत्प्राप्तानामनिवृत्तेरभावात् । पुरुषोत्तमशब्दो नारायणे रूढोऽपि शिवे यौगिक इति । तन्न । परशब्दसहितज्योतिश्शब्दस्य पूर्वोक्तदिशा पुरुषोत्तमशब्दस्य च ‘‘उत्तमः पुरुषस्त्वन्य’’ इति ‘‘प्रथितः पुरुषोत्तम’’ इत्यादिना विष्णावेव प्रसिद्धत्वेन संशयस्य शिव इति सिद्धान्तस्य चानुत्थानात् । शिवासाधारणलिङ्गाद्यभावाच्च । ‘‘यद्गत्वा न निवर्तंते तद्धाम परमं ममे’’त्यादिना विष्णुं प्राप्तानामनिवृत्तेर्दर्शनाच्च । दहराधिकरण एवास्य विष्णुपरत्वेनोक्तत्वाच्च ।

यं प्राप्यते निजानंदमाप्नुवन्ति स केशवः ।

तं प्राप्य रमते मुक्तस्स्त्रीभिर्यानैश्च बन्धुभिः ।।

इत्यादिव्याख्यानरूपस्मृतिविरोधाच्च । यदपि पुरुषोत्तमशब्दस्यात्राश्रवणात्तेन पूर्वपक्षकरणं कथमित्याशङ्क्य कृत्वाचिन्तेयमित्युक्तम् । तन्न । व्यर्थत्वात् । गत्यन्तरसम्भवाच्च । ‘‘उत्तमः पुरुष’’ इत्यस्यैव ‘‘उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृत’’ इति, ‘‘यस्मात्क्षरमतीतोहम-क्षरादपि चोत्तमः । अतोस्मिलोके वेदे च प्रथितः पुरुषोत्तम’’ इति गीतायां,

ब्रह्माशिवस्सुरेशाद्याश्शरीरक्षरणात्क्षराः ।

लक्ष्मीरक्षरदेहत्वादक्षरातत्परोहरिः ।। इति श्रुतौ

ब्रह्मशेषसुपर्णेशशक्रसूर्यगुहादयः ।

सर्वे क्षरा अक्षरातु श्रीरेका तत्परो हरिः ।।

इति स्कान्दे च पुरुषशब्दितक्षरपदेन शिवादीनुक्त्वा तत्परत्वेन योगवृत्त्या विष्णोरेवाभिधानेन शिवस्य योगेनाप्युत्तमपुरुषत्वायोगाच्च । यदपि कृष्णस्य शिवशक्तयवतारत्वादिकल्पनं तदप्रामाणिकमनेकप्रमाणविरुद्धं च । सूत्रे परञ्ज्योतिरिति निर्देशापाताच्चेति ।।

चन्द्रिकाबिन्दुः

रामानुजपक्षे ज्योतिर्दर्शनादिति सूत्रार्थमाह ।। न तत्र सूर्यो भातीति ।। तथा च ज्योतिषः सूर्याद्याभासस्य ब्रह्माख्यज्योतिषः दर्शनादित्यर्थः सूचितो भवति ।

।। इति ज्योतिरधिकरणम् ।। १० ।।