तत्रानभ्युपेतयुक्ताङ्केन प्रतिप्रमाणेन प्रतिपक्षतया प्रत्यव-स्थानं प्रतिधर्मसमः

प्रतिधर्मसमजातिः

प्रमाणलक्षणटीका

तत्रानभ्युपेतयुक्ताङ्केन प्रतिप्रमाणेन प्रतिपक्षतया प्रत्यव-स्थानं प्रतिधर्मसमः । स च साधर्म्येण प्रत्यवस्थानं साधर्म्यसमः वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमः ।

यथा ‘यदि महानससाधर्म्यात् हृदवैधर्म्यात् द्वाभ्यां  वा धूमवत्वात् पर्वतोऽग्निमान् तर्हि हृदसाधर्म्यात् द्रव्यत्वात् निरग्नि मान् किं न स्यात् अविशेषात्’ इति ।

तथा ‘महानसवैधर्म्यात् पर्वतत्वात् अनग्निकः किं न स्यात्’ । एवं द्वाभ्यां प्रत्यक्षाऽदिना च प्रत्यवस्थानोदाहरणं द्रष्टव्यम् ।

प्रमाणलक्षणटीकाभावदीपः

प्रत्यवस्थानं दूषणाभिधानमित्यर्थः ।। प्रत्यक्षादिनेति ।। यदि घटः इति प्रत्यक्षात् अयं घटः तर्हि श्यामो न इति प्रत्यक्षात् अघटोऽपि किं न स्यात् । नायं घटः इति प्रत्यक्षवैधर्म्यात् घटः इति प्रत्यक्षात्  अयं घटः तर्हि पटः इति  प्रत्यक्षवैधर्म्यात् द्रव्यम् इति प्रत्यक्षात् अधटोऽपि किं न स्यात् इत्यादिरूपेण द्रष्टव्यमित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अनभ्युपेतयुक्ताङ्गात्प्रमाणात्प्रतिरोधतः ।

प्रत्यवस्थानमाचख्युः प्रतिधर्मसमां बुधाः ।।

इतिकारिकानुसारेण प्रथमोद्दिष्टां प्रतिधर्मसमजातिं लक्षयति ।। तत्रेति ।। उद्दिष्टासु त्रयोविंशतिजातिषु मध्य इत्यर्थः । वादिना स्थापनाहेतौ प्रयुक्ते सतीति शेषः ।

।। प्रतिपक्षतया प्रत्यवस्थानमिति ।। प्रतिपक्षोद्भावनमित्यर्थः । निराश्रयस्य प्रतिपक्षोद्भावनस्य असम्भवपरिहाराय वादिना स्थापनाहेतौ प्रयुक्त इत्युक्तम् । सदुत्तरप्रकरणसमव्यवच्छेदाय अनभ्युपेतयुक्ताङ्गेन इत्युक्तम् । तत्र अवश्याभ्युपगन्तव्यानां तत्तत्प्रमाणाङ्गानां वास्तवसत्वाभावेऽपि आभिमानिकं तदस्ति । अत्र तु आभिमानिकमपि तत्सत्त्वं न इति भावः ।

प्रत्यक्षादिनाऽपि प्रतिपक्षचोदनसंग्रहाय सामान्यतः प्रतिप्रमाणेन इत्युक्तम् । प्रमाणत्वेनाभिमतेनेत्यर्थः । युक्ताङ्गहीनस्य वास्तवप्रामाण्यासम्भवात् । प्रकरणसमजातिव्यवच्छेदाय प्रतिपक्षतया प्रत्यवस्थानमित्युक्तम् । तत्र बाधोद्भावनस्य वक्ष्यमाणत्वात् । प्रतिधर्मसमजातिप्रभेदं लक्षणकथनपूर्वकमाह ।। स चेति ।। यथाऽऽहुः

साधर्म्यवैधर्म्यसमौ तद्भेदावेव सूचितौ । इति ।

उभयं मिलित्वोदाहरति ।। यथेत्यादिना ।। महानससाधर्म्यादित्यस्य धूमवत्वादित्यादिना अन्वयः । ह्नदवैधर्म्यादित्यस्य तथेत्यादिना अन्वयः । द्वाभ्यामित्यस्य एवं द्वाभ्यामित्यनेन सम्बन्धः । तथा च एवं द्वाभ्यां द्वाभ्याम् इति भवति । आपादकेऽपि द्वाभ्यां समुच्चिताभ्यां साधर्म्यवैधर्म्याभ्यां आपादनेऽपि द्वाभ्यां समुच्चिताभ्यां साधर्म्यवैधर्म्याभ्यां युगपत्प्रत्यवस्थानमित्यर्थः । तथा च यदि महानससाधर्म्यात् धूमवत्त्वात् पर्वतोऽग्निमानिष्यते तर्हि हृदसाधर्म्यात् द्रव्यत्वात् निरग्निकः किं न स्यात् द्रव्यत्वाविशेषात् इति साधर्म्येण प्रत्यवस्थानम् । तथा यदि ह्नदवैधर्म्यात् धूमवत्वात् पर्वतोऽग्निमानिष्यते तर्हि महानसवैधर्म्यात् पर्वतत्वात् अनग्निकः किं न स्यात् इति वैधर्म्येण प्रत्यवस्थानं द्रष्टव्यम् । एवं द्वाभ्यां प्रत्यवस्थानं च द्रष्टव्यम् । तत्प्रकारस्तु यदि महानससाधर्म्यात् ह्नदवैधर्म्याच्च धूमवत्वात् पर्वतोऽग्निमानिष्यते तर्हि महानसवैधर्म्यात् पर्वतत्वात् ह्नदसाधर्म्यात् द्रव्यत्वाच्च पर्वतो निरग्निकोऽपि किं न स्यात् इति

