प्रामाण्यज्ञाने च तत्राप्यङ्गीकारेऽनवस्थितेः

साक्षिप्रामाण्यसमर्थनम्

प्रमाणलक्षणटीका

साक्षिज्ञानेऽपि अव्याप्तिं वक्तुं तस्य प्रामाण्यानङ्गीकारे बाधकं तावदाह

प्रमाणलक्षणम्

प्रामाण्यज्ञाने च

प्रमाणाभावादिति चशब्देन अनुकृष्यते । तादर्थ्ये सप्तमी। साक्षिणोऽप्रामाण्ये सर्वप्रमाणानां प्रामाण्यमप्रामाणिकं स्यात्। प्रामाण्यज्ञानार्थं प्रमाणान्तराभावात् ।

प्रामाण्यज्ञानार्थमपि सम्यगनुभवसाधनमेव किञ्चित् अङ्गीक्रियते । अतो न तस्याप्रमाणिकत्वापात इत्यत आह

तत्राप्यङ्गीकारेऽनवस्थितेः

यदि प्रामाण्यज्ञानार्थं सम्यगनुभवसाधनं प्रमाणमङ्गी-क्रियते तर्हि तत्प्रामाण्यं प्रामाणिकं न वा ? नेति पक्षे न स्यात् । आद्ये किं स्वेनैव सिद्धं ? प्रमाणान्तरेण वा ? नाद्यः अन्यत्रापि तत्प्रसङ्गात् । द्वितीये तस्यापि प्रामाण्यं प्रमाणान्तर-वेद्यमित्यनवस्थिति: स्यात् । तस्मात् साक्षिज्ञानेनैव सर्वप्रमाणप्रामाण्यं ज्ञायत इत्यङ्गीकार्यम् । तस्य च स्वप्रकाश-त्वेन स्वप्रामाण्यविषयत्वात् नानवस्था । ‘मामहं जानामि’ इति आत्मनः स्वप्रकाशत्वदर्शनात् । साक्षिणश्चात्मत्वादिति।