अनन्वितार्थवाचकपदाऽदिप्रयोगोऽपार्थकम्

अपार्थकम्

प्रमाणलक्षणटीका

अनन्वितार्थवाचकपदाऽदिप्रयोगोऽपार्थकम् । तत् त्रिविधम् ।

सर्वथाऽप्यसम्भवदन्वयं यथा ‘दश दाडिमानि षडपूपाः कुण्ड-मजाजिनम्’ इत्यादि । व्यवहितान्वयं यथा ‘ओदनं स्नातो ग्रामं सरसि गत्वाऽश्नाति’ इत्यादि । सम्भवत्सर्वान्वय-पक्षनिरासे सत्यसम्भवदन्वयं चेति ।। ९ ।।

प्रमाणलक्षणटीकाभावदीपः

।। ओदनमिति ।। ‘सरसि स्त्रातो ग्रामं गत्वा ओदनमश्नाति’ इत्यर्थः ।। सम्भवदिति ।। आदौ परिस्फुरत्सर्वान्वयपक्षनिरासे पश्चात् अयोग्यतया असम्भवदन्वयमित्यर्थः । यथा ‘जरद्रवः कम्बलपादुकाभ्याम्’ इत्यादि ।। ९ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘पदजातं वाक्यजातमनन्वितमपार्थकम्’’

इति कारिकाऽनुसारेणापार्थकं लक्षयति ।। अनन्वितार्थेति ।। आदिपदेन वाक्य-प्रयोगसंग्रहः । अनन्वितेत्यनेनार्थान्तरव्यावृतिः । वाचकेति निरर्थकस्य ।। ओदन-मित्यादि ।। ‘सरसि स्नातो ग्रामं गत्वा ओदनमश्नाति’ इति व्यवधानेनान्वय एवास्ति । अव्यवहितान्वयस्तु बाधित इत्यर्थः । आदिपदेन 

अम्बरमम्बुनि पत्रमरातिः पीतमहीशगणस्य ददाह ।

इत्यादिसंग्रहः ।। सम्भवदिति ।। आदौ परिस्फुरत्सर्वान्वयपक्षनिरासानन्तरं अयोग्यताज्ञानेन अन्वयबोधजनकमित्यर्थः । तथा च अनाकाङ््क्षाऽनासत्त्य-योग्यताभिः त्रैविध्यमित्याशयः ।। ९ ।।

प्रमाणलक्षणटीकाविवरणम्

अपार्थकं लक्षयति ।। अनन्वितेति ।। अनन्वितश्चासौ अर्थश्च तस्य वाचकानि पदानि । आदिपदेन वाक्यं च । अत एवोदाहरणसमये वाक्य-मप्युदाहृतं । तेषां प्रयोगोऽपार्थकमित्यर्थः ।। सर्वथेति ।। सर्वथाऽसंभववानन्वयो यस्येति बहुव्रीहिः । व्यवहितान्वय-मुदाहरति ।। ओदनमिति ।। अत्रोदनमित्यस्य नाव्यवहितेन स्नात्वेत्यनेनान्वयः । किंतु व्यविहितेनाश्रातीत्यनेन । एवमुत्तरत्रापि। तृतीयमुदाहरति ।। संभवदिति ।। संभवंतः ये सर्वेऽन्वयपक्षाः तन्निरासे सति असंभवदन्वयं चेति ।। ९ ।।