दोषपरिजिहीर्षया निर्दिष्टसाधकांशे अधिकप्रक्षेपो हेत्वन्तरम्
हेत्वन्तरम्
प्रमाणलक्षणटीका
दोषपरिजिहीर्षया निर्दिष्टसाधकांशे अधिकप्रक्षेपो हेत्वन्तरम् ।
हेतुः उदाहरणे प्रयोजकभागः उपनय इति साधकांशः । तद् द्विविधम् साधनदूषणनिष्ठभेदात् । सर्वं स्वरूपतो विशेषतश्चेतिद्वेधा ।
तत्राऽद्यं यथा,हेत्वाद्यप्रयोगे न्यूनत्वोद्भावने तदुपादानम् ।
द्वितीयमपि दोषप्रतीकाराप्रतीकाराभ्यां दोषसदसद्भावाभ्यां च द्वेधा ।
तत्र साधने हेतौ सद्दोषपरिहारहेतुर्यथा ‘शब्दोऽनित्यः ऐन्द्रियकत्वात्’ इत्यत्रानैकान्तिकत्वेन दूषिते सामान्यवत्वे सतीति ।
उदाहरणे प्रयोजकभागे यथा ‘ऐन्द्रियकः सोऽनित्यः’ इत्यत्र न्यूनत्वेऽभिहिते पूर्ववत् विशेषणम् ।
उपनये यथा ‘तथा चायमैन्द्रियकः’ इत्युक्ते पूर्ववत् विशेषणम्।
दूषणे हेतौ यथा ‘नायं साध्यसाधकः सपक्षे सत्वात्’ इत्यत्र व्यभिचारेण प्रत्युक्ते ‘विपक्षवृत्तित्वे सति’ इत्यादि ।
सद्दोषाप्रतीकारो यथा ‘शब्दोऽनित्य ऐन्द्रियकत्वात्’ इत्यत्र अनैकान्तिकत्वोद्भावने ‘प्रमेयत्वे सति’ इत्यादि ।
असद्दोषप्रतीकारो यथा ‘पर्वतोऽग्निमान् धूमवत्वात्’ इत्यत्र महानसे व्यभिचार इत्युक्ते ‘तदन्यत्वे सति’ इत्यादि ।
असद्दोषाप्रतीकारो यथा तत्रैव ‘प्रमेयत्वे सति’ इत्यादि ।
अत्र हेत्वाभासाऽदिसम्भवेऽपि तस्य साध्यत्वात् सिद्धं हेत्वन्तरमेवोद्भाव्यमिति ।। ५ ।।
प्रमाणलक्षणटीकाभावदीपः
विशेषतो विशेषणत इत्यर्थः ।। हेत्वादीति ।। आदिपदेन उदाहरणे प्रयोजकभाग उपनयश्च ग्राह्यः ।। द्वितीयमिति ।। साधने दूषणे च विशेषणतो हेतुप्रक्षेपरूपमित्यर्थः ।
।। द्वेधेति ।। सद्दोषपरिहारहेतुः तदहेतुश्च, असद्दोषपरिहारहेतुः तदहेतुश्च इति पक्षे हेतुविशेषणप्रक्षेपश्चतुर्धा । दृष्टान्ते उपनयेप्येवमिति द्वादशधा इत्युक्तं भवति । प्रमेयत्वे सतीत्यादीत्यादिपदस्य उदाहरणोपनययोरेवं ज्ञेयमित्यर्थः ।। हेत्वाभासाऽदीति ।। असिद्ध्यादिहेत्वाभाससम्भवेऽपीत्यर्थः । आदिपदेन कथान्तरत्वासङ्गतत्वन्यूनत्वाऽदिग्रहः ।। साध्यत्वादिति ।। हेत्वन्तरोद्भावनादिति भावः ।। ५ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘हेत्वन्तरं साधकांशे दूषिते तद्विशेषणम्’’
इति कारिकाऽनुसारेण हेत्वन्तरं लक्षयति ।। दोषेति ।। प्रतिज्ञाऽन्तरव्यावृत्तये साधकांश इत्युक्तम् । कः साधकांशः ? इत्यत आह ।। हेतुरिति ।। प्रयोजकभाग इति ।। ‘यो यो धूमवान्’ इत्ययमंश इत्यर्थः ।
