एतेनैव ‘तर्को न प्रमाणम् किं तु ? प्रमाणानामनुग्राहकः

तर्काप्रामाण्यशङ्कापरिहारौ

प्रमाणलक्षणटीका

एतेनैव ‘तर्को न प्रमाणम् किं तु ? प्रमाणानामनुग्राहकः। प्रमाणविषयविपर्ययशङ्काव्यवच्छेदस्तदनुग्रहः’ इत्येतदपास्तम्। तस्याप्यनुमानवत् यथार्थत्वानुभवात् अहानेश्च इति ।

प्रमाणलक्षणटीकाभावदीपः

।। तर्क इति ।। व्याप्याङ्गीकारे अनिष्टव्यापकप्रसञ्जनरूपतर्क इत्यर्थः ।। प्रमाणविषयविपर्ययेति ।। ‘सधूमोऽपि पर्वतो निरग्निकोऽस्तु’ इत्येवंरूपशङ्का ‘अग्न्यभावाङ्गीकारे प्रतीतधूमस्याभावोऽपि अङ्गीकर्तव्यः स्यात्’ इत्यनिष्टप्रसञ्जनेन व्यवच्छिद्यते इति स एवानुग्रह इत्यर्थः । अनुमानवत् धूमज्ञानजन्यवह्निज्ञानस्येव विपर्यये पर्यवसानेन ‘तस्मात् न निरग्निकः’ इत्युत्पन्नज्ञानस्यापि यथार्थत्वानुभवात् इत्यर्थः ।

यद्वा व्याप्तिलिङ्गपरामर्शस्येव अनिष्टप्रसञ्जनमुखेन हेतोरन्यथोपपन्नत्वशङ्का-व्यवच्छेदद्वारा अन्यथानुपपन्नत्वरूपव्याप्यत्वबुद्धेः  यथार्थत्वानुभवात् इत्यर्थः । अथ वा आपाद्यधूमाङ्गीकारस्य प्रमितेर्यथार्थत्वानुभवात् इत्यर्थः ।

यद्वा तर्कताण्डवोक्तरीत्या साध्याभावेन साधनाभावस्य व्यापकत्वप्रमा तर्क्यते  अनेन इति करणव्युत्पत्त्यातर्कः । तज्जन्या साधनस्य साध्येन सह व्याप्त्यनुमितिस्तु तर्कणम् इति  भावव्युत्पत्त्या तर्कः तयोरपि प्रमित्योः परामर्शानुमित्योरिव यथार्थत्वानुभवात् इत्यर्थः । ‘व्याप्यारोपेण व्यापकारोपस्तर्कः’ इति त्वयुक्तम् । बाष्पे धुमभ्रमजन्यभ्रमरूपानुमितावतिव्याप्तेरिति भावः । तर्कस्य प्रामाण्याङ्गीकारे अनिष्टाभावाच्च इत्याह ।। अहानेश्चेति ।। 

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। एतेनेति ।। मूलवाक्यद्वयेनेत्यर्थः । किं तु ? इत्यनन्तरं स्वयमप्रमाणमेव इति शेषः । कोऽयमनुग्रहः ? इत्यत आह ।। प्रमाणेति ।। यथा आहु:,

प्रत्यक्षादेः प्रमाणस्य तर्कोऽनुग्राहको भवेत् ।

पक्षे विपक्षजिज्ञासाऽवच्छेदस्तदनुग्रहः ।। इति ।   

एतेन इत्युक्तं विशदयति ।। तस्यापीति ।। अनुमानवदिति ।। यथा साधनानुमाने न व्यापितिमात्रं नापि पक्षधर्मतामात्रं साध्यप्रमितिसाधनम् किं तु ? मिलितमेव , एरम् अनिष्टापादनं विपर्यये पर्यवसानं च उभयं मिलितमेव अनुमितिसाधनं भवतीति तर्कस्य प्रामाण्यमुपपद्यत इत्यर्थः ।

न च विपर्ययपरतन्त्रत्वात् तर्कस्याप्रामाण्यम् इति वाच्यम् । तथात्वे अनुमानस्यापि व्याप्त्यादिपरतन्त्रत्वेन अप्रामाण्यापत्तेरिति द्रष्टव्यम् ।

