सर्वम् चोत्पत्तिमत् केवलं त्रिविधम्
सादिकेवलज्ञानविभागः
प्रमाणलक्षणटीका
सर्वम् चोत्पत्तिमत् केवलं त्रिविधम् । प्रत्यक्षजमनुमान-जमागमजमिति । प्रत्यक्षादीनामवान्तरभेदेन पुनर्भिद्यत इति।
प्रमाणलक्षणटीकाभावदीपः
।।ऋजुज्ञानाच्चेति ।। तस्यापि अनालोचने किञ्चिद्ह्र्रासयुक्त-त्वात् इति भावः । अत्रतात्विकज्ञानाऽदौ अनादित्वसादित्वयोरुक्तिः व्यक्त््य-पेक्षयेत्याहुः । लक्ष्मीज्ञानस्थित्यनुपपादनपूर्वं तन्निरासायाऽह ।। ईशादन्यत्रेती-त्यादिना ।। आलोचनेऽपि ह्रसितं लक्ष्म्यादिज्ञानमिति कृत्वा ईशात् अन्यत्रेत्युक्त््या तल्लक्ष्म्यादिज्ञानस्य निरास इति योजना ।
।। ऋजुतात्विकज्ञानेति ।। ऋजुज्ञानतात्विकज्ञानेत्यर्थः ।। अयोगिज्ञानेति ।। तस्यातिह्रासयुक्तत्वात् इति भावः । मूलानुक्तविभागं शिष्यव्युत्पादनाय स्वयमाह ।। सर्वं चेति ।। त्रिविधं योगिनां अयोगिनां च वृत्तिरूपं केवलप्रमाणमित्यर्थः । साक्षिज्ञाननिरासायोत्पत्तिमदित्युक्तिः ।
।। अवान्तरभेदेनेति ।। चाक्षुषं रासनं अन्वयानुमानजं व्यतिरेकिजं स्वार्थानुमानजं कार्यानुमानजं नित्याऽगमजं पौरुषेयाऽगमजं इत्याद्यवान्तरभेदेने-त्यर्थः । एतच्च त्रिविधमित्युक्तधाप्रत्ययघटनाय । ‘‘सङ्ख्याया विधार्थे धा’’ इति अवान्तरभेद एव धाप्रत्ययविधानात् ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
ततः तेभ्य ऋजुभ्यः, अर्वाक् नीचानां योगिनां तात्विकानां अतात्विकानां च, ज्ञानमिति शेष:, ततः ईशात्, अर्वाक् अन्यत्र, क्रमेण ह्रसितमित्यर्थ इत्यभिप्रेत्य व्याचष्टे ।। ऋजुभ्य इत्यादिना ।। किञ्चिन्मात्रह्रासयुक्तमिति ।। किञ्चिन्मात्रहासो नामाल्पाज्ञानयुक्तत्वम् । असर्वविषयकत्वमिति यावत् । तद्युक्तमित्यर्थः ।
।। अन्योन्यमिति ।। ईशात् अन्यत्र असर्वविषयकत्वस्य तात्विकयोगि-ज्ञानलक्षणत्वे अतात्विकयोगिज्ञाने अतिव्याप्तिः, अतात्विकयोगिज्ञानलक्षणत्वे च तात्विकयोगिज्ञाने अतिव्याप्तिरित्यर्थः ।
।। ऋजुज्ञानाच्चेति ।। अनालोचनदशायां इति शेषः । ईशात् अन्यत्र अनालोचनदशायां असर्वविषयकत्वस्य ऋजुज्ञानेऽपि सत्वात् अतिव्याप्तिरित्यर्थः । कथम् अनेनोक्तशङ्कानिरासः ? इत्यत आह ।। नैतावदेवेति ।। ततोऽर्वागितिवाक्योक्तमेव न लक्षणमित्यर्थः ।
नैतावदेव लक्षणं चेत् पुनः कियत् इति पृच्छति ।। किं त्विति ।। तदुत्तरतया मूलम् योजयति ।। तात्विकेति ।। सादि चेत्यत्र चशब्दार्थकथनमेतत् ।। इत्यपि गृह्यत इति ।। ततोऽर्वागित्युक्तलक्षण इत्यर्थः । वाक्यद्वयसम्पन्नं लक्षणं दर्शयति ।। एतेनेत्यादिना ।।
