अवश्योपादेयानामन्यतमानुपादानं न्यूनम्
न्यूनम्
प्रमाणलक्षणटीका
अवश्योपादेयानामन्यतमानुपादानं न्यूनम् । तदपि बहुप्रकारम् । कथासमयबन्धमकृत्वा साधनप्रयोगे आरम्भन्यूनम् साधनमप्रयुज्याऽभासोद्धारे, तत्प्रयुज्य चाऽभासानुद्धारे अनु-कूलतर्कानुक्तौ च वादांशन्यूनम् । प्रतिवदिनाऽपि वादिसाधन-मदूषयित्वा स्वपक्षसाधनाभिधाने, दूषयित्वा वा तदनभिधाने वादन्यूनम् । प्रतिज्ञाऽऽद्यवयवाभावे अवयवन्यूनम् । धर्म्याद्य-नुक्तावयवयवांशन्यूनम् ।
इदं च तत्तत्सिद्धान्तरीत्योद्भावनीयम् । न चैवमपसिद्धान्त एव । न हि सिद्धान्तविरुद्धकरणमपसिद्धान्तः । तथात्वे सर्व-निग्रहस्थानानामपि तथात्वप्राप्तेः । किं नाम ? तदभ्युपगमो वस्तुतत्वानुसारेण वेति ।। ११ ।।
प्रमाणलक्षणटीकाभावदीपः
।। तत्तत्सिद्धान्तेति ।। पञ्चावयवत्र्यवयवाऽदिनियमतत्क्रम-नियमयोरभ्युपगमो यस्मिन् सिद्धन्ते तत्रैव तत् । न त्वनियमसिद्धान्त इत्यर्थः ।। अपसिद्धान्त एवेति ।। स्वाङ्गीकृतनियमविरुद्धोक्तिरूपत्वात् इति भावः । तदभ्युप-गमः सिद्धान्तविरुद्धाभ्युपगम इत्यर्थः ।। वस्तुतत्वानुसारेण वेति ।। उद्भावनीय-मित्यनुषङ्गः । वस्तुतत्वविपर्यासेन वा अप्राप्तकालमुद्भावनीयमित्यर्थः ।। ११ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
आत्मसिद्धान्तसिद्धेषु वादांशावयवाऽदिषु ।
एकस्यावचने प्राहुरन्यूनं न्यूननिग्रहम् ।।
इति कारिकाऽनुसारेण न्यूनं लक्षयति ।। अवश्येति ।।
ननु प्रतिज्ञाऽद्यभावे अवयवन्यूनमित्याद्युक्तमयुक्तम् । तथा हि, यदा हि नैयायिकसौगतयोः कथा प्रवृत्ता तदा सौगतो द्यवयवं प्रयुङ््क्ते तदा नैयायिकेन न्यूनेन निगृह्येत । अनिग्रहे वा प्रतिवादी पर्यनुयोज्यम् उपेक्षेत । तत्परिहारार्थं पञ्चावयवप्रयोगे तु अधिकेन निगृह्येत । तथा स्वीकारे चापसिद्धान्तेन ।। ततः अवयवपरिमाणचिन्तायामर्थान्तरप्रसङ्गः । अशक्त्या च सा, तत्साधकस्याप्यनु-मानस्यानिर्णीतावयवपरिमाणत्वात् इत्याशङ्कायामाह ।। इदं चेति ।। न्यूनं नाम निग्रहस्थानमित्यर्थः । तथा च यस्य सिद्धान्ते यावन्तोऽवयवाः प्रयोज्याः तेन स्वसिद्धान्तानुसारेण तावदवयवप्रयोग एव न्यूनत्वमुद्भावनीयमिति भावः । यथोक्तं प्रबोधसिद्धिकारेण ‘स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षया न्यूनाऽद्यवतारः’ इति । उक्तं च तार्किकरक्षायाम् ।
‘‘आत्मसिद्धान्तसिद्धेषु वादांशावयवाऽदिषु’’ इत्यादि ।
