केनचित् व्याजेन कथाविच्छेदो विक्षेपः

विक्षेपः

प्रमाणलक्षणटीका

केनचित्  व्याजेन कथाविच्छेदो विक्षेपः । यथा ‘अद्य मे महत् प्रयोजनमस्ति । तस्मिन्नवसिते वक्ष्यामि’ इति ।। १७ ।।

प्रमाणलक्षणटीकाभावदीपः

।। अवसित इति ।। समाप्त इत्यर्थः ।। १७ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘कथामभ्युपगम्यैव तद्विच्छेदाय कस्यचित् ।

व्याजस्य वचनं प्राहुर्विक्षेपं नाम निग्रहम्’’

इतिकारिकाऽनुसारुेण विक्षेपं लक्षयति ।। केनचिदिति ।।

व्याजेन व्याजवचनेन । अत्र कथामुपक्रम्येति वक्तव्यम् । अन्यथा कथोप-क्रमाभावकालीने व्याजवचनेऽतिप्रसक्तेः इति ध्येयम् । अत एवोक्तम् पद्धतौ, ‘यथा कथामारभ्याह, अद्य मे महत्’ इत्यादि । उक्तं च कारिकायां ‘कथामभ्युपगम्यैव’ इति । अवसिते  अवसानम् प्राप्ते ।। १७ ।।

प्रमाणलक्षणटीकाविवरणम्

विक्षेपः स्पृष्टः ।