स्मृतिः केवलप्रमाणमेव न भवति

प्राभाकरमतेन स्मृतिप्रामाण्याक्षेपः

प्रमाणलक्षणटीका

स्मृतिः केवलप्रमाणमेव न भवति । गृहितमात्र-ग्राहित्वात् । अनुवादवत् । अतः कथं प्रत्यक्षप्रमाणजन्यत्वम्? इत्यत आह

स्मृत्यनुवादयोर्नाप्रामाण्यम्

प्रमाणलक्षणटीकाभावदीपः

अनुवादग्रहणं दृष्टान्तार्थम् इतिभावेनोक्तम् अनुवादवत् इति ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

प्राभाकरः शङ्कते । स्मृतिरिति ।। न भवतीति ।। अनधिगतार्थगन्तृत्वरूपप्रमाणलक्षणाभावात् इति भावः । कुतः ? इत्यतः तदुप-पादयति ।। गृहीतमात्रेति ।। पूर्वानुभवविषयीकृतार्थावगाहित्वात् इत्यर्थः । अनुवाद-वत् प्रमाणान्तरसिद्धार्थानुवादवाक्यवत् ।

प्रमाणलक्षणटीकाविवरणम्

एवं निरस्ते नैय्यायिके प्राभाकरः शांकते स्मृतिरिति।। अनधि-गततथाभूतार्थगंतृप्रमाणमिति तल्लक्षणं तच्च न स्मृताविति ।। इदमनुमानमनेनोक्तं भवति ।। स्मृतिर्न प्रमाणं गृहीतमात्रग्राहित्वादनुवादवदिति ।