उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः
प्रतिज्ञाविरोधादिषु सर्वानुमानदोषान्तर्भावः
प्रमाणलक्षणटीका
त्रिविधो विरोध इत्यादिनोक्तस्योपयोगमाह
प्रमाणलक्षणम्
उक्तदोषेष्वेवाशेषानुमानदोषाणामन्तर्भावः
ये प्रतिज्ञाविराधादयो दोषा उक्ताः तेष्वेव अशेषानुमान-दोषाणां हेत्वाभासादीनामन्तर्भावः । अतो नोक्तदोषातिरेक इति । तत्र प्रबलप्रमाणविरोधः कालातीतः । समबलेन हेत्वन्तरेण विरोधः सन्देहतो व्याप्यत्वासिद्धिः सत्प्रतिपक्ष-श्चेत्युक्तम्। तेनैव हेतुना चेत् प्रकरणसमः । असिद्धिः स्वरूपा-सिद्धिः । व्यर्थविशेषणासिद्ध्यादेराधिक्ये अन्तर्भावः ।
प्रमाणलक्षणटीकाभावदीपः
‘स श्यामो मित्रातनयत्वात्’ इत्यत्र शाकपाकजत्वाभावरूपप्रतिपक्ष-सन्देहात् सन्देहतो व्याप्यत्वासिद्धिरित्युक्तम् ।। इत्युक्तमिति ।। प्रतिज्ञायाः समबलप्रमाणविरोध एव सप्रतिसाधन इत्यत्रोक्तमित्यर्थः ।
।। प्रकरणसम इति ।। सोऽपि सप्रतिसाधनवदेव प्रतिज्ञाविरोध एव अन्तर्भूत इति भावः । अन्येषामपि हेत्वाभासानां अन्तर्भावमाह ।। असिद्धिरित्यादिना।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। उक्तस्येति ।। हेत्वाभासादेरन्तर्भावं वक्तुमुक्तस्येत्यर्थः । अनुमानदोषाणां परोक्तानां ।। उक्तदोषेति ।। अस्मदुक्तेभ्यो विरोधादिदोषेभ्यः परोक्तानामनुमानदोषाणामतिरेको नेत्यर्थः ।
अन्तर्भावप्रकारमेव विशदयति ।। तत्रेत्यादिना ।। कालातीतः प्रतिज्ञायाः प्रबलप्रमाणविरोध इत्यन्वयः ।। सन्देहत इति ।। व्याप्यत्वासिद्धो द्विविधः, एको व्याप्तिग्राहकप्रमाणाभावात् अपरस्तु उपाधिसद्भावादिति । तत्र उपाधिसद्भावात् यो व्याप्यत्वासिद्धः स सन्देहतो व्याप्यत्वासिद्ध इत्युच्यते । उपाधिसन्देहेन हेतोर्व्याप्तिसन्देहादित्यर्थः ।
।। सत्प्रतिपक्षश्चेति ।। निश्चितोपाधिव्यतिरेकेण साध्याभावसाधनं सत्प्रतिपक्ष इत्युच्यत इत्यर्थः । तथा च सन्देहतो व्याप्यत्वासिद्धः सत्प्रतिपक्षश्च समवलेन हेत्वन्तरेण विरोध इत्यन्वयः ।
प्रतिज्ञायाः समबलप्रमाणविरोधो द्विविधः, हेत्वन्तरेण तेनैव हेतुना चेति । तत्र सन्देहतो व्याप्यत्वासिद्ध्यादिकं समबलेन हेत्वन्तरेण विरोधे अन्तर्भावती-त्याशयः ।। तनैवेति ।। तेनैव हेतुना चेत् विरोधः स परमते प्रकरणसम इत्युच्यते । तस्य तत्रान्तर्भाव इत्यर्थः ।
।। असिद्धिरिति ।। परमते असिद्धिस्त्रिविधा । आश्रयासिद्धिः व्याप्यत्वा-सिद्धिः स्वरूपासिद्धिश्चेति । तत्र आश्रयासिद्धिरदूषणमित्युक्तम् । व्याप्यत्वा-सिद्धेरन्तर्भावस्तु उत्तरत्र वक्ष्यते । अवशिष्टा स्वरूपासिद्धिरूपाया असिद्धिः सा स्वरूपासिद्धिः अस्मदुक्ते हेतुस्वरूपासिद्धिरूपे हेतुविरोधे अन्तर्भूतेत्यर्थः । व्यर्थविशेषणासिद्ध्यादेः इत्यत्र आदिपदेन व्यर्थविशेष्यासिद्धिसंग्रहः ।।