वादिना त्रिरभिहितस्यापि परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम्

अज्ञानम्

प्रमाणलक्षणटीका

वादिना त्रिरभिहितस्यापि परिषदा विज्ञातार्थस्य वाक्यस्यार्थाप्रतिपत्तिरज्ञानम् । तच्चाज्ञानम् आविष्करणेन ज्ञातव्यम् । यथा ‘नास्यार्थो ज्ञायते मया’ इति । अनाविष्करणे तु अननुभाषणमेव ।। १५ ।।

प्रमाणलक्षणटीकाभावदीपः

अविज्ञातार्थेऽनतिव्याप्तये परिषदा विज्ञातार्थस्येति ।। आविष्कार-मेव दर्शयति ।। यथेति ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘ज्ञातेऽपि वादिवाक्यार्थे प्राश्निकैस्तत्र चेत्पुनः ।

स्वाज्ञानमुद्भावयति तदाऽज्ञानेन निग्रहः’’

इति करिकाऽनुसारेणाज्ञानं लक्षयति ।। वादिनेति  ।। वादिना सकृद्वा द्विवारं वा उक्ते सति तदर्थाप्रतीतेरदूषणत्वात् तत्रातिव्याप्तिपरिहाराय त्रिरभिहितस्य इत्युक्तम्। परिषदेत्यविज्ञातार्थव्यवच्छेदः ।

ननु तर्ह्यननुभाषणेऽतिव्याप्तिः इत्यत आह ।। तच्चाज्ञानमिति ।। आवि-ष्करणप्रकारमेव दर्शयति ।। यथेति ।। तथा च लक्षणे अर्थाप्रतिपत्तिरित्यस्य  अर्थाप्रतिपत्त्युद्भावनमित्यर्थो द्रष्टव्यः  । अत एव कारिकायाम् ‘स्वाज्ञानमुद्भावयति’ इत्युक्तम् ।। अनाविष्करणे त्विति ।। स्वज्ञानस्येति शेषः ।। १५ ।।

प्रमाणलक्षणटीकाविवरणम्

अथाज्ञानं लक्षयति ।। वादिनेति ।। तद्भानप्रकरमाह ।। तच्चेति ।। आविष्करणप्रकारमेवाह ।। यथेति ।।