।। अनादित्वे सतीति ।। तत्वाभिमानिनो देवास्तात्विकाः । तेषां ज्ञानमपि स्वरूपभूतं वत्तिरूपं चेति द्विविधम् । तदुभयसाधारणमिदं लक्षणम् । तत्र तात्विकस्वरूपज्ञानस्य अनादित्वं नाम वैदिकेश्वरादिविषयेसदा वक्तव्यम् । इदम्प्रथमताभाव इति यावत् । वृत्तिज्ञानस्यानादित्वं नाम वैदिकेश्वराऽदिविषये तत्प्रवाहस्येदम्प्रथमताया अभाव एवेति ज्ञातव्यम् ।
।। ह्रसितमिति ।। अल्पाज्ञानयुक्तमसर्वविषयकमित्यर्थः । यथोक्तम् पद्धतौ अनादित्वे सति ईशात् अन्यत्र आलोचनेऽपि असर्वविषयं तज्ज्ञानमिति । एतेषां स्वरूपज्ञानं यथार्थमेव । बाह्यं कदाचित् अयथार्थमपीति विशेषो द्रष्टव्यः।
।। सादित्वे सतीति ।। तत्वाभिमानिव्यतिरिक्ता देवाऽदयो योगिनः अतात्विकाः । तदीयं ज्ञानमपि स्वरूपं वृत्तिरूपं चेति द्विविधम् । तदुभय-साधारणमिदं लक्षणम् । तत्रानादितोऽनभिव्यक्तमेव स्वरूपम् वैदिकेश्वरादिविषये कदाचित् अभिव्यज्यते इत्येवं अभिव्यक्तेः इदम्प्रथमतावत्वमेव स्वरूपज्ञानस्य साऽदित्वम् । वृत्तिज्ञानस्य वैदिकेश्वराऽदिविषये अनुत्पन्न एव प्रवाहः कदाचित् उत्पद्यत इति इदम्प्रथमतावत्वमेव सादित्वमिति विवेको द्रष्टव्यः ।
।। किञ्चिन्मात्रहासयुक्तमिति ।। अल्पाज्ञानयुक्तमित्यर्थः । यथोक्तम् पद्धतौ सादित्वे सति ईशात् अन्यत्र अल्पाज्ञानयुक्तम् इति । एतेषामपि स्वरूपज्ञानं यथार्थमेव । बाह्यं तु कदाचिदयथार्थमपीतिद्रष्टव्यम् । तात्विकातात्विकयोगिज्ञानयोः अल्पाज्ञानयुक्तत्वेन साम्येऽपि अनादित्वसादित्वाभ्यां विशेषोद्रष्टव्यः ।
एवं च अतात्विकस्वरूपज्ञान इव ऋजुतात्विकस्वरूपज्ञानेपि व्यक्तेः साम्यात्, सादित्वस्य च अतात्विकवृत्तिज्ञान इव ऋजुतात्विकवृत्तिज्ञानयोरपि विद्यमानत्वात् कथं ऋजुतात्विकातात्विकयोगिज्ञानानां अनादित्वसादित्वकथनम् ? इति चोद्यानवकाशः । वैदिकेश्वराऽदिविषये ऋजुतात्विकस्वरूप-व्यक्तिवत्तिप्रवाहयोः इदम्प्रथमताया अभावेन अनादित्वम्, अतात्विकस्वरूप-ज्ञानाभिव्यक्तिवत्तिप्रवाहयोः इदम्प्रथमतायाः कदाचिदेवोत्पन्नत्वेन सादित्वम् इति विवक्षितत्वात् ।
तात्विकयोगिज्ञानलक्षणे पदानां कृत्यमाह ।। तत्राद्य इति ।। लक्षणद्वयमध्ये आद्ये लक्षण इत्यर्थः ।। ह्मसितेति ।। असर्वविषयेत्यर्थः ।। ऋजुज्ञानेति ।। अनादित्वेसति ईशात् अन्यत्र अनालोचनदशायां ऋजुज्ञानस्यापि ह्रसितत्वादित्यर्थः। ईशात् अन्यत्र ज्ञानमित्येवोक्ते ईशादिज्ञाने अतिव्याप्तिः इत्याशङ्क्य तां परिहरति ।। ह्रसितमित्यनेनैवेति ।। किं पुनरालोचनेऽपीत्यालोचनग्रहणेनेति एवकारार्थःे। तथा च पदद्वयेन तन्निरास इति भावः । अत एवोत्तरत्र ह्रसितत्वाऽदिग्रहणेनेति वक्ष्यति ।। ईशज्ञानेति ।। ईशाऽदिज्ञानेत्यर्थः ।
