साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः।
अनध्यवसितः
प्रमाणलक्षणटीका
साध्यासाधकः पक्ष एव वर्तमानो हेतुरनध्यवसितः। स चानेकप्रकारः । तत्राविद्यमानसपक्षविपक्षः पक्षव्यापको यथा ‘सर्वमनित्यं प्रमेयत्वात्’ इति । पक्षैकदेशवृत्तिर्यथा ‘कार्यत्वात्’ इति । विद्यमानसपक्षविपक्षः पक्षव्यापको यथा ‘शब्दो नित्यः आकाशविशेषगुणत्वात्’ इति ।
तदेकदेशवृत्तिर्यथा ‘सर्वं द्रव्यमनित्यम् क्रियावत्वात्’ इति । विद्यमानविपक्षोऽविद्यमानसपक्षः पक्षव्यापको यथा ‘सर्वं कार्यमनित्यं उत्पत्तिमत्वात्’ इति । पक्षैकदेशवृत्तिर्यथा ‘सावयवत्वात् इति । एते चासिद्ध्यादयः उभयान्यतरसम्मत्या द्वेधा भवन्ति । विरुद्धादित्रयस्यासिद्धसाङ्कर्येऽपि उभयव्यवहार-विषयत्वादविरोधः ।। २२४ ।।
प्रमाणलक्षणटीकाभावदीपः
।। तदेकदेशेति ।। पक्षैकदेशेत्यर्थः । विद्यमानसपक्षविपक्षेत्यनुषङ्गः । क्रियावत्त्वस्य पक्षैकदेशे भूतचतुष्टये मनसि च भावात् । अनित्यस्य गुणकर्मादेः नित्यस्य जात्यादेः सत्त्वेन विद्यमानसपक्षविपक्षत्वमिति भावः । ‘सर्वं कार्यं नित्यम्’ इति नित्यस्य गगनादेः सपक्षत्वेऽप्यनित्यत्वं पक्षीकृतमिति विपक्षाभाव इति भावः।
।। पक्षैकदेशेति ।। विद्यमानसपक्षोऽविद्यमानविपक्ष इत्यनुषज्यते । सावयवत्वस्य गुणकर्मादौ पक्षैकदेशेऽभावदिति भावः ।
।। असिद्ध्यादय इति ।। चत्त्वार इत्यर्थः ।। द्वेधा भवन्तीति ।। यथा ‘शब्दोऽनित्यश्चाक्षुषत्वात्’ इत्यस्य नित्यत्वानित्यत्ववादिनोरुभयोरपि सम्मत्याऽसिद्धो हेतुः , गुणत्वात्’ इतिहेतुर्द्रंव्यत्ववादिन एवासिद्धोनोभयोः इत्यादि ज्ञेयमिति भावः ।
।। असिद्धसाङ्कर्येऽपीति ।। ‘नित्यः शब्दः कार्यत्वात्’ इत्यत्र नित्यत्ववादिनो मते कार्यत्वस्यासिद्धेः , तथा पक्षैकदेशवृत्तीनां विरुद्धादीनां भागासिद्धिसाङ्कर्यादिति भावः । ‘उपधेयसाङ्कर्येऽपि तत्तदुपाधेरसाङ्कर्याददोषः’ इति तार्किकाः ।। २२४ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अथानध्यवसितं लक्षयति ।। साध्यासाधक इति ।। व्यतिरेक्यनुमानव्यावृत्त्यर्थं साध्यासाधक इत्युक्तम् । स्वरूपासिद्धव्यावृत्तये पक्षे वर्तमान इत्युक्तम् । साधारणानैकान्तिकव्यवच्छेदार्थम् अवधारणमिति द्रष्टव्यम् । अयमेव असाधारणानैकान्तिक इत्युच्यते । यथाऽऽहु:,
व्यतिरेकादनैकान्तः पक्षमात्रान्वयः परः ।इति ।
।। प्रमेयत्वादिति ।।अत्र सर्वस्यापि पक्षत्वेन सपक्षविपक्षाभावो द्रष्टव्यः । कार्यत्वात् इत्यत्रापि ‘सर्वमनित्यम्’ इति प्रतिज्ञैव द्रष्टव्या । पक्षीभूते घटादौ कार्यत्वहेतोः सत्त्वेऽपि गगनादावभावात् पक्षैकदेशवृत्तित्वम् ।
।। आकाशविशेषगुणत्वादिति ।। अयं च हेतुर्गगनादेः सपक्षस्य घटादेर्विपक्षस्य सत्त्वात् विद्यमानसपक्षविपक्षः । तार्किकमते ध्वन्यात्मकेे वर्णात्मके च शब्दे सत्त्वात् पक्षव्यापक इत्यर्थः ।। तदेकदेशवृत्तिरिति ।। पक्षैकदेशवृत्तिरित्यर्थः । अत्र रूपादिकं सपक्षः घटत्वादिसामान्यं विपक्ष इति मन्तव्यम् ।
