यदुक्तं ‘जगन्मिथ्या’ इति प्रतिज्ञा प्रत्यक्षविरुद्धेति। तदयुक्तम्

वर्तमानमात्रग्राहिणा प्रत्यक्षेण विश्वमिथ्यात्वप्रतिज्ञाया विरोधाशङ्का

प्रमाणलक्षणटीका

यदुक्तं ‘जगन्मिथ्या’ इति प्रतिज्ञा प्रत्यक्षविरुद्धेति। तदयुक्तम् । अनुमानेन ह्येष्यत्कालीनबाध्यत्वं साध्यते । न च तदभावं गोचरयितुं प्रत्यक्षमीष्टे येन तद्विरोधोऽनुमानस्य स्यात् । वर्तमानमात्रग्राहित्वात् प्रत्यक्षस्य । न हि भिन्नविषय-योर्बाध्यबाधकभावोऽस्ति   । न हि भवति आमघटश्यामता-प्रत्यक्षेण पाकरक्तताप्रमाणस्य बाध इत्याशङ्क्य परिहरति

जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वे अनु-मानागमप्रामाण्यग्राहिणोऽपि प्रत्यक्षत्वविशेषात् उत्तरक्षणे प्रामाण्यं न सेत्स्यतीति भेदादिवाक्यानामेव प्रामाण्यं स्यात्