प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः
प्रतिज्ञाविरोधः
प्रमाणलक्षणटीका
प्रतिज्ञाविरोधं लक्षयति ।
प्रमाणलक्षणम्
प्रमाणविरुद्धार्थप्रतिज्ञाविरोधः
अत्र प्रमाणविरोध एव हेत्वाभासानामन्तर्भावात् तस्य ग्रहणं, न स्ववाक्यविरोधस्य ।
प्रमाणलक्षणटीकाभावदीपः
प्रमाणस्ववाक्यविरुद्धार्थेति कुतो नोक्तं ? इत्यत आह ।। अत्र प्रमाणविरोध एवेति ।। न स्ववाक्यविरोधस्येति ।। ग्रहणमित्यनुकर्षः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
ननु प्रमाणविरोधवत् स्ववाक्यविरोधस्यापि प्रतिज्ञाविरोधत्वात् प्रमाणस्ववाक्यविरुद्धार्थप्रतिज्ञा प्रतिज्ञाविरोधः इति कुतो नोक्तम् ? इत्यत आह ।। अत्रेति ।। नेति ।। स्ववाक्यविरोधे हेत्वाभासानामनन्तर्भावात् तदन्तर्भाव-कथनायैवास्य ग्रन्थस्य प्रवृत्तत्वादित्याशयः ।
प्रमाणलक्षणटीकाविवरणम्
ननु प्रमाणविरुद्धार्थः प्रतिज्ञाविरोध इत्युक्तम् । प्रमाणविरोधवत् स्ववाक्यविरोधस्यापि तद्विरोधत्वादित्यतः आह अत्रेति ।। नात्र प्रतिज्ञाविरोधादि-लक्षणमन्याथर्ं अपि तर्हि हेत्वाभासादीनामन्तर्भावकथनार्थमेव । हेत्वाभासाना-मन्तर्भावश्च न स्ववाक्यविरोधे किंतु प्रमाणविरोध एवेति युक्तमुक्तम् ।