पक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः सपक्षस्यापि साध्यत्वाऽपादनं वर्ण्यसमः

वर्ण्यसमजातिः

प्रमाणलक्षणटीका

पक्षमात्रविवक्षितरूपवद्धेतुमत्वतदभावयोः सपक्षस्यापि साध्यत्वाऽपादनं वर्ण्यसमः ।

असिद्धार्थत्वं आरब्धसाध्यज्ञापनशक्तिमत्वं व्याप्ति-ग्राहकप्रमाणशून्यत्वं संशयसमानविषयत्वं स्वरूपविशेष-श्चेत्येतानि हेतोः पक्षमाणविवक्षितरूपाणि । तत्रासिद्धार्थं पर्वत इव महानसे धूमवत्वं वर्तते न वा ।

आद्ये महानसोऽपि साध्यवत्वेन साध्यः स्यात् । अन्यथा साध्यवैकल्यापातात् । द्वितीये तद्रूपहेतुमत्या साध्यः स्यात् । अन्यथा साधनवैकल्यापातात् । एवं रूपान्तरेष्वपि द्रष्टव्यम्।

प्रमाणलक्षणटीकाभावदीपः

असिद्धार्थत्वमित्यादि बहुव्रीहिः । प्रमाणान्तरानवगतार्थकत्व-मित्यर्थः ।। व्याप्तिग्राहकेति ।। तत्सत्त्वे साध्यस्य सिद्धत्वप्राप्तेरिति भावः ।। संशयसमानेति ।। संशयविषयसमानविषयत्वं सन्दिग्धविषयकत्वमिति यावत् । धूमादिस्वरूपविशेषश्चेत्यर्थः । यद्वा शुक्लवर्णाभ्रंलिहत्वाऽदिस्वरूपविशेषश्चेत्यर्थः।

।। एवं रूपान्तरेष्विति ।। आरब्धज्ञापनशक्तिमद्धूमवत्वं महानसेऽस्ति चेत् साध्यवत्वेन महानसोऽपि साध्यः स्यात् । न चेत् साधनवत्तया साध्यः स्यादित्यादिरूपेणेति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

हेतोस्तु यादृशं रूपं पक्षमात्रे विवक्षितम् ।

तद्रूपहेतुमान् साध्यः सपक्षोऽप्यन्यथा पुनः ।।

भवेत्साधनवैकल्यमिति वर्ण्यसमोदयः ।

इतिकारिकाऽनुसारेण वर्ण्यसमजातेर्लक्षणमाह ।। पक्षमात्रेति ।। कानि तानि हेतोः पक्षमात्रविवक्षितानि रूपाणि ? इत्यत आह ।। असिद्दार्थत्वमित्यादिना ।। साध्यस्य प्रमाणान्तरानिश्चितत्वेन असिद्धार्थत्वं एकं पक्षीयहेतो रूपम् हेतुर्हि पक्षे साध्यज्ञापनाय प्रवृत्तशक्तिर्भवति इति आरब्धसाध्यज्ञापनशक्तित्वाख्यं द्वितीयम् पक्षीयसाध्यस्य पूर्वमज्ञातत्वेन तन्निरूपितव्याप्तेः  पक्षीयहेतुवृत्तितया ज्ञातुमशक्यत्वात् व्याप्तिग्राहकप्रमाणशून्यत्वाभिधं तृतीयम् सन्दिग्धे न्यायप्रवत्तेः पक्षीयहेतोः संशयसमानविषयत्वाख्यं चतुर्थम् पक्षीयहेतुस्वरूपविशेषरूपं पञ्चममित्यर्थः । यथा आहुः

असिद्धार्थत्वमारब्धसाध्यज्ञापनशक्तिता ।

व्याप्तिप्रमाणशून्यत्वं संशयैकार्थता तथा ।।

स्वरूपभेदश्चेत्येतत्पक्षमात्रे विवक्षितम् ।

हेतुरूपम् ......................... । इति ।

एवं च पक्षमात्रे हेतोर्विवक्षितानि यानि असिद्धार्थत्वाऽदीनि रूपाणि तद्वान् यः हेतुः तद्वत्त्वतदभावयोः सकाशात् । तद्वत्त्वतदभावाभ्याम् इति यावत् । सपक्षस्यापि साध्यसाधनवत्तया साध्यत्वाऽपादनं वर्ण्यसम इत्यर्थः ।

उपलक्षणत्वेन एकं रूपं पुरस्कृत्योदाहरति ।। तत्रेति ।। असिद्धार्थं असिद्धार्थत्वाऽख्यरूपोपेतं धूमवत्त्वम् इत्यन्वयः ।। साध्यः स्यादिति ।। पर्वत इव धूमवत्वेन हेतुनेत्यर्थः । अन्यथा साध्यत्वेनासाधने ।। तद्रूपहेतुमत्तयेति ।। असिद्धार्थत्वाऽख्यरूपवद्धेतुमत्तयेत्यर्थः । अन्यथा हेतुमत्तयाऽसाधने ।। एवमिति ।। आरब्धसाध्यज्ञापनशक्तित्वरूपोपेतं धूमवत्त्वं पर्वत इव महानसे वर्तते न वा इत्यादिरूपेणेत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

