अशेषगुरुमीशेशं नारायणमनामयम् । सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ।।

।। श्रीः ।।

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितम्

प्रमाणलक्षणम्

अशेषगुरुमीशेशं नारायणमनामयम् ।

सम्प्रणम्य प्रवक्ष्यामि प्रमाणानां स्वलक्षणम् ।।

श्री जयतीर्थमुनिविरचिता

प्रमाणलक्षणटीका

प्रणम्यागण्यकल्याणगुणाब्धिं पुरुषोत्तमम् ।

पूर्णबोधानपि गुरून् व्याकुर्वे मानलक्षणम् ।।

ग्रन्थारम्भस्य मङ्गलाचरणस्य वक्ष्यमाणार्थप्रतिज्ञायाश्च कर्तव्यत्वसमर्थनम्

इह खलु ‘सुखमेव मे स्यात् दुःखं मनागपि मा भूत्’ इति निखिलापेक्षितमोक्षस्येश्वरसाक्षात्कारमन्तरेणासम्भवात्, तस्य च प्रमाणानि विनानुदयात्, प्रमाणानां च यथावद्विदितानामेव तद्धेतुत्वोपपत्तेस्तत्स्वरूपं यथावज्ज्ञापयितुकामो भगवाना-चार्यवर्यः प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनाविगीत-शिष्टाचारपरम्परादिप्राप्तेष्टदेवतानतिपूर्वकं श्रोतृशेमुषीमनुकूल-यिष्यन् वक्ष्यमाणमेवाग्रे दर्शयति ।