इष्टापत्तिः सिद्धसाधनत्वात् असङ्गतमेव

मतानुज्ञाया असङ्गतान्तर्भावः

प्रमाणलक्षणटीका

स्वपक्षदोषमनुद्धृत्य प्रतिबन्दीग्रहणं मतानुज्ञेत्येके । तदनुपपन्नम् । प्रतिबन्दीग्रहणस्य परोक्तव्यभिचारोद्भावन-रूपत्वेन बाधकतर्कोद्भावनरूपेण वा परोक्तदूषणत्वात् । स्वपक्षास्थापनेन प्रवृत्तेर्दोषत्वमिति चेत् तर्हि अप्राप्तकाल-साङ्कर्यापातात्।

स्वपक्षे दोषमनुद्धृत्य परस्येष्टापादनमित्यन्ये । तदप्यसत्। विशेषणासामर्थ्यात् ।

तस्मात् इष्टापादनमेव मतानुज्ञेति भावेन तत्स्वरूपा-नुवादेन सिंहावलोकनन्यायेन प्रकृतदूषणानुमानदोषस्य मतानुज्ञाया उक्तान्तर्भावमाह

प्रमाणलक्षणम्

इष्टापत्तिः  सिद्धसाधनत्वात् असङ्गतमेव

इष्टापादनरूपा मतानुज्ञा असङ्गतावन्तर्भूता । परसिद्धार्थ-साधनस्वरूपत्वात् । सिद्धसाधनस्य च असङ्गतत्वमुक्तम् । अनिष्टापादनस्यैव सङ्गतत्वादिति न विरोधादिभ्यो दूषणान्तर-मस्तीति । व्याप्त्यभावादीनामन्तर्भावस्तु स्फुटत्वान्नोक्तः ।

प्रमाणलक्षणटीकाभावदीपः

।। व्यभिचारोद्भावनेति ।। जीवभेद्ये ब्रह्मणि भिन्नोऽभिन्नो वा ? आद्ये अनवस्था अन्ते अन्यतरपरिशेषः इति परेणोक्ते जीवैक्यं ब्रह्मणि भिन्नमभिन्नं वा ? इति प्रतिबन्दी गृह्यते । तत्रैक्यस्य ब्रह्माभेदेनाङ्गीकारे  अन्यतरपरिशेषापत्तेः तत्रव्यभिचारः इति व्यभिचारोद्भावनरूपेण, यद्येवं विकल्पदोषाभ्यां भेदोऽपाक्रियते तर्हि ऐक्यमप्येवमपाकर्तुं शक्यत इत्यैक्यसिद्धिरपि तव न स्यात् इत्यादिबाधक-तर्कोद्भावनरूपेण चेत्यथर्ः ।

 ।। विशेषणासामर्थ्यादिति ।। व्यावर्त्याभावात् अप्राप्तकालसाङ्कर्यापाता-च्चेति भावः ।। प्रकृतेति ।। परसिद्धैर्दूषणम् इतिप्रकृतेत्यर्थः । दूषणानुमानदोषस्य मतानुज्ञाया इति विशेषणविशेष्यभावेन सामानाधिकरण्यं ।

 ।। उक्तमिति ।। सिद्धसाधकोऽसङ्गत इत्यत्रेति भावः । इष्टापादनरूप-दोषस्येव व्याप्त्यभाव तर्कप्रतिरूपाणां दूषणानुमानदोषाणामन्तर्भावः कुतो नोक्तः ? इत्यत आह ।। व्याप्त्यभावादीनामिति ।। प्रकृतदूषणानुुमानदोषाणामिति योज्यम् । व्याप्त्यभावः अव्याप्तौ । तर्कप्रतिहतिरपि तथैव । विपर्ययापर्यवसानं न्यूने । परानुकूलत्वं असङ्गतौ इति स्फुटत्वादिति भावः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

