अन्यच्च

प्रतिज्ञाहान्याद्याभासाप्राप्तकालयोः असङ्गतान्तर्भावः

प्रमाणलक्षणटीका

निरनुयोज्यानुयोगांशान्तरद्वयस्याप्यसङ्गतान्तर्भावमाह

प्रमाणलक्षणम्

अन्यच्च

उक्तात् छलात् जातेश्च अन्यत् निरनुयोज्यानुयोगांशद्वयं च असङ्गतमेव । प्राप्तस्यैव हान्यादेरुद्भावनप्राप्तकाल एव ग्रहणस्य च सङ्गतत्वात् ।

प्रमाणलक्षणटीकाभावदीपः

।। स्ववचनन्यायेन स्वविरोध इति ।। प्रागुक्ततृतीयजाता-वन्तर्भावादित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

न केवलं छलमसङ्गतमित्यन्वयः । असङ्गतादन्यो य इति शेषः ।। स्ववचनविरोध इति ।। विरोधो द्विविधः प्रमाणविरोधः स्ववाक्यविरोधश्चेति । स्ववाक्यविरोधोऽपि द्विविधः अपसिद्धान्तो जातिरिति । स्वव्याहतिरूपा जातिः स्ववचनस्वक्रियास्वन्यायविरोधभेदेन त्रिविधा । तत्र स्ववचनविरोधे छलस्य अन्त-र्भाव इत्यर्थ:  छलवाक्ये स्ववचनविरोधप्रकारं च स्वयमेव विवरिष्यति ।

 ।। अंशांतरद्वयस्यापीति ।। हान्याद्याभासस्य अप्र्राप्तकाले ग्रहणस्य चेत्यर्थः ।। प्राप्तस्यैवेति ।। प्राप्तस्यैव प्रतिज्ञाहान्यादेः उद्भावनस्य सङ्गतत्वेन सर्वथा हान्याद्य-प्राप्तौ तदुद्भावनरूपस्य अन्यप्राप्तौ अन्योद्भावरूपस्य च हान्याद्याभासस्य असङ्गतत्वादित्यर्थः ।। प्राप्तकाल एवेति ।। प्राप्तकाल एवोद्भावनस्य सङ्गतत्वेन उद्भावनावसरं अप्राप्य अतिक्रम्य वा तन्निग्रहोद्भावनरूपाप्राप्तकालग्रहणस्यापि असङ्गतत्वादित्यर्थः ।