तदेतदयुक्तम्
तार्किकसौगतमतखण्डनम्
प्रमाणलक्षणटीका
तदेतदयुक्तम् । गुणाऽदेर्द्रव्येणात्यन्तभेदस्य निर्विशेषा-भेदस्य चाभावेन विशिष्टबोधस्यैव साक्षिसिद्धत्वात् ।
प्रमाणलक्षणटीकाभावदीपः
।। द्विविधं प्रत्यक्षमिति ।। करणभूतमित्यर्थः । एक इत्युक्त्या तत्रारुचिं सूचयति । तद्बीजं तु अल्पमग्रे । विस्तरेण तु पद्धतौ तर्कताण्डवे च व्यक्तम् । स्वरूपमात्रेति मात्रपदेन सम्बन्धावगाहनं व्यावर्त्यते इत्याह ।। नत्विति ।। तस्य कदा जन्म ? इत्यत आह ।। प्राथमिकमिति ।। सविकल्पकात् पूर्वभावि इत्यर्थः ।। सञ्ज्ञेति ।। देवदत्तेति नामेत्यर्थः । ‘शुक्लोऽयम्’ इति गुणविशिष्टप्रत्ययः। ‘ब्राह्मणः’ इति जातिविशिष्टधीः । ‘गच्छति’ इति कर्मविशिष्टधीः सञ्ज्ञाविशिष्टधीस्तु ‘देवदत्तोऽयम्’ इति ।
।। द्वितीयमिति ।। निर्विकल्पकानन्तरभावीत्यर्थः । अयावद्द्रव्यभावि-गुणाऽद्यभिप्रायेण आह ।। अत्यन्तभेदस्येति ।। भेदाभेद एव तत्रेति भावः । यावद्द्रव्यभाविगुणाऽद्याशयेन आह ।। निर्विशेषेति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
भगवत्पादोक्तविभागदार्ढ्याय परकीयं प्रत्यक्षविभागं दूषयितु-मनुवदति ।। निर्विकल्पकेत्यादिना ।। यथाऽऽहुः ‘‘द्विविधं च तत् ।
सविकल्पकमित्येकमपरं निर्विकल्पकम्’’ इति ।
तदाकारं दर्शयति ।। यत्किंचिदेतदिति ।। ‘किञ्चिदेतत्’ इत्याकारकं यत् ज्ञानं तत्साधनं तत्करणं प्राथमिकं प्रथमोद्दिष्टं निर्विकल्पकम् इत्यर्थः । यथा आहुः
‘‘अविशिष्टार्थविषयं प्रत्यक्षं निर्विकल्पकम्’’ इति ।
उक्तञ्च अन्यत्र
अस्ति ह्यालोचनाज्ज्ञानं प्रथमं निर्विकल्पकम् ।
बालमूकाऽदिविज्ञानसदृशं शुद्धवस्तुजम् ।। इति ।
संज्ञेति ।। नाम इत्यर्थः । शुक्ल इत्यतः पूर्वं देवदत्तोऽयम्’ इति पूरणीयम् । यथाऽऽहुः
नामाऽदिभिर्विशिष्टार्थविषयं सविकल्पकम् । इति ।
सौगतानां मतमनुवदति ।। निर्विकल्पकमेवेति ।। यथा आहुः सौगताः
कल्पनाऽपोढमभ्रान्तं प्रत्यक्षम् ....................इति ।
अयमाशयः , निर्विकल्पकमेव प्रत्यक्षं प्रमाणम् शुद्धवस्तुरूपव्यक्तिमात्रा-वगाहित्वेन अबाधितार्थविषयकत्वात् । न तु सविकल्पकम् । तस्य सामान्यविषय-कत्वात् सामान्यस्य च पारमार्थिकत्वाभावात् । तदपि तुच्छत्वात् । तुच्छत्वं च प्रमाणनिरस्तविधिभावत्वम् अन्यव्यावृत्त्यात्मकत्वम् वा । न च अनुगतव्यवहारा-न्यथानुपपत्त्या सामान्यसिद्धिः । तस्य अतद्व्यावृत्यैव अन्यथासिद्धेः इति ।
।। तदेतदिति ।। मतद्वयमप्ययुक्तमित्यर्थः ।। निर्विशेषाभेदस्येति ।। अत्यन्ताभेदस्येत्यर्थः ।। विशिष्टबोधस्यैवेति ।। जात्यादिविशिष्टार्थबोधस्यैव इत्यर्थ: । सविकल्पकज्ञानस्यैव इति यावत् । एवकारेण वस्तुमात्रावगाहिनिर्वि-कल्पकव्यवच्च्छेदः । तथा हि, स्यादिदं प्रत्यक्षद्वैविध्यकल्पनं निर्विकल्पक-मात्रकल्पनं च , यदि किञ्चित् स्वरूपमात्रावगाहिज्ञानं प्रामाणिकं स्यात् । न चैतदस्ति । न तावत् तत्र प्रत्यक्षं प्रमाणम् तस्य अतीन्द्रियत्वाभ्युपगमात् । नापि हानाऽदिकार्येण तदनुमानम्। तस्य सविकल्पकसाध्यत्वात् ।
नापि ‘ज्ञानत्वं निष्प्रकारकत्वसमानाधिकरणं सकलज्ञानवृत्तित्वात् व्यतिरेकेण इच्छात्ववत्’ इत्यनुमानम् । अप्रयोजकत्वात् । इच्छात्वव्यवहारत्वा-नुमितित्वाऽदिकम् पक्षीकृत्यापि प्रयोगसम्भवेन निष्प्रकारकेच्छादिसिद्धिप्रसङ्गात्।
आगमस्तु नेष्टो दृष्टो वा । तस्मात् न निर्विकल्पकमस्ति । नापि तार्किकाभिमतं गुणाऽदीनां द्रव्येण अत्यन्तभेदमङ्गीकृत्य तद्विशिष्टार्थविषयकज्ञानरूपं सवि-कल्पकमस्ति । गुणादेर्गुणिना अभेदस्यैव प्रत्यक्षसिद्धत्वात् । न हि गुणगुणि-नोर्गवाश्वादिवत् भेदेन उपलम्भोऽस्ति ।