तत्र का मतानुज्ञा ? इति शङ्कायां स्वयं तां लक्षयितुं परोक्तं तल्लक्षणमनूद्य दूषयति ।। स्वपक्षेत्यादिना ।। यथा जिनस्य आप्तत्वं मन्यमानं क्षपणकं प्रति ‘जिनोऽनाप्तः स्खलितवाक्त्वात् , इति तार्किकेणोक्ते जिनस्य आप्तत्वरूपे स्वपक्षे स्खलितवाक्त्वरूपं दोषमनुद्धृत्य ‘तर्हि भवदाचार्योऽपि तत एवानाप्तः स्यात•’ इति प्रतिबन्दीग्रहणं मतानुज्ञेत्यर्थः ।

।। परोक्तेति ।। जिनानाप्तत्वसाधकस्खलितवाक्त्वोक्तेः तदीयाचार्ये व्यभिचारोद्भावनरूपत्वेनेत्यर्थः ।। बाधकतर्केति ।। ‘तर्हि तत एव त्वदीया-चार्यस्यापि अनाप्तत्वं स्यात्’ इति बाधकतर्कोद्भावनरूपेण चेत्यर्थः । तथा च मतानुज्ञायाः न स्वातन्त्र्येण निग्रहस्थानतया दूष्यत्वमिति भावः ।

।। स्वपक्षेति ।। स्खलितवाक्त्वपरिहारेण जिनस्य आप्तत्वरूपस्वपक्षस्थापनं कृत्वा अनन्तरं प्रतिबन्दीग्रहणादिना परपक्षे दोषोऽभिधानीयः । एवमत्रापि प्रवृत्ते-र्मतानुज्ञाया निग्रहस्थानत्वेन दोषत्वमित्यर्थः ।। तर्हीति ।। आदौ स्वपक्षं प्रमाणेन प्रसाध्य पश्चात् परपक्षो दूष्य इति क्रमपरित्यागेन अप्राप्तकालसाङ्कर्यापातात् । विवक्षितक्रमविपर्यासः अप्राप्तकालमिति तल्लक्षणात् । अतोऽप्राप्तकाले अन्तर्भावप्राप्त्या न पृथङ्निग्रहस्थानत्वमिति भावः ।

इष्टापादनं मतानुज्ञा इति वर्तते । यथा केनचित् स्वस्य चोरत्वमभ्युपगम्य ‘त्वं चोरः पुरुषत्वात्’ इत्युक्ते ‘तर्हि तत एव तवापि चोरत्वप्रसङ्गः’ इत्येवं स्वपक्षे दोषमनुद्धृत्य आत्मनश्चोरत्वमपरिहृत्येति यावत् । परस्येष्टापाद नंमतानुज्ञेत्यर्थः

।। विशेषेणेति ।। ‘स्वपक्षे दोषमनुद्धृत्य’ इत्यस्य व्यावर्त्याभावेन वैयर्थ्यादित्यर्थः तत्स्वरूपानुवादेनेति मूले इष्टापत्तिरित्यनेन मतानुज्ञास्वरूपानु-वादादित्यर्थः । ननु निग्रहस्थानानामन्तर्भावकथनपरे अन्यच्च इत्यत्रैव अस्या अप्यन्तर्भावे वक्तव्ये तत्रानक्ुत्वा अत्रोक्तौ किं निमित्तम् ? इत्यत उक्तम् सिंहावलोकनन्यायेनेति ।। प्रकृतेति ।। ‘तदनुभवाभाव इत्युक्ते’ इति मूलवाक्येन प्रकृत यत् दूषणानुमानं तद्दोषस्य तद्दोषभूताया इत्यर्थः ।