अन्ये तु अस्मिन् लक्षणे ईशज्ञानं व्यावर्त्यते न वा । आद्ये केन ज्ञानेति विवेक्तव्यम् ? न तावदनादित्वे सतीत्यनेन । तस्या तात्विकज्ञानव्यावर्तकत्वात् । नापि ईशात् अन्यत्रेति विशेषणेन । तस्य लक्ष्मीज्ञानव्यावर्तकत्वात् । नाप्यालोचनेऽपीति विशेषणेन । तस्य ऋजुज्ञानव्यावर्तकत्वात् । नापि ह्रसितमित्यनेन । ईशस्याऽलोचनाभावत् । अतः केन विशेषणेन तद्व्यावृत्तिः? इत्यत आह ।। ह्रसितमित्यनेनैवेति ।। नत्वनादीत्यादिपदैरिति एवार्थः । अत्रानादिविशेषणानां कृत्यकरणात् प्रागेव ह्रसितपदकृत्यं द्रष्टव्यम् ।
तथा चैवं पदकृत्यक्रमः । अनादि तात्विकज्ञानमित्युक्ते ईशज्ञानेतिव्याप्तिः स्यात् । तदर्थं ह्रसितमित्युक्तम् । तावत्युक्ते लक्ष्मीज्ञाने । तस्याप्यानादित्वात् ईशविषये ह्रसितत्वाच्च । अत उक्तम् ईशात् अन्यत्रेति । तावत्युक्ते ऋजु-ज्ञानेऽतिव्याप्तिः तस्यापि अनालोचनदशायां ह्रसितत्वात् । अत उक्तम् आलोचनेऽपीति । तथा च ह्रसितपदेनैव ईशज्ञानव्यावृत्तिः कार्या न पदान्तरैः । तेषां तदव्यावर्तकत्वात् इति भाव इत्याहुः ।
अतात्विकयोगिज्ञानलक्षणे पदानां कृत्यमाह ।। द्वितीय इति ।। सादित्वे सति र्ईशात् अन्यत्र अज्ञानयुक्तमित्युक्ते अयोगिज्ञानेऽतिव्याप्तिः स्यात् । अत उक्तम् किञ्चिन्मात्रह्रासयुक्तमिति ।
तस्य बहुतराज्ञानयुक्तत्वेनाल्पाज्ञानयुक्तत्वाभावादाह ।। किञ्चिन्मात्रेति ।। ईशात् अन्यत्र इति पदत्यागे ईशविषये बह्वज्ञानयुक्तत्वेनाल्पाज्ञानयुक्तत्वा-भावाल्लक्षणस्यासम्भवः स्यात् । अत उक्तम् ईशात् अन्यत्रेति, इत्याह ।। ईशादन्यत्रेति ।। तत्सम्भवार्थमिति ।। तस्य लक्षणस्य लक्ष्ये सम्भवार्थम् असम्भवपरिहारार्थमिति यावदित्यर्थः ।
ईशात् अन्यत्र ज्ञानम् इत्येवास्तु इत्यत आह ।। ह्रसितत्वाऽदीति ।। ह्रसितत्वाऽदीत्यत्र आदिपदेन सादित्वकिञ्चिन्मात्रह्रासयुक्तत्वयोः संग्रहः । द्वितीयाऽदिपदेन लक्ष्मीग्रहणम् ।
।। अयोगिज्ञानमुत्पत्तिविनाशवदिति ।। अतात्विकदेवाऽदिव्यतिरिक्तजीवा अयोगिनः । तथा च अयोगिनां स्वरूपं बाह्यं चेति द्विविधमपि ज्ञानमुत्पत्तिनाशवत्। स्वरूपज्ञानस्य वैदिकेश्वराऽदिविषयकस्य कदाचिदभिव्यक्त्यपेक्षयोत्पत्ति-विनाशवत्वम् । वृत्तिज्ञानस्य तु स्वरूपापेक्षयेति द्रष्टव्यम् ।। तस्य लक्षणमाहेति ।।
नन्वेवं चेत् अतात्विकयोगिज्ञानायोगिज्ञानयोरुत्पत्तिनाशवत्वेन साम्यमेव प्राप्तम् इत्याशङ्क्य तयोर्भेदकं लक्षणमाहेत्यर्थः ।। अल्पविषयमिति ।। अत्यन्तमिति संयोज्यम् । अत्यन्ताल्पविषयमित्यर्थः । यथोक्तं पद्धतौ ईश्वरात् अन्यत्र अज्ञानप्रचुरम् इति । अज्ञानप्रचुरं बह्वज्ञानयुक्तम् । अत्यन्ताल्पविषयमिति तदर्थः।