ननु तर्हि ‘पटस्य शौक्ल्यम्’ इत्यादिगुणगुण्यादिभेदव्यवहारानुपपत्तिः इति चेत् । न हि वयं गुणादेर्द्रव्येण निर्विशेषाभेदमङ्गीकुर्मः । किं तु ? सविशेषाभेदम् । तत्र विशेषेण भेदकार्यव्यवहाराऽद्युपपत्तेः ।
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ।।
इति विशेषस्य भेदकार्यनिर्वाहकत्वेन प्रमितत्वात् । इदमुपलक्षणम् । क्वचित् अयावद्द्रव्यभाविनो गुणादेः । तस्मिन् सत्यपि असत्त्वयुक्त्या द्र्रव्येण भेदोऽप्यस्ति इति द्रष्टव्यम् ।। खण्डिते भेद ऐक्यञ्च’ इति तत्त्वविवेकोक्तेः । उक्तञ्च अनुव्याख्याने भेदो नाशे भवेत् तथा इति । भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि । इति श्रुतेश्व । ननु यथा भेदसाधकानां व्यपदेशभेदाऽदीनां विूशेषाश्रयणेनैव अन्यथा सिद्धिरुच्यते एवं सत्यपि तस्मिन् असत्त्वस्यापि विशेषेणैव निर्वाहः क्रियताम् । किं भेदाभेदाभ्युपगमेन ? इति चेन्न । विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन अभावं प्रति अनिर्वाहकत्वात् । सकलभेदकार्यकारित्वे विशेषो भेद एव स्यात् न तत्प्रतिनिधिः इति ।
न च भेदाभेदाभ्यामेव सर्वस्योपपत्तेः किं विशेषेण ? इति वाच्यम् । भेदाभेदयोः एकत्र समावेशस्य विरुद्धत्वात् तद्विरोधपरिहारायाप्यन्ततो विशेषस्याङ्गीकर्तव्यत्वात् । न च एतादृशे विशेषे प्रमाणाभाव इति वाच्यम् । प्रत्यक्षसिद्धत्वात् । उक्तं चैतत्सर्व-मनुव्याख्याने
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थेऽस्ति सविशेषाऽवसीयते
येन प्रत्यक्षसिद्धेन व्यवहारोऽखिलो भवेत् ।।
इत्यादि । इति सिद्धान्तसङ्क्षेेपः ।
प्रमाणलक्षणटीकाविवरणम्
स्वोक्तविभागदार्ढ्याय परकीयं विभागं दूषयितुमनुवदति ।। निर्विकल्पकेत्यादिना ।। ज्ञानसाधनं प्राथमिकसविकल्पकज्ञानसाधनं निर्विकल्पमित्यर्थः ।
तदेकदेशमतमनुवदति । निर्विकल्पकमेवेति । निर्विकल्पकस्यैव प्रत्यक्षप्रामाण्यं तस्यैवाबाधितार्थविषयत्वात् । व्यक्तिमात्रावगाहित्वात्तस्य व्यक्तेश्च अबाधितत्वान्न तु सविकल्पकं प्रत्यक्षप्रमाणं जात्यादिविषयत्वात् जात्यादेश्च परमार्थत्वाभावात् । तुच्छत्वात्तस्याः तुच्छत्वं च प्रमाणनिरस्तविधिभावत्वं तत्सद्भावे प्रमाणाभावादिति यावत् । न चानुगतव्यवहारो जातिं विनानुपपद्यमानो जातिमाक्षिपेदिति कथं तत्सद्भावे प्रमाणाभाव इति वाच्यम् । अघटव्यावृत्तेरेव घटत्वेन तावन्मात्रेणैव व्यवहारोपपत्तेर्न तदतिरिक्तं घटादिसामान्यमस्ति इति । तथाच न सविकल्पकं प्रत्यक्षं प्रमाणमिति संक्षेपः ।
।। यत्किंचिदेतदिति ।। ज्ञानसाधनं प्राथमिकं किंचिदेतदित्याकारकं यज्ज्ञानं तत्साधनं निर्विकल्पकम् । करणविगतस्यैव दूषणीयत्वात् । ज्ञानविभागनिराकरणे संगतत्वापत्तिरिति करणविभागनिराकरणेन ज्ञानविभागस्य निराकृतत्वाच्चेति भावः।
एवमुपन्यस्तं मतं दूषयति ।। तदेतदिति ।। इदमुक्तं भवति ।। स्यादिदं तदा यदि किंचिद्व्यक्तिमात्रविषयं किंचित् जात्यादिवैशिष्ट्यविषयं किंचिद्भवेत् । न च तदस्ति । तस्य गुणगुणिनोरत्यन्तभेद एव संभवात् तस्य त्वभावात् । गुणागुणिनोर-भिन्नत्वात् । न चैवं सति गुणगुण्यादिव्यवहारानुपपत्तिः । तस्य भेदसापेक्षत्वादिति वच्यम् । गुणगुणिनोर्निर्विशेषाभेदस्यानङ्गीकारेण सविशेषभेदस्याङ्गीकारेण विशेषेण तादृशव्यवहारोपपत्तेः । तस्य सकलभेदकार्यकारित्वत्। तथोक्तमनुव्याख्याने
‘‘भेदहीनेत्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषत’’ इति ।