।। प्रत्यक्षादिनेति ।। प्रत्यक्षशब्दाऽभासाऽदिनेत्यर्थः । तद्यथा ‘पर्वतोऽग्निमान् धूमवत्त्वात्’ इति वादिना स्थापनाहेतौ प्रयुक्ते प्रत्यक्षेण अनुपलम्भात्  निरग्निकोऽपि किं न स्यात् इत्यादि ।

प्रमाणलक्षणटीकाविवरणम्

अथ प्रतिधर्मसमजातेर्लक्षणमाह ।। तत्रेति ।। अत्रावश्याभ्युपगंत-व्यप्रमाणाङ्गानां वास्तवत्वसद्भवेऽपि सद्भावाभिमानमात्रमपि नास्ति तेन सदुत्तरप्रकरणसमात् व्यवच्छेदः तत्र सद्भावाभिमानस्य विरुद्धमानत्वात् ।

प्रकरणसमजातिर्व्यवच्छेदायोक्तम् ।। प्रतिरोधत इति ।। तत्र बाधेन प्रत्यव-स्थानस्य वक्ष्यमाणत्वात् इति ।। द्वाभ्यामिति ।। द्वाभ्यां समुचिताभ्यां उपसंहारे चोभाभ्यां युक्ताङ्गहीनाभ्यां प्रत्यवस्थानमुभयं सम इति शेषः । उदाहरणे तस्याप्युदा-हरणातिदेशत् । यद्यपि सूत्रे साधर्म्यवैधर्म्यसमाविति । द्विवचनानुरोधेन भाष्यकारा-दिभिर्भेदद्वयपरत्वेन व्याख्यातम् । तथाऽपि न्यायसामान्यात् विरोधाभावाच्च त्रैविध्यमित्यवधेयम् ।उभाभ्यामुपसंहारेत्युदाहरणं इत्थमित्याह ।। एवं द्वाभ्यामिति ।। कृतकत्वादनित्यघटसाधर्म्यात् नित्याकाशसाधर्र्म्याच्च नित्यः शब्द इत्युपसंहारे यद्येवं तर्हि अमूर्तत्वान्नित्याकाशसाधर्म्यात् अनित्यघटवैधर्म्याच्च नित्यः किं न स्यादित्युदाहरणं द्रष्टव्यमित्यर्थः ।

।। एतच्चोपलक्षणम् ।। तथा च साधर्म्यवैधर्म्याभ्यां समस्ताभ्यां न्यस्ताभ्यां वा वादिना साध्योपसंहारे कृते सति प्रतिवादिनः प्रतिभाप्रमादयोः वैचित्र्यादुपसंहारे वैरूप्येणापि समानेन न्यायेन कृताभ्यां कृतानीति प्रत्यवस्थानान्यपि सदुत्तर-वैलक्षण्यादन्यत्रानंतर्भावाच्च प्रतिधर्मसमभेदा एवेति विज्ञेयानि प्रत्यक्षाभासतः प्रत्यवस्थानरूपं प्रतिधर्मसमाजातिभेदमुदाहरति ।। प्रत्यक्षादिना चेेति ।। अनुमानेन साध्योपसंहारे प्रत्यक्षेणापि प्रत्यवतिष्टते तथा हि । शब्दो नित्यःकृतकत्वादिति प्रयोगे एव स एवायं गकार इति प्रत्यभिज्ञाप्रत्यक्षेण नित्यः किं न स्यात् प्रमाणत्वाविशेषात् इति ।

अत्र वर्णैकत्वप्रत्यभिज्ञानस्य ज्वालैकत्वप्रत्यभिज्ञा न स्यवत् सादृश्यनिबंधन-भ्रान्तित्वेन युक्तांगहानेः सत्प्रतिपक्षचोदनाभासत्वं आदिशब्देन शब्दोपमाना-भासयोरुदाहरणमूह्यमित्याह । तथा हि । महिषं पक्षीकृत्य पशुरयं विषाणित्वात्। संमतवदिति साध्योपसंहारे अपशवो वाऽन्ये गोअश्वेभ्य इत्यागमादपशुःकिं न स्यादिति प्रत्यवस्थानमागमाभासप्रतिरोधः । गवाश्वप्रशंसापरस्यास्य स्वार्र्थपरत्वा-भावात् युक्तांगहानिः । गोशब्दवच्योऽयं सास्नानादिमत्वात् । सम्मतवदिति उक्ते गोशब्दसदृशो गवय इत्येतद्वाक्यार्थप्रतिज्ञाविषयत्वात् गवयशब्दवाच्यः किं न स्यादिति प्रतिज्ञानमुपमानाभासप्रतिषेधः । अत्र गोत्वाधिकरणसकलव्यक्तिप्रति-योगिकसादृश्यज्ञानमतिदेशवाक्यं न विवक्षितं प्रकृते तदभावादुपमानस्य युक्तांगवैकल्यमित्यर्थः ।

Load More