तथा च न्यूनलक्षणे अवश्योपादेयानाम् इत्येतत् स्वस्वसिद्धान्ते अवश्योपादेयत्वेन अभिमतानाम् इति व्याख्येयम् । तेन बौद्धस्य द्व्यवयवप्रयोगे न न्यूनत्वम् तत्सिद्धान्ते अन्यावयवानामवश्योपादेयत्वाभावात् इत्यपि द्रष्टव्यम् ।
ननु स्वस्वसिद्धान्ते प्रयोज्यत्वेनाभिमतावयवमध्ये अन्यतमानुपादाने न्यूनत्वम् इत्युक्तम् । तथात्वे अपसिद्धान्त एव स्यात् । स्वसिद्धान्तविरुद्धत्वात् इत्याशङ्क्य निराकरोति ।। न चैवमिति ।। करणमाचरणम्।।
।। तथात्व इति ।। सिद्धान्तविरू द्धाऽचरणस्य अपसिद्धान्तत्वे प्रतिज्ञाहान्या-दिसर्वनिग्रहस्थानानामप्यपसिद्धान्तत्वप्रसङ्गात् ।। तथा हि ‘पर्वतोऽग्निमान् प्रमेयत्वात्’ इति वादिना स्वसिद्धान्तेऽभिहिते परेणानैकान्त्येन प्रत्युक्ते ‘माऽस्तु तर्हि पर्वतोऽग्निमान्’ इति यदा वदति तदा तस्य स्वसिद्धान्तविरुद्धाऽचरणात् इत्यर्थः
।। तदभ्युपगम इति ।। स्वसिद्धान्तविरुद्धाभ्युपगम एव अपसिद्धान्त इत्यर्थः। तथा च प्रकृते न्यूनस्थले स्वसिद्धान्तविरुद्धाचरणसद्भावेऽपि न तदभ्युपगमोऽस्ति। न्यूनस्य गमकत्वाङ्गीकारात् । अतो नात्रापसिद्धान्त उद्भावनीयः । स्वसिद्धान्त-विरुद्धाऽचरणं तु सभाक्षोभेण स्तम्भितत्वात् इति न्यूनत्वमेवोद्भाव्यम् इति भावः। एवं प्रबोधसिद्धिकारमतमुक्त्वोदयनमतमाह ।। वस्तुतत्वानुसारेण वेति ।। इदमुद्भावनीयमिति सम्बन्धः । यथोक्तम् उदयनेन यथावस्तु व्यवहर्तव्यम् इति ।
अयमर्थः । यथावस्तु प्रयोक्तव्यम् । न च वस्तुतत्व एव वादिनां विप्रतिपत्तेः अवश्यं न्यूनाऽद्यवतारसम्भवेन अप्रयोगप्राप्तिरिति वाच्यम् , यस्य यत्र तात्विकत्वाभिमानः तेन तत्प्रयोगानन्तरं परेण न्यूनाऽदावुद्भाविते तथारूपतायाः साधनात् । न चैवमर्थान्तरताऽपात्तः हेतोरन्यतरासिद्ध्युद्भावनेनासिद्धव्युत्पादनवत् प्रकृतोपयोगसद्भावात् इति ।
अस्मन्मतेऽपि ‘यथासिद्धान्तं व्यवहर्तव्यम्’ इति पक्ष एव भगवत्पादानां संमतः । यथोक्तमनुव्याख्याने
‘‘स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते’’ इति ।
‘यथावस्तु व्यवहर्तव्यम्’ इति पक्षस्तु त्रिपञ्चावयवामेव इत्यादिना भगवत्पादैर्दूषितः। अत एव टीकाकारैः त्रिपञ्च इत्याद्यनुव्याख्यानावतारिकायाम् अपर आह इत्यादिना अयं पक्षोऽनूदित इत्यवधेयम् । कैश्चित् , एवमपसिद्धान्तस्य न्यूनवचनोन्नेयत्वात् उन्नायकस्य न्यूनस्य प्रागवतार इत्युक्तम् । इदानीं ‘यथासिद्धान्तं व्यवहर्तव्यम्’ इति नियमकरणादेव न्यूनस्य प्रागवतारः पश्चादपसिद्धान्तस्येत्याह ।। वस्तुतत्वानुसारेण वेति ।। वाशब्दोऽत्रोपमायाम् । वस्तुतत्वानुसारेणेवेत्यर्थः ।