।। साधनेति ।। साधनानुमानगतप्रयोजकांशगतं हेत्वन्तरमेकमित्यर्थः ।। दूषणेति ।। परप्रतिक्षेपरूपानुमानगतप्रयोजकांशनिष्ठं हेत्वन्तरं द्वितीयमित्यर्थः । सर्वं द्विविधमपि हेत्वन्तरम् । आद्यं स्वरूपतो हेत्वन्तरम् । द्वितीयं विशेषतो हेत्वन्तरम् । प्रतीकारः परिहारः ।
।। दोषसदसद्भावाभ्यां च द्वेधेति ।। एवं सति सद्दोषपरिहारहेतुः तदहेतुश्च असद्दोषपरिहारहेतुः तदहेतुश्च इत्येवं चतुर्विध इत्यर्थः । साधने साधनानुमाने । हेतौ हेतुरूपे साधकांशे । सद्दोषपरिहारेतुः अधिकप्रक्षेप इति शेषः ।
।। अनैकान्तिकत्वेनेति ।। सामान्ये इति शेषः ।। सामान्यवत्वे सतीति ।। सामान्यवत्वे सत्यैन्द्रियकत्वस्य पूर्वहेत्वपेक्षया विशेषहेत्वन्तरमेव, विशेषणभेदन विशिष्टभेदसद्भावादिति भावः । दूषणे परप्रतिक्षेपरूपानुमाने । हेतौ हेतुरूपे साधकांशे ।। व्यभिचारेणेति ।। धूमानुमान इत्यर्थः ।। तत्रैवेति ।। धूमानुमान एव महानसे व्यभिचारपरिहारायेत्यर्थः ।
ननु सद्दोषाप्रतीकारस्थले ‘शब्दोऽनित्यः ऐन्द्रियकत्वात्’ इत्यत्र सामान्ये अनैकान्तिकत्वद्भावने ‘प्रमेयत्वे सति’ इति विशेषणं दीयते । तत्र हेत्वन्तरं कस्मात् उद्भावनीयम् ? सामान्ये पुनरनैकान्त्येन व्यर्थविशेषणासिद्ध्यादिरूपहेत्वा-भासस्यापि सम्भवेन तस्याप्युद्भावनसम्भवात् इत्यत आह ।। अत्रेति ।। सद्दोषाप्रतीकारस्थल इत्यर्थः ।
।। तस्य साध्यत्वादिति ।। ‘प्रमेयत्वे सति’ इति हेत्वन्तरस्य कृतत्वादेव हि अनैकान्त्याऽदिरूपहेत्वाभासप्राप्तिः , नान्यथा । अतो हेत्वन्तररूपनिग्रहस्थानेन हेत्वाभासस्य साध्यत्वात् हेत्वन्तरस्य च सिद्धत्वेन पुरःस्फूर्तिकत्वात् तदेवोद्भाव्यमित्यर्थः ।। ५ ।।
प्रमाणलक्षणटीकाविवरणम्
अथ हेत्वंतरं लक्षयति ।। दोषेति ।। अन्यत् पूर्ववत् । ननु सद्दोषाप्रतीकारस्थले शब्दो नित्यो ऐन्द्रियकत्वादित्यत्र सामान्येनैकान्तिकत्वोद्भावने प्रमेयत्वे सतीति विशेषणं दीयते तत्र हेत्वन्तरं कस्मादुद्भावनीयम् । सामान्ये पुनरनैकान्त्यस्य व्यर्थविशेषणसिद्ध्र्यादिरूपहेत्वाभासस्यापि सम्भवेन तस्याप्युद्भावसम्भवादित्यत आह ।। अत्रेति ।। सद्दोषाप्रतीकारस्थल इत्यर्थः ।
।। तस्य साध्यत्वादिति ।। प्रमेयत्वे सतीति हेत्वन्तरस्य कृतत्वादेव ह्यनैकान्त्यादिरूपहेत्वाभासप्राप्तिः नान्यथा, हेत्वन्तररूपनिग्रहस्थानेन हेत्वाभासस्य साध्यत्वात्। हेत्वन्तरं च सिद्धत्वेन पुरस्फूर्तिकत्वात् तदेवोद्भाव्यमित्यर्थः ।। ५ ।।