ननु ‘सोऽयं क्वचित् विपरीतशङ्कानिरसनद्वारेण प्रमाणान्तरानुग्राहकोऽपि भवति इति पद्धतौ प्रमाणविषयविपर्यासशङ्कानिरासकत्वरूपस्य प्रमाणानुग्राहकत्वस्याङ्गीकृतत्वात् अत्र पुनः तद्दूषणात् विरोधः इति चेत्, उच्यते अत्र स्वयम् अप्रमाणस्यैव प्रमाणानुग्राहकत्वं यत् परैरुक्तं तदेव दूषितम् । पद्धतौ तु स्वयं प्रमाणभूत एव तर्को न केवलमुक्तरीत्या साधनानुमानवत् स्वातन्त्र्येणानुमापकः, किं तु ? क्वचित् प्रमाणानुग्राहकोऽपि भवति’ इत्यर्थोऽभिप्रेतः। अत एव अपिशब्दः । स्वयं प्रमाणभूतस्यापि प्रमाणान्तरानुग्राहकत्वं च प्रत्यक्षस्य एनुमानं प्रतीवोपपद्यते । लिङ्गव्याप्त्यादिग्राहकतया प्रत्यक्षस्यापि अनुग्राहकत्व-दर्शनात् । अतो न  विरोधः ।

ननु सिद्धान्ते क्वचित् अनुग्राहकत्वम् अङ्गीकृतम् । तत्प्रकारः कथम् ? इति चेत् उच्यते, अनुमानस्थले तर्कनिवर्त्याशङ्का द्विविधा । एका लिङ्गपरामर्शात् पूर्वं ‘धूमवानपि कश्चित् निरग्निकः किं न स्यात्’ इति व्यभिचारशङ्का । अपरा परामर्शोत्पत्त्यनन्तरं प्रतिप्रमाणोपलम्भेन ‘धूमवानपि पर्वतो निरग्निकः किं न स्यात्’ इति बाधसत्प्रतिपक्षशङ्का । ततश्च एतन्निवर्तकतर्कसाध्यानुग्रहोऽपि द्विविधः । आद्यो व्यभिचारशङ्कारूपविपरीतशङ्कानिरसनद्वारेण व्याप्तिप्रमाफलकतया लिङ्गपरामर्शरूपप्रमाणनिष्पादनरूपः । द्वितीयस्तु निष्पन्ने लिङ्गपरामर्शे प्रति-प्रमाणशङ्कारूपविपरीतशङ्काविधूननद्वारेण वह्यनुमितिरूपकेवलप्रमाणनिष्पादन-रूपः । ततश्च अनुमाने अयमुभयविधोऽप्यनुग्रहः तर्कसाध्योऽत्र विवक्षितः। एवं प्रत्यक्षादावपि तर्कसाध्यानुग्रहप्रकारो द्रष्टव्यः इत्यादिकमस्मदाचार्याराधित-पूज्यपादैर्वेदेशस्वामिभिः कृतायां पद्धतिटीकायां द्रष्टव्यं ।। अहानेश्चेतीति ।। तर्कस्य प्रामाण्याङ्गीकारे अनिष्टाभावाच्च इत्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

।। एतेनेति ।। ननु तर्कस्य प्रमाणानामनुग्राहकत्वदूषणमसङ्गतम् । पद्धतौ तस्य प्रमाणानुग्राहकत्वस्योक्तत्वात् ।। तयोर्विरोध इति चेत् ।। पद्धतौ स्वतः प्रामाण्यमङ्गीकृत्य प्रमाणानुग्राहकत्वस्याप्यङ्गीकारात् ।

अत एव तत्र अनुग्राहकोऽपि भवतीत्यपिशब्दः प्रयुक्तः । अत्र पुनः स्वतःप्रमाणत्वमनङ्गीकृत्य प्रमाणानामनुग्राहकत्वमात्रस्य दूष्यमाणत्वात् ।अत एव न प्रमाणं किंतु अनुग्राहक एवेत्यवधारणं अतो न विरोधः अन्तर्भाव इत्युक्तमिति। संवादानुक्तियुतानिग्रह इत्यत्रेति शेषः ।