।। क्रियावत्त्वादिति ।। अस्य हेतोः पृथिव्यादिचतुष्टये मनसि च सत्त्वेऽपि गगनादिविभुचतुष्टयेऽभावात् पक्षैकदेशवृत्तित्वं द्रष्टव्यम् ।। उत्पत्तिमत्त्वादिति ।। अनित्यत्वे साध्ये नित्यं गगनादिकं विपक्षः । सर्वस्यापि कार्यस्य पक्षत्वात् सपक्षाभावः । सर्वस्मिन्कार्ये उत्पत्तिमत्वस्य सत्त्वात् पक्षव्यापकोऽयं हेतुरिति द्रष्टव्यम्
।। सावयवत्वादिति ।। ‘सर्वं कार्यमनित्यम्’ इति प्रतिज्ञाऽनुवृत्तिरत्रापि द्रष्टव्या । सावयवत्वहेतोद्व्यणुकादौ कार्यद्रव्ये सत्त्वेऽपि कार्ये गुणादावभावात् पक्षैकदेशवृत्तित्वं द्रष्टव्यम् ऽ। एते चेति ।। असिद्ध्यादयश्चत्वार इत्यर्थः ।। उभयान्यतरसंमत्येति ।। वादिप्रतिवाद्युभयसंमत्या अन्यतरसम्मत्या चेत्यर्थः ।
ननु विरुद्धानैकान्तिकानध्यवसितानां पृथग्घेत्वाभासत्त्वं विरुद्धम् असिद्धसाङ्कर्यात् । तथा हि ‘पृथिवी नित्या कार्यत्वात्’ इति विरुद्धस्य आत्ममनसी न द्रव्ये अमूर्तत्वात्’ इत्यनैकान्तिकस्य ‘सर्वं द्रव्यमनित्यं क्रियावत्त्वात्’ इत्यनध्य-वसितस्य च हेतोः पक्षैकदेशवृत्तित्वेन भागासिद्धत्वात् इत्यत आह ।। विरुद्धादि-त्रयस्येति ।। उभयव्यवहारेति ।। विरुद्धादिव्यवहारविषयत्वात् असिद्धव्यवहार-विषयत्वाच्च न पृथग्घेत्वाभासत्वविरोध इत्यर्थः ।
नन्वेवमुभयव्यवहारविषयत्वे विनिगमकाभावात् कथमुद्भावनं कार्यमिति चेन्न। विरुद्धादिहेतुषु विरुद्धत्वादिकम् असिद्धत्वं चास्ति । तत्र यत् आदौ परिस्फुरति तस्यैवोद्भावनीयत्वादिति भावः ।। २२ ४ ।।
प्रमाणलक्षणटीकाविवरणम्
इदानीमनध्यवसितलक्षणमाह ।। साध्येति ।। अनध्यवसितस्यैव असाधारणानैकान्तिकत्वान्न पूर्वं तदनुक्तिदोषः । व्यतिरेकिसद्धेतोरपि पक्षमात्रवृत्ति-त्वादनध्यवसितत्वपरिहाराय पूर्वभावः । पक्षादित्रयवृत्तिसाध्यासाधकसाधारणा-नैकान्तिकव्यावृत्यै पक्ष एवेत्युक्तं ।। प्रमेयत्वादिति ।। अत्र सर्वस्य पक्षत्वेन सपक्षविपक्षयोरभावः । कार्यत्वादिति सर्वस्मिन् कार्यत्वाभावात्तदैकदेशवृत्तीत्यर्थः। विद्यमानसपक्षविपक्ष इत्यतः परं तदव्यापक इति शेषः । आकाशविशेषगुणत्वस्य नित्ये गगनादावभावात् तदव्यापक इत्यर्थः ।
।। क्रियावत्वादिति ।। सर्वस्मिन् द्रव्ये क्रियावत्वं नास्ति । गगनादावभावात्। तदैकदेशावृत्तीत्यर्थः उत्पन्नत्वादिनित्यत्वे साध्ये तदभाववदनित्यस्यैव विपक्षत्वेन वक्तव्यत्वात् तस्य च पक्षत्वादविद्यमानविपक्ष इत्यर्थः ।
।। सावयवत्वादिति ।। कार्यद्रव्यस्य सावयवत्वेऽपि नित्यद्रव्यगुणादेश्च तदभवादित्यर्थः । किमेतेषामुभयवादिसिद्धानां दूषणत्वं उतान्यतरसिद्धानामपीत्यत आह ।। एते चेति ।। ननु न तावद्विरुद्धस्य पृथक् हेत्वाभासत्वं शब्देनित्यः कृतकत्वा-दित्यत्र कृतकत्वस्य अनित्यत्वव्याप्तत्वेन नित्यत्वेन सह व्याप्तेरेवाभावेन व्यायत्वा-सिद्धत्वात् । एवमनैकांत्येऽपि । अनध्यवसितस्यापि कस्यचित् कार्यत्वादेर्भागा-सिद्धत्वात् कस्यचित् व्यायत्वासिद्धत्वात्तथात्वसिद्धौ असंकीर्णोदाहरणाभावान्न पृथक्हेत्वाभासत्वमित्यत आह ।। विरुद्धादीति ।। नचैवमप्यवस्थापुरस्फूर्ति-कत्वादिना तदुपपत्तेरित्यर्थः ।। २२ ४ । ।