वस्तुगत्या एतज्जातीये दूषणानुमाने दोषत्वं, नात्र इत्याशयः ।। उक्तान्त-र्भावमिति ।। उक्तेषु विरोधादिनिग्रहस्थानषट्केषु अन्तर्भावमित्यर्थः । इष्टापत्तिरित्य-नन्तरमध्याहार्यमाह ।। इष्टापादनरूपा मतानुज्ञेति ।। असङ्गत्यन्तर्भावमुपपादयितुं प्रवृत्तस्य सिद्धसाधनत्वादित्यस्यार्थमाह ।। परेति ।। परेणापि स्वस्य चोरत्वमभ्युपगम्यैव ‘त्वं चोरः पुरुषत्वात्’ इत्युक्तत्वेन ‘तर्हि तत एव तवापि चोरत्वप्रसङ्गः’ इत्येवं परं प्रतीष्टापादनरूपाया मतानुज्ञायाः परसिद्धार्थसाधन-रूपत्वेन सिद्धसाधनत्वादिति भावः ।  ततः किम् ? इत्यत आह ।। सिद्धसाधनस्य चेति ।। उक्तमिति ।। सिद्धासाधकोऽसङ्गतः इत्यत्रेत्यर्थः । तथा च असङ्गतम् इत्यतः पूर्वं सिद्धसाधनं चेति शेषः एव इत्यत पूर्वं इत्युक्तमिति शेष इत्युक्तं भवति । असङ्गतत्वमुपपादयति ।। अनिष्टापादनस्यैवेति ।। तथा च इष्टापादनरूपमता-नुज्ञाया असङ्गतत्वमेेवेति भावः । तथा च इष्टापत्तिरसङ्गतान्तर्भूता सिद्धसाधनत्वात् । सिद्धसाधनं च असङ्गतमित्युक्तमेव इति वाक्यवृत्तिर्द्रष्टव्या । अनेन यदुक्तं पूर्वं मतानुज्ञायाः प्रयोजनविशेषात् पृथगन्तर्भावं वक्ष्यति इति तत् प्रदर्शितं भवतीति ज्ञातव्यम् । उपसंहरति, विरोधादिनिग्रहस्थानषट्केभ्योऽन्यदूषणं नास्तीति ।

प्रमाणलक्षणटीकाविवरणम्

पूर्वमन्तर्भावकथनकाले मतानुज्ञाया अंतर्भावं प्रयोजनविशेषाद् वक्ष्यतीत्युक्तं तद्वक्तुं प्रसंजयति । स्वेति । व्यभिचारोद्भावनकथनेति । तद्यथा यदि प्रमेयत्वात्पर्वतो वन्हिमान् तर्हि हृदोऽपि स्यादित्यादौ प्रतिबंदीग्रहणं व्यभिचारोद्भावनप्रमेयत्वस्य ह्रदे सत्वेऽपि वन्हित्वस्य भावात् व्यभिचार इति ।

यदि विपर्ययो नांगीक्रियते तर्हि अनुभव उक्त इति च न स्यादिति प्रतिकूल-तर्कोद्भावनरूपत्वेनेत्यर्थः । विशेषणासामर्थ्यादिति स्वपक्षे दोषमनुपमृद्येति विशेषणेत्यर्थः । नन्वन्तर्भावकथनावसर एवास्याप्यंन्तर्भावो वक्तव्यः अत्रान्तर्भाव-कथनमयुक्तमित्यत आह ।। सिंहेति ।। स्मृतिसिद्धसाधको सङ्गत एवेत्यनेनेत्यर्थः। असंगतत्वमेवोपपादयति ।। अनिष्टेति ।। ननु यथाचार्येण सिद्धसाधको संगतः इष्टापत्तिः सिद्धसाधनादसंगतमेव साध्याविशिष्टो सिद्ध इत्यादिना पृथक् पृथक् अन्तर्भाव उक्तः तथा व्याप्यत्वासिद्धो व्याप्तौ विरुद्धो इत्यादिना पृथकू पृथक् अन्तर्भाव उक्तः तथा व्याप्यत्वासिद्धो व्याप्ताविति पृथगन्तर्भावः कुत उक्त इत्यत आह ।। व्याप्त्यभावनादिति ।। पृथगिति शेषः । ननु सर्वथा अन्यच्चेत्यादिना तदुक्तेरिति बोध्यम् ।