लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम् दृष्टहानिश्च

स्मृतेरनुमानत्वेन प्रामाण्यमिति पक्षनिरासः

प्रमाणलक्षणटीका

सत्यम् , स्मृतिरेवानुभूते प्रमाणम् । किं नाम ? लिङ्गत्वेनैव । पटुतरो ह्यनुभवः संस्कारं जनयति । स च सदृशदर्शनादिना समुद्वुद्धः स्मृतिमिति । संस्कारजन्या स्मृतिः संस्कारे लिङ्गम् । स च पूर्वानुभवे भविष्यति । अतो नानुभूतस्याप्रामाणिकत्वं नापि लक्षणस्याव्याप्तिः स्मृतेरपि सम्यगनुभवसाधनत्वादित्यत आह

प्रमाणलक्षणम्

लिङ्गत्वेन प्रामाण्ये कल्पनागौरवम्

यदि स्मृतेर्लिङ्गत्वेन प्रामाण्यं कल्प्यते तर्हि कल्पनागौरवं स्यात् । साक्षात् अर्थ एव प्रामाण्यसम्भवेऽपि स्मृतेः संस्कारे लिङ्गत्वं, तस्यानुभव इत्यप्रामाणिकस्यानेकस्य कल्प्यमान-त्वादिति । दोषान्तरं चाह

दृष्टहानिश्च

यदि स्मृतेर्लिङ्गत्वेन प्रामाण्यं तर्हि पृथक्प्रमाणतया दृष्टस्य अपि प्रत्यक्षादेः लिङ्गत्वमेव स्यात् तत्रापि प्रत्यक्षादिना कर्मकारकस्यार्थस्यानुमानसम्भवात् ।

अतः प्रत्यक्षादिवत् स्मृतेरपि साक्षात्प्रामाण्यात् तत्राव्याप्तं परोक्तप्रमाणलक्षणमयुक्तमेवेति यथावस्थिता-र्थविषयत्वमेव लक्षणमुपपन्नमिति ।

प्रमाणलक्षणटीकाभावदीपः

।। प्रागादिशब्देनेति ।। ईश्वरज्ञानादावित्यादिशब्देनेत्यर्थः । ज्ञाने अव्याप्तिसमर्थनार्थमेव एतावतो ग्रन्थस्य प्रवृत्तत्वात् इदानीं आदिपदसङ्गृहीतोक्ते-रवसर इति भावः ।। तत्रेति ।। अव्याप्त्यभिधाने कृते सतीत्यर्थः ।

।। साधितत्वादिति ।। स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थत्वानुभवात् इत्यत्रेति भावः । अर्धाङ्गीकारेण शङ्गते ।। सत्यमित्यादिना ।। धूमेनाग्निरिव स्मृतिरूपकार्येण संस्कारमनुमाय तेन तत्कारणानुमानमिति परम्परया  स्मृतिरनुभवे लिङ्गमिति भावेन कार्यकारणभावं व्यनक्ति ।। पटुतरो हीत्यादिना ।। सदृशदर्शनादिनेति ।। अदृष्टादिरादिपदार्थः ।। स्मृतिमिति ।। जनयतीत्यनुकर्षः ।। सम्यगनुभवसाधनत्वादिति ।। संस्कारानुमिति रूपसम्यगनुभवसाधनत्वा-दित्यर्थः ।

 ।। प्रत्यक्षादेरिति ।। साक्षात्कारज्ञानस्य शाब्दज्ञानस्य च ‘क्रियां कुर्वद्धि कारकम् ‘इति कर्मकारकजन्यत्वेन अपरोक्षादिरूपकार्यलिङ्गेन घटादेः कारकस्य अनुमानेन सिद्धिरिति स्यात् । तथा च घटादिरप्यनुमेय एवेत्यापद्येतेति अनुमानमेक-मेव प्रमाणमिति स्यादित्यर्थः । अत एव कर्मकारकस्येत्युक्तम् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

शङ्कते ।। यथार्थस्मृताविति ।। प्राकृ आदिशब्देन सङ्गृहीतेति शेषः । तथा च पूर्वं ईश्वरज्ञानादावव्याप्तेः इत्यत्रत्यादिशब्देन अस्मदादिज्ञानस्यापि गृहीतत्वेन यथार्थस्मृतिरूपे अस्मदादिज्ञानेऽप्यव्याप्तिरित्युक्तम् । तत्र स्मृतिर्न प्रमाणमित्यर्थः । यद्वा उत्तरवाक्यमुत्थापयितुं मूलमुपलक्षणपरं इत्यभिपे्रत्याह ।। यथार्थस्मृताविति ।।

तस्योपरि शङ्कते ।। तत्रेति ।। कुतोे न वाच्यम् ? इत्यत आह ।। साधितत्वा-दिति ।। स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थत्वानुभवात् वेदानुमानादिप्रामाण्य-प्रसिद्धेश्च इत्यादिना स्मृतिप्रामाण्यस्य साधितत्वादित्यर्थः ।। स्मृतिं विनेति ।। कार्यस्यैव कारणप्रमापकत्वादिति भावः ।

