प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः

सप्रतिसाधनस्य प्रमाणविरोधान्तर्भावः

प्रमाणलक्षणटीका

बाध एव प्रमाणविरोध इति मन्वान आह । सप्रति-साधनोऽप्यन्योऽनुमानविरोधोऽस्ति । अतः कथमेवं त्रैविध्यं? इति । तत्राह

प्रमाणलक्षणम्

प्रतिज्ञायाः समबलविरोध एव सप्रतिसाधनः

द्विविधो हि प्रतिज्ञायाः प्रमाणविरोधः प्रबलप्रमाणेन समबलेन चेति । आद्योबाधकत्वेन । द्वितीयः प्रतिबन्धकत्वेन । तत्र  योऽयं प्रतिज्ञायाः समबलेन प्रमाणेन विरोधः स सप्रतिसाधन-सञ्ज्ञो भवति । अतो युक्तमुक्तमिति ।