हेतुस्वरूपासिध्दिव्याप्तिश्चेति हेतुविरोधः

हेतुविरोधः

प्रमाणलक्षणटीका

हेतुविरोधं दर्शयति

प्रमाणलक्षणम्

हेतुस्वरूपासिध्दिव्याप्तिश्चेति हेतुविरोधः

अत्र प्रथमहेतुशब्देन लिङ्गमुच्यते । यत् यत्र वादिना विवक्षितं तत्र तस्याप्रमितिः स्वरूपासिद्धिः ।

प्रमाणलक्षणटीकाभावदीपः

।। लिङ्गमुच्यत इति ।। द्वितीयं तु अर्थवचनोभयपरमिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

ननु हेतुस्वरूपासिद्धिरिति कथमुक्तं ? लिङ्गवचनं हेतुः । तथा च ‘शब्दोऽनित्यः चाक्षुषत्वात्’ इत्यत्र चाक्षुषत्वरूपलिङ्गवचनस्वरूपस्य सिद्धत्वादित्यत आह ।। अत्र प्रथमेति ।। द्वितीयहेतुशब्देन तु लिङ्गं तद्वचनं चोच्यते । विरोधस्योभयदूषणत्वादिति भावः । हेतुस्वरूपासिद्धिरित्यस्य हेतुस्वरूपस्य पक्षे असिद्धिः इत्यर्थकत्वे ‘ऊर्ध्वदेशो वृष्टिमान् अधोदेशे नदीपूरात् , रोहिण्युदय आसन्नः कृत्तिकाया उदितत्वात् , अयं प्रदेशः कुलालासत्तिमान् चक्रस्य भ्रमणात्, समुद्रः अभिवृद्धो भवितुमर्हति चन्द्रस्योदितत्वात् , उपरि सविता भूमेरालोकवत्वात्’ इत्यादिव्यधिकरणानुमानेष्वपि पक्षे हेतुस्वरूपस्याभावेन असिद्ध्यापत्त्या असाधकत्वापातेन आश्रयसाध्यव्यधिकरणासिद्धयो न दूषणम् इति वक्ष्यमाणविरोधः स्यादित्यत आह ।। यद्यत्रेति ।। अनेन एवं मूलं योजितं भवति । रूपशब्दोऽत्र स्थानवाची ।

स्वरूपे रूपशब्दः स्यात्प्रकारस्थानयोरपि ।

इत्यभिधानात् । एवं च हेतोः स्वरूपे स्वोचिते स्थाने असिद्धिः प्रमित्यभाव इति । तथा च हेतोः समुचितदेशसिद्धेरेव प्रयोजकत्वेन पक्षधर्मताया अप्रयोजकत्वात् नोक्तदोष इति भावः । ‘यत् यत्र वादिनो विवक्षितं तत्र तस्य असत्वं’ इत्येवोक्तौ यत्र विवक्षितस्थले हेतुस्वरूपस्य सत्त्वेऽपि तत्प्रमित्यभावः तत्र असिद्धिर्न स्यात् अतः अज्ञानासिद्धिसंग्रहायोक्तम् तत्र तस्याप्रमितिरिति ।

प्रमाणलक्षणटीकाविवरणम्

ननु हेतुर्नाम लिंगवचनम् । तच्च नासिद्धं चाक्षुषत्वरूपार्थस्य शब्दे अभावेऽपि चाक्षुषत्वादिति वचनस्य सत्वात् । तथा च हेतुस्वरूपासिद्धिरिति नार्थमुक्तमित्यत आह अत्रेति ।। द्वितीयहेतुशब्देन लिंगं तद्वचनं चोच्यते विरोधस्य उभयदूषणत्वादिति भावः ।

तत्र दुर्गमार्थत्वादसिद्धिलक्षणमाह ।। यद्यत्रेति ।। यद्यप्यत्र यद्येवं वादिना विवक्षितं तत्र तस्यासिद्धत्वमात्रमसिद्धिरिति प्रमितिग्रहणमयुक्तमिवाभाति । तथाऽपि यत्र लिंगस्यासत्वं तस्यैव स्वरूपासिद्धत्वं स्यात् । ननु तत्र हेतुसत्वेऽपि तत्प्रमित्यभावस्य तत्संग्रहार्थे प्रमितिपदोपादानमिति भावः । उपलक्षणमेतत् । पद्धतिरीत्या अव्याप्तिरपि त्रिविधेत्यपि बोध्यम् । उभयोर्वेति ग्राह्यम् ।

ननु पद्धतौ अन्यतरवैकल्येनैव दृष्टान्तस्य दुष्टत्वात् । उभयवैकल्यं न पृथक् गणनीयमित्यादिनोभयवैकल्यस्य पृथक् दूषणत्वाभावादुभयोर्वेति ग्राह्यमित्यनेन तस्य दूषणत्वांगीकरणमयुक्तं विरोधादिति । न च परमतानुसारेणोक्तमिति वाच्यम् । स्वमतीयविभागकथनावसरे आचार्यव्याख्यानरूपत्वेनोक्तेरसङगतत्वादिति चेन्न। यथा मनो नित्यं मूर्तत्वात्परमाणुवत् कर्मवच्चेति च क्रमेण साध्यवैकल्यसाधन-वैकल्यमेव दोषः । यत्रोभयवैकल्यं गगनवदित्यत्र तत्र दृष्टान्तदोषत्वं नास्ति । किं तु दोषान्तरमिति शंका स्यात् । तत्परिहारार्थमेवोभयोर्वेति ग्राह्यमित्याचार्यैरुक्तम् । नतूभयवैकल्यस्य पृथग्दूषणत्वाभिप्रायेणेति विरोधः ।