शङ्कते ।। सत्यमित्यादिना ।। लिङ्गत्वेनैवेति ।। अनुभूतेऽर्थे केवलत्वेन  साक्षात्स्मृतित्वेन प्रामाण्यं नास्तीत्याशयः । निर्विकल्पकानुभवस्य संस्कारजनकत्वा-भावात् पटुतर इत्युक्तं । सविकल्पकानुभव इत्यर्थः । संस्कारमात्रस्य स्मृतिजनकत्वा-भावात् समुद्बुुद्ध इत्युक्तं । समुद्बोधलक्षणसमकार्युपेत इत्यर्थः । समुद्बोधकारण-प्रदर्शनाय सदृशदर्शनादिनेत्युक्तं । आदिपदेन अदृष्टचिन्तादिग्रहणम् । यथोक्तं परैः  सदृशादृष्टचिन्ताद्याः स्मृतिवीजस्य बोधकाः ।। इति । स्मृतिबीजं संस्कारः तस्य बोधका उद्बोधका इति तदर्थो द्रष्टव्यः । स्मृतिं जनयति इति वर्तते । ततः किं प्रकृते ? इत्यत आह ।। संस्कारजन्येति ।। तथा च इति शेषः । ‘अयं संस्कारवान् स्मृतिमत्त्वात्  यो यत्कार्यवान् स तत्कारणवान्’ इति सामान्यव्याप्तेरिति भावः ।

स च संस्कारः । भविष्यति लिङ्गमिति वर्तते । ‘अयं पूर्वानुभववान् संस्कार-वत्वात्’ इत्यनुमानं द्रष्टव्यम् । अत्र स्वरूपासिद्धिपरिहाराय पूर्वानुमानमिति बोध्यम् ।। स्मृतेरपीति ।। संस्कारद्वारेति शेषः ।। सम्यगनुभवेति ।। ‘अयमनुभववान्’ इतिपूर्वानुभवविषयको यः सम्यगनुभवोऽनुमितिरूपः तत्साधनत्वेन अनुमाने अन्तर्भावादित्यर्थः ।

।। साक्षादर्थ एवेति ।। पूर्वानुभवविषयीकृते घटादिरूपार्थविषय एव साक्षात्प्रामाण्यं  केवलप्रमाणतवं, तस्य सम्भवेऽपीत्यर्थः । साक्षाद्यथावस्थितज्ञेय-विषयीकारित्वरूपकेवलप्रमाणत्वसम्भवेऽपि उक्तरीत्या सम्यगनुभवसाधनत्वरूपा-नुप्रमाणत्वाङ्गीकारेगौरवमिति भावः ।

 ।। पृथगित्यादि ।। साक्षाद्धटादिविषयप्रमितिरूपतया ‘घटज्ञानवानहम्’ इत्याद्यनुव्यवसायविषयीकृतस्य ‘अयं घटः’ इत्यादिज्ञानस्यापि अर्थे लिङ्गत्वेनैव प्रामाण्यं स्यात् । न पृथक् प्रत्यक्षत्वेन प्रामाण्यमित्यर्थः । तदेव विवृणोति ।। तत्रापीति ।। ‘अयं घटः’ इत्यादिप्रत्यक्षस्थलेऽपि ।। प्रत्यक्षादिना ‘अयं घटः’ इत्यादिज्ञानरूप कार्येण ।। कर्मकारकस्येति ।। कर्मतया जनकस्येत्यर्थः ।। अनुमानसम्भवादिति ।। सौत्रान्तिकमतानुसारेणेति शेषः । सौत्रान्तिकमते ज्ञानातिरिक्तः सर्वोप्यर्थप्रपञ्चोऽनुमेय एव । न तु प्रत्यक्षः । ज्ञानमेव नीलाद्याकारं प्रत्यक्षवेद्यं । इदं च कादाचित्कत्वात्  किमपि कारणमपेक्षमाणं  बाह्यमर्थमनुमापयिष्यतीति भावः । यथोक्तमनु व्याख्याने

विश्वं प्रत्यक्षगं त्यक्त्वा तयोर्योऽनुमितिं वदेत् ।। इति ।

यद्वा ‘विमतं स्थलं घटवद्भवितुमर्हति तद्वत्वेनोपलभ्यमानत्वात्’ इति प्रयोगसम्भवेन प्रत्यक्षस्याप्यर्थे लिङ्गत्वसम्भवेन पृथक्प्रामाण्यं न स्यादित्यर्थः । अतोऽत्र लिङ्गत्वेन प्रामाण्यकल्पने दृष्टहानिरित्येव त्वया वाच्यं । तत् अस्माकमपि समानमिति भावः । उपसंहरति ।। अत इति ।। साक्षात्प्रमाण्यात् । अर्थ एवेति शेषः ।। साक्षादिति ।। न लिङ्गत्वेनेत्यर्थः । इति सिद्धमिति शेषः ।

प्रमाणलक्षणटीकाविवरणम्

साधितत्वादिति ।। स्मृत्यनुवादयोर्नाप्रामाण्यं यथार्थानुभवत्वात् वेदानुमानादिप्रामाण्यप्रसिद्धेश्च । स्मृतिप्रत्यक्षमैतिह्यमित्यादियुक्त्यादिना प्रामाण्यस्य साधितत्वात्  इत्यर्थः ।

अनुभवमात्रस्य संस्कारजनकत्वाभावादाह पटुतर इति । संस्कारसत्वेऽपि स्मृतेरभावादाह समुद्बुद्ध इति । सदृशदर्शनादिति समुद्बोधे कारणोक्तिः ।अत एवोक्तं परेणापि सदृशा दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधका इति स च संस्कारः भविष्यति लिंगमिति शेषः । अन्यस्याप्यर्थे लिंगत्वमेव स्यात् । विमतं स्थलं घटवत् तत्वेनोप-लक्ष्यमानत्वादित्यनुमानप्रयोगसंभवादिति भावः ।