पक्षाऽदीनां सिद्धानामपि तेनैव हेतुना साध्यत्वापादनं साध्यसमः

साध्यसमजातिः

प्रमाणलक्षणटीका

पक्षाऽदीनां सिद्धानामपि तेनैव हेतुना साध्यत्वापादनं साध्यसमः । यथा पर्वताऽदिसिद्ध्यर्थमपि धूमवत्वमेव प्रयोक्तव्यम् । अन्यथा क्रोडीकृतधर्म्यादिविषयस्य लिङ्गस्य तत्राप्रयोजकत्वे साध्येऽपि तथात्वाऽपातात् । दृष्टान्तेऽपि साध्यसिद्ध्यर्थमयमेव हेतुः प्रयोक्तव्यः । अन्यथा पक्षेऽपि अप्रयोजकत्वाऽपातात् । अन्यत्समानम् । तथा च तत्सिद्ध्यर्थ यावत् न प्रयुज्यते तावदाश्रयाऽसिद्ध्यादीति ।।

प्रमाणलक्षणटीकाभावदीपः

।। पक्षादीनामिति ।। धुर्मिसाधनदृष्टान्तव्याप्त्यादीनामित्यर्थः ।। क्रोडीकृतेति ।। समुदायीकृतधर्मिसाध्यसाधनादिविषयकस्य लिङ्गस्य इत्यर्थः ।। अन्यथा पक्षेऽपीति ।। वह्निमत्त्वसाधनेऽपीत्यर्थः ।

।। अन्यदिति ।। पक्षे दृष्टान्ते च साधनसिद्ध्यर्थमयमेव हेतुः प्रयोक्तव्यः ।। अन्यथा पक्षेऽपि अप्रयोजकः स्यात् इति व्याप्तिसिद्ध्यर्थं  दृष्टान्तमहानसादि-सिद्ध्यर्थं इत्यादि एवमेव ज्ञेयमित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

दृष्टान्तहेतुपक्षाणां  सिद्धानामपि साध्यवत् ।

साध्यत्वापादनं तस्माल्लिङ्गात् साध्यसमो भवेत्

इतिकारिकाऽनुसारेण साध्यसमजातिं लक्षयति ।। पक्षाऽदीनामिति ।। आदिपदेन लिङ्गदृष्टान्तग्रहणम् ।। सिद्धानामपीति ।। प्रमाणान्तरेण सिद्धानामपीत्यर्थः ।

वर्ण्यसमव्यावृत्त्यर्थ तेनैव हेतुनेत्युक्तम् ।। धूमवत्वमेवेति ।। सिद्धस्यैव धर्म्यादेरनुमानाङ्गत्वात्  प्रमाणान्तरात्तत्सिद्धेरनुचितत्वात् इदमेव धूमवत्त्वं तत्सिद्ध्यर्थं प्रयोक्तव्यं इति जातिवादिनोऽभिमान इत्यर्थः ।

।। अन्यथेति ।। पर्वताऽदिसिद्ध्यर्थमपि अस्यैव हेतोः अप्रयोग इत्यर्थः ।। क्रोडीकृतेति ।। ‘तस्मात् पर्वतोऽग्निमान्’ इति विशेषणविशेष्यभावापन्नधर्मिलिङ्ग-लिङ्गिविषयकानुमितिजनकत्वस्वभावस्य लिङ्गस्य इत्यर्थः । लिङ्गोपहितलैङ्गिक-भानपक्षाभिप्रायेणेदं  मन्तव्यम् ।। तत्रेति ।। धर्मिलिङ्गयोरित्यर्थः ।

।। साध्येऽपीति ।। पक्षे साध्यसिद्धावपि अप्रयोजकत्वापातात् इत्यर्थः । तथा च लिङ्गधर्मिणौ अपोह्य साध्यमात्रप्रतीतेः लिङ्गादजायमानत्त्वात् तेनैव हेतुना धर्म्यादेरपि साधनमावश्यकमिति भावः ।। पक्षेऽपीति ।। पक्षे साध्यसिद्धावपि ।। अन्यत्समानमिति ।। दृष्टान्तरूपधर्मिसिद्ध्यर्थमपि अयमेव हेतुः प्रयोक्तव्यः । अन्यथा तत्र अप्रयोजकस्य अन्यत्रापि अप्रयोजकत्वापातात् इत्यर्थः ।

।। तत्सिद्ध्यर्थमिति ।। तेषां पक्षहेतुदृष्टान्तानां सिद्ध्यर्थमित्यर्थः ।। न प्रयुज्यत इति ।। अयमेव हेतुरिति शेषः ।। तावदिति ।। पक्षादीनामसिद्ध्येत्यर्थः । आश्रयासिद्ध्यादीत्यादिपदेन स्वरूपासिद्धिग्नहणम् ।

प्रमाणलक्षणटीकाविवरणम्

।। अन्यत्समानमिति ।। दृष्टान्तधर्मिण्ययमेव हेतुः प्रयोक्तव्यः अन्यथा तत्राप्रयोजकत्वे अन्यत्राप्यप्रयोजकत्वापातादित्यर्थः ।

Load More