।। वर्ण्यसमं लक्षयति ।। पक्षमात्रेति ।। कानि तानि हेतोः पक्षमात्रविवक्षितानि रूपाणीत्यत आह ।। असिद्धार्थत्वमिति ।। हेतोरर्थः साध्यधर्मः स हि पक्षे असिद्धो भवति । अन्यथा सिद्धसाध्यत्वापातात् सपक्षे तु सिद्धः इतरथा साध्यवैकल्यप्रसंगात् । पक्षे साध्यज्ञापनाय प्रवृत्तशक्तिः हेतुः न तथान्यत्रापूर्वमेव तत्र मानान्तरेण साध्यसिद्धेः । पक्षे संशयसमानविषयो हेतुः । संदिग्धे न्यायप्रवृत्तेः । अन्यत्र न तथा साध्यधर्मनिश्चयात् । पक्षे व्याप्तिग्राहकमानशून्यो हेतुः तत्र साध्यस्य प्रमाणान्तरभावात् इतरत्र मानान्तरात् । साध्यहेत्वोर्व्याप्तिर्गृह्यते पक्षे धूमादिविशेषं कश्चित् प्रतिज्जातीयोऽन्यो विशेष इत्येतानि हेतुरूपाणि पक्षसपक्षयोर्व्यवस्थया व्यवस्थानीति ज्ञेयम् ।

नन्वसिद्धार्थवमात्रोक्तौ संशयसमानविषयत्वलाभात् सिध्यभावेऽपि संशयविषयत्वस्यावश्यकत्वादिति चेन्न । सिद्धिर्यस्यार्थस्य नास्ति संशयो वा नास्ति तत्र असिद्धार्थत्वादनुमित्यापत्तेः । अत उत्तरपदं न च तत्र व्याप्त्याद्यंगं भवति न वा आद्येऽनुमितिः भवत्येव । द्वितीये कारणान्तराभावेनैव तदभावेनैव तदभावोपपत्तौ रूपवत्वेन कल्पनीयमिति वाच्यम् । व्याप्त्यादिसद्भवेऽपि सन्देहाभावेऽनु-मित्यसंभवात् संदिग्धस्यैवार्थस्यानुमेयत्वात् ।

यत्तु तावन्मात्रोक्तौ विरुद्धेऽतिव्याप्तिः तत्परिहारायोत्तरमित्याह । तन्न तत्रासिद्धार्थत्वेऽपि दोषाभावात् । अन्यथा व्याप्त्यादिकमपि न स्यात् । न चैवं तस्यानमिुतिप्रमाजन कत्वापत्तिः । रूपान्तराभावादेव तदभावोपपत्तेः अन्यथा दंडमात्रस्य सत्वेऽपि घटाभावात् दंडस्यापि जनकत्वं न स्यात् । असिद्धत्वमिति । अत्रासिद्धार्थत्वं नारिकेलद्वीपवासिनो सिद्धार्थधूमज्ञानसद्भावादनुमितिः स्यात् । तस्य हेतोरर्थः साध्यो वन्हिस्तस्यासिद्धत्वात् । अतः संशयसमानविपर्ययत्वमिति संदिग्धविषयत्वमिति यावत् ।

संदिग्धविषयधूमज्ञानमेव तद्धेतुः । तत्र च साध्यविपर्ययत्वेन तत्संदेहा-भावात्तर्हि तावन्मात्रेणालं किमसिद्धार्थत्वग्रहणेनेति चेत् यत्र सिषाधयिषा अनुमिति-स्तत्र संदिग्धविषयत्वं हेतोर्नास्ति साध्यवन्हेः सिद्धत्वात् तथा च तत्र विवक्षित-हेत्वभावात् हेतुत्वं न स्यात् तत्परिहारार्थं असिद्धार्थत्वमित्युक्तत्वात् । न च पुनर्दोषः । असिद्धार्थभावादिति असिद्धार्थपदेन सिषाधयिषाविरहसहकृतसिध्यभावस्य विवक्षितत्वात् । सिषाधयिषा च यत्रानुमितिस्तत्र सिषाधयिषाया एव सत्वात् सिषाधयिषाविरहसहकृतसिद्धेरभावात् असिद्धार्थत्वं तिष्ठतीति न दोषः। अत्र यद्यपि असिद्धार्थत्वं न संशयसमानविषयत्वेन गतार्थं असिद्धार्थत्वस्य सर्वत्र सत्वात् । तथाऽपि संशयसमानविषयत्वमात्रेण सिद्धार्थत्वं गतार्थत्वं इति न पृथक् ग्राह्यत्वमिति चेत् । यत्र सिषाधयिषाऽनुमानं प्रवर्तते तत्र संशयसमानविषयत्वं नास्ति ।। अतो सिद्धार्थत्वमुक्तम् ।। न च तत्राप्यसिद्धार्थत्वाभावः वन्हिमात्रस्य सिद्धत्वेऽपि अनुमित्या जन्यस्य तस्य सिद्धत्वात् न च पञ्चानामेवात्रासंभवः क्वचित् क्वचिदित्य-ङ्गीकारादिति ।

Load More