छलं त्रिविधम् वाक्छलं सामान्यछलं उपचारछलञ्चेति
छलविभागलक्षणोदाहरणानि
प्रमाणलक्षणटीका
छलं त्रिविधम् वाक्छलं सामान्यछलं उपचारछलञ्चेति ।। तत्र मुख्यार्थविवक्षया प्रत्युक्तस्य मुख्यार्थान्तरकल्पनया तद्दूषणं वाक्छलम् । अभिप्रायान्तरकल्पनया तद्दूषणं सामान्यछलम् । अमुख्यार्थाभिप्रायेण प्रयुक्तस्य मुख्यार्थकल्पनया दूषणमुप-चारछलम् । तत्र वाक्छलादेरसङ्गताद्यन्तर्भावस्फुरणायोप-लक्षणतया वाक्छलमुदाहरति
गृष्टिविवक्षया ‘गां आनय’ इत्युक्ते
पृथिवीविवक्षया ‘गवानयनमशक्यम्’ इतिवत्
एकवारप्रसूता गौः गृष्टिः । द्वितीयं यथा ‘अनूचानोऽयं ब्राह्मणः’ इत्युक्ते ‘युक्त मेव हि ब्राह्मणे अनूचानत्वम्’ इति सम्भावनाभिप्रायेण परेणाभिहिते ब्राह्मणत्वस्य हेतुत्वाभिप्राय-कल्पनया ‘नैवं , व्रात्ये व्यभिचारात्’ इति प्रतिषेधः । तृतीयं यथा ‘सिंहो देवदत्तः’ इत्युक्ते ‘नैवं , सटाद्यभावात्’ इति । अत्र ‘गवानयनं न विधेयं अशक्यत्वात्’ इत्यादिछलवाक्ये ‘गवा नयनम्’ इत्येतदयुक्तंअनन्वितत्वात्’ इत्यादेश्छलस्य प्रवृत्तेर्विरोधत्वं ज्ञातव्यम् ।
प्रमाणलक्षणटीकाभावदीपः
।। अनन्वितत्वादिति ।। गवा इति तृतीयान्तेन नयनमिति नेत्रवाचिपदस्य अन्वयाभावादिति भावः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
छलमसङ्गतमित्युक्तं । तस्य असङ्गत्यन्तर्भावप्रतिपत्तिसौकार्याय
तच्च त्रेधा वाक्छलादिविभेदत इतीरितम् ।
इतिकारिकानुसारेण तद्विभागमाह ।। छलं त्रिविधमिति ।।
................................... तत्र तु वाक्छलं ।
अभिधावैपरीत्येन कल्पितार्थस्य बाधनम् ।।
इतिकारिकानुसारेण वाक्छलं लक्षयति ।। तत्र मुख्यार्थेति ।। त्रिविधछलमध्य इत्यर्थः
सामान्यछलमेतत्स्यादिति सामान्ययोगतः ।
तात्पर्यवैपरीत्येन कल्पितार्थस्य बाधनम् ।।
इतिकारिकानुसारेण सामान्यछललक्षणमाह ।। अभिप्रायान्तरेति ।।
उपचारप्रयोगेषु गौैणलक्षणकेषु यः ।
मुख्यार्थसम्भवाद्बाध उपचारछलं तु तत् ।।
इतिकरिकानुसारेण उपचारछललक्षणमाह ।। अमुख्यार्थेति ।। अनूचानः सदाचारसम्पन्नः ।। हेतुत्वेति ।। अनूचानत्व इत्यर्थः । व्रात्यो व्रतभ्रष्टो दुराचारीति यावत् । सटाः स्कन्धसंस्था: केशाः । आदिपदेन लाङ्गूलग्रहणं ।
पूर्वं छलमसङ्गतम् इति असङ्गत्यन्तर्भावं छलस्योक्त्वा अन्यच्च इतिवाक्येन स्ववचनविरोधेऽप्यन्तर्भाव उक्तः । तमुपपादयति ।। अत्रेति ।। गवानयनं पृथिव्यानयनं ।
।। अनन्वितत्वादिति ।। गवा इतितृतीयान्तपदस्य चक्षुर्वाचकस्यनयनमिति प्रथमान्तपदस्य च अनन्वितत्वात् इत्यर्थः ।। इत्यादेरिति ।। इत्यादिप्रकारेणेत्यर्थः।
।। छलस्य प्रवृत्तेरिति ।। छलवाक्येऽप्यर्थान्तरपरिकल्पनेन दूषण-प्रवृत्तेरित्यर्थः ।। विरोधत्वमिति ।। स्ववचन विरोधत्वमित्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
छलमसंगतमित्युक्तं तवासङगत्यंतर्भावप्रतिपत्त्सिौकर्याय तद्विभागमाह ।। छलमिति ।।
गृष्टिशब्दं दुर्गमार्थत्वादप्रतीतं व्याचष्टे ।। एकवारमिति ।। मूलकारेण ग्रन्थगौरवभयात् । पृथगनुदाहृतमपि स्वयं शिष्यानुजिघृक्षया पृथगुदाहरति ।। द्वितीयमिति ।। अन्यः अनूचानः सदाचारसपंन्नः सटाः स्कं दस्छाः केशा इत्यादिना असंगतावन्तर्भावमुक्त्वा पश्चाद्विरोधेप्यन्तर्भाव उक्तः अतो असङ्गत्यन्तर्भावमुपपाद्य विरोधेन्तर्भावमुपपादयति ।। अत्रेति ।। अनन्वितत्वात् ।