ईशेऽत्यन्ताल्पविषयलक्ष्मीज्ञानव्युदासाय ईशात् अन्यत्र इत्युक्तम् । ईशात् अन्यत्र अल्पविषयकातात्विकयोगिज्ञानवारणाय अत्यन्तेति । ईशलक्ष्मी-ज्ञानर्ज्वादिस्वरूपज्ञानरूपकेवलप्रमाणे वक्ष्यमाणप्रत्यक्षत्वाऽदिरूपत्रैविध्यस्य बाधितत्वादाह ।। सर्वं चोत्पत्तिमत्केवलमिति ।। उत्पत्तिमत् सर्व केवलं ऋज्वादिमनोवृत्तिरूपं ज्ञानमित्यर्थः ।
।। प्रत्यक्षादीनामिति ।। घ्राणाऽद्यवान्तरभेदेन प्रत्यक्षस्य षाडि्वध्यात् तज्जन्यं ज्ञानमपि षडि्वधम् । अनुमानस्यापि साधनदूषणभेदेन द्वैविध्यात् आगमस्यापि पौरुषेयापौरुषेयभेदेन द्वैविध्यात् तज्जन्यं ज्ञानमपि पुनर्भिद्यत इत्यर्थः।
प्रमाणलक्षणटीकाविवरणम्
ततोऽव्ययमित्यनेन मुक्तौ अव्ययत्वं वदता मुक्तेः पूर्वं तद्ह्रासो नांऽगीकृतः । मुक्तिपर्यंतंवृद्धिमत्वे कि नंनूयत्यपीत्युक्ते तत्राव्यव्यत्वे मात्रोक्तेः । यद्वाऽस्तुवाऽव्ययः । नचैवमपसिद्धान्तः । तिरोभावलक्षणस्य व्ययस्याङ्गीकारादिति ध्येयं । तच्छब्दस्य पूर्वप्रकृतऋजुत्वपरत्वं अर्वाकशब्दस्वचतदन्यतात्विकातात्विका-योगिपरत्वं ज्ञानशब्दन्यत्रशब्दस्य च पूर्ववाक्यादनुषङ्गमभिप्रेत्य साकांक्षं वाक्यं योजयति ।। ऋजुभ्य इति ।।
अनेनालोचने ईशादन्यत्रासर्वविषयत्वं तात्विकातात्विकयोगिज्ञानलक्षणमुक्तं तदयुक्तमित्याह ।। अन्योन्यमिति ।। ईशादन्यत्रालोचनेऽसर्वविषयत्वस्योभयत्र सत्त्वेनातिव्याप्तेरिति भावः । ऋजुज्ञानाच्चेति ।। अनालोचन इति शेषः । तस्याप्यनालोचने ईशादन्यत्र सर्वविषयत्वाभावात् । तत्रातिप्यभन्याप्तिरिति भावः।
।। ईशादन्यत्रेतीति ।। लक्ष्मीज्ञानं च ईशादन्यत्रालोचनेऽसर्वविषयं न भवतीत्यर्थः । ईशादन्यत्रानालोचने सर्वविषयं ऋजुयोगिज्ञानमपि भवतीति तत्रातिव्याप्तिरतो आलोचनेपीत्युक्तमित्याह ।। ऋजुयोगिज्ञानेति ।। ह्रसितमित्यनेनैवेति ।। किंपुनरालोचनग्रहणेनेति एवशब्दः । ह्रसितत्वादीत्यत्र आदिपदेन सादित्वानालोचनयोर्ग्रहणं । द्वितीयेन लक्ष्म्यादिनां । ज्ञानिवृत्तिरिति लक्ष्म्यादिज्ञानस्यापि ईश्चरविषये अत्यल्पत्वात्तत्र ज्ञाने चातिव्याप्त्या न अल्पत्वं तल्लक्षणमित्यत आह ।। ईशादन्यत्रेति ।। नचैवमतात्विकऋजुज्ञाने ईशादन्यत्र अतात्विकयोगिज्ञानापेक्षयाऽपि न्यूनविषयत्वस्य विवक्षितत्वादिति भावः । योगिज्ञानवदयोगिज्ञानमपि किंचिन्नित्यं किंचिदनित्यं किंनेत्याह ।। सर्वमिति ।। तत्रच स्वरूपज्ञानस्य व्यक्त्यपेक्षयोत्पत्तिमत्वमिति हृदयम् । सर्वं चोत्पत्तिमत् केवलं द्विविधमिति पाठे उत्पत्तिमत्केवलं सर्वं तु त्रिविधमिर्त्थः ।
नैतावन्मात्रमपि तु अनेकप्रकारं चेत्याह ।। प्रत्यक्षेति ।। प्रत्यक्षस्य सप्तविधत्वादनुमानस्यापि अकार्यकारणादिभेदेनाऽगमस्यापि पौरुषेयापौरुषेयभेदेन तज्जन्यं केवलं अनेकप्रकारमित्यर्थः ।।