अयमाशयः ‘कथायां यथावस्तु वक्तव्यम्’ इतिवत् ‘यथासिद्धान्तम् व्यवहर्तव्यम्’ इति नियमात् सौगतो यदा एकमेवावयवं प्रयुङ्क्ते तदैव न्यूनत्वमुद्भावनीयम् , न त्ववयवद्वयोक्तौ । अतो न दोष इत्याहुः ।। ११ ।।
प्रमाणलक्षणटीकाविवरणम्
अथ पूर्ववदवयवनिरूप्यत्वसाम्यात् न्यूनं लक्षयति ।। अवश्योपा-देयानामिति ।। कथेति तदपेक्षया कथानियमस्य पूर्ववृत्तित्वादिति भावः । अन्यत् पूर्ववत् । नैय्यायिकस्य सौगतेन यदा कथाप्रवृत्तिः तदाऽवयवद्वये सौगतेनोक्ते नैय्यायिकेन न्यूनत्वं तस्योद्भावनीयं स्यात् । अन्यथा अवश्योद्भाव्यतया प्राप्तनिग्रह-स्थानानुद्भावनं पर्यनुयोज्योपेक्षणमिति पर्यनुयोज्योपेक्षणं नैय्यायिकस्य स्यात् । तथाचावयवन्यूनं न निग्रहस्थानमित्यत आह ।। इदं चेति ।। तथाच यस्य सिद्धांते यावंतोऽवयवाः परिगणितास्तदपेक्षया न्यूनत्वमिति । ननु यदुक्तं सौगतोऽवयव-द्वयमङ्गीकृत्य एकमेवावयवं प्रयुंक्ते तदावयवन्यूनत्वमुद्भावनीममिति । तदयुक्तं । तदा स्वसिद्धांतविरुद्धाभिधानेनास्यापसिद्धांतत्वेन न्यूनत्वासंभवादित्याह ।। न हीति ।।
तत्र हेतुमाह ।। तथात्व इति ।। प्रतिज्ञाहान्यादेर्हि अपसिद्धांतत्वमेव स्यात्। न तु हानित्वं पर्वतो वह्निग्निमान् प्रमेयत्वादित्यभिहिते अनैकांतिकत्वेन प्रत्युक्ते मास्तु तर्हि पर्वतोऽग्निमानिति यदा वादी ब्रवीति तदा प्रतिज्ञाहनिरूद्भाव्यते । सा नोद्भाव्या, किंतु अपसिद्धांत एव प्रमेयत्वस्य व्यतिरेकिधर्मव्यभित्वारित्वेन सिद्धांते अङ्गीकृतत्वेन तद्विरुद्धाचरणादिति भावः ।
तर्हि कोऽपसिद्धान्त इत्यत आह ।। किं नामेति ।। एवमपसिद्धांतस्य न्यूनवचनेनोन्नेयत्वादुन्नायाकस्य न्यूनस्य प्रागवतार इत्युक्तं । इदानीं यथासिद्धांतं व्यवहर्तव्यमिति नियमकरणादेव हेतोर्न्यूनस्य प्रागवतारः पश्चादपसिद्धांतस्येत्याह।
।। वस्तुतत्वानुसारेण वेति ।। वस्तुतत्वेत्यस्यायमर्थः यथावस्त्वेव प्रयोक्तव्यं । नच वस्तुतत्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसंभवेनाप्रयोगप्राप्तिरिति वाच्यं। यस्य यत्र तात्विकत्वाभिमानः, तेेन तत्प्रयोगानंतरं परेण न्यूनाद्युद्भावने तथारूपतायाः साधनात् । नचैवमर्थांतरापातः। हेतोरन्यथासिद्ध्युद्भावने तत्सिद्ध्युुत्पादवत् प्रकृतोपयोगसद्भावादिति ।। ११ ।।