सादृश्यप्रमासाधनमुपमानम्

मीमांसकोक्तोपमानस्य प्रत्यक्षाऽदिष्वन्तर्भावः

प्रमाणलक्षणटीका

सादृश्यप्रमासाधनमुपमानम् । तत् त्रिविधम् ।

गृह्यमाणे स्मर्यमाणप्रतियोगिकसादृश्यप्रमासाधनम् । यथा, गां दृष्ट्वा वनं गतस्य गृह्यमाणगवये स्मर्यमाणगोसादृश्यप्रमाणं ‘गोसदृशोऽयं गवयः’ इति ।

गृह्यमाणप्रतियोगिकस्मर्यमाणगतसादृश्यप्रमासाधनं स्मर्यमाण प्रतियोगिकगृह्यमाणगतसादृश्यज्ञानम् । यथा, गामनुभूय वनं गतस्य गवये गोसादृश्यज्ञानं स्मर्यमाणे गवि गृह्यमाणगवय-प्रतियोगिकसादृश्यप्रमासाधनम्।  ‘गोसदृशोऽयं गवयः, तस्मात् गवयसदृशोऽसौ गौः’ इति । 

निर्दोषवाक्यं सादृश्यप्रमासाधनम् । यथा, ‘यथा गौः गवयस्तथा’  इति ।

तदेतत्त्रयं क्रमेण प्रत्यक्षाद्यन्तर्भूतम् । विमतो गौः गवयसदृशः गवयगतसादृश्यप्रतियोगित्वात् यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः यथा यमो यमान्तरेण’ इति प्रयोगसंभवात्।

प्रमाणलक्षणटीकाभावदीपः

मीमांसकोक्तमुपमानमाह ।। सादृश्येति ।। त्रिविधम् इत्युक्तत्रैविध्यम् उद्देशपूर्वकं क्रमात् उदाहरणनिष्ठतया दर्शयति, गृह्यमाण इति गृह्यमाणेति निर्दोषं  वाक्यमिति च वाक्यत्रयेण ।

गृह्यमाणे गवये स्मर्यमाणगोप्रतियोगिकसादृश्यप्रमामभिनीय दर्शयति ।। गोसदृशोऽयं गवय इतीति ।। स्मर्यमाणगतसादृश्यप्रमासाधनं किम् ? इत्यत आह ।। स्मर्यमाणप्रतियोगिकेत्यादि ।। स्मर्यमाणे गवीति ।। पुंलिङ्गो गोशब्द इति भावः ।

साधनीभूतसादृश्यज्ञानं तत्साध्यसादृश्यप्रमां अभिनीय दर्शयति ।। गोसदृश इति ।। तथेतीति ।। इतिपदस्य वाक्यमिति पूर्वेणान्वयः ।। प्रत्यक्षाऽद्यन्तर्भूतमिति ।। आद्यस्य  सादृश्यज्ञानस्येन्द्रियसन्निकर्षान्वयव्यतिरेकानुविधायित्वेन तृतीयस्य तु वाक्यजत्वेन स्पष्टत्वात् द्वितीयेऽनुमानप्रकारं  दर्शयति ।। विमत इति ।। यम इति ।। युगपत् प्रसूतौ यमावुच्येते ।

न च गोगतसादृश्यज्ञानं स्मृतिरूपं किं न ? इति शङ्क्यम्, प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन  गोगतगवयसादृश्यस्य प्रागननुभूतत्वात् । सादृश्यज्ञाने प्रतियोगिज्ञानाधीनत्वस्यान्वयव्यतिरेकसिद्धत्वात् ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

शाबरोपमानस्यान्तर्भावं  वक्तुं तल्लक्षणं  विभागं चाऽह ।। सादृश्यप्रमेति ।। ‘गोसदृशोऽयं गवय’ इति गवये गोसादृश्यप्रमाणमित्यन्वयः । गोसादृश्यप्रमाणम् गोसादृश्यप्रमाकरणं प्रत्यक्षमित्यर्थः । सादृश्यप्रमासाधनं निर्दोषवाक्य यथेत्यन्वयः । तत्राऽद्यस्य प्रत्यक्षेऽन्तर्भावास्य तृतीयस्य शब्देऽतर्भावस्य स्पष्टत्वात् द्वितीयस्यानुमानान्तर्भावं  तु दुर्विज्ञानत्वात् उपपादयति ।। विमत इति ।

प्रमाणलक्षणटीकाविवरणम्

उपमानलक्षणमाह ।। सादृश्येति ।। सादृश्यपदार्थज्ञानसाधन अतिदेशवाक्यं गोसदृशो गवय इति तस्येत्यर्थः। गवयो गोसादृश्यमिति तस्य प्रत्यभिज्ञारूपं यत् प्रत्यक्षं तदुपमानमिति ।