प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनेन विना अभि-धानं पुनरुक्तम्

पुनरुक्तम्

प्रमाणलक्षणटीका

प्रतीतार्थस्य पुनः स्ववचनेन प्रयोजनेन विना अभि-धानं पुनरुक्तम् । तत् त्रिविधम् । अर्थतः शब्दतोप्याक्षेपतश्चेति।

तत्राऽद्यं यथा ‘पर्वतोऽग्निमान् गिरिर्वह्निमान्’ इति । द्वितीयं यथा ‘पर्वतोऽग्निमान् पर्वतोऽग्निमान्’ इति । तृतीयं यथा ‘जीवंश्चैत्रो गृहे नास्ति इत्युक्त्वा ‘बहिरस्ति’ इति ।। १३ ।।

प्रमाणलक्षणटीकाभावदीपः

निरर्थके अज्ञाने वा अनतिव्याप्तये प्रतीतार्थस्येति । स्ववचनेन अभिधानमित्यन्वयः ।। १३ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘शब्दादाक्षेपतो  वाऽपि प्रतीतस्यैव कीर्तनम् ।

प्रयोजनं विनाभूतं पुनरुक्तमिति स्थितिः’’

इति कारिकाऽनुसारेण पुनरुक्तं लक्षयति  ।। प्रतीतार्थस्येति ।। स्ववचनेन प्रतीतार्थस्य स्ववचनेन प्रतीतार्थस्य स्ववचनेनाभिधानमिति सम्बन्ध: । निगमन-व्यावृत्त्यर्थं प्रयोजनं विना इत्युक्तम् । निगमनस्य तु सर्वस्यापिवुद्ध्यारोहः प्रयोजन-मित्यर्थः ।। १३ ।। 

प्रमाणलक्षणटीकाविवरणम्

अथ पुनरुक्तं लक्षयति ।।  प्रतीतेति ।। प्रतीतार्थस्य पुनः वचनेनाभिधानं पुनरुक्तमित्युक्ते निगमने पक्षस्य वचनं पुनरुक्तं स्यादतः प्रयोजनं विनेत्युक्तं ।। अर्थत इति ।। अर्थतः पुनरुक्तं शब्दतः पुनरुक्तं आक्षेपतः पुनरुक्तं चेति त्रिविधमित्यर्थः ।