द्विविधमिन्द्रियम् । प्रमातृस्वरूपं तदतिरिक्तञ्चेति
साक्षिप्रामाण्यम्
प्रमाणलक्षणटीका
द्विविधमिन्द्रियम् । प्रमातृस्वरूपं तदतिरिक्तञ्चेति । तत्र स्वरूपेन्द्रियं साक्षीत्युच्यते । स च ज्ञानरूपः । तस्य आत्मस्वरूपत्वम् तद्धर्माश्च सुखाऽदयो बहिश्चाकाशकाला-दयोऽपि विषयाः । सुखाऽदीनां भिन्नेन्द्रियविषयत्वे कदाचिदपरोक्षभ्रमविषयताऽपातात् । अनन्यथात्वनियमः साक्षिण एव हि धर्मः न त्वन्यस्य । न च कालाऽदेरसाक्षि-विषयत्वम् । रूपाऽद्यभावेन चक्षुराद्यविषयत्वात् । मनसो बहिरस्वातन्त्र्याभ्युपगमात् । अननुसंहितव्याप्तीनामपि प्रतीतेः नानुमानात् तज्ज्ञानम् । जातिबधिराणामप्युपलम्भेन नाऽगमविषयताऽपीति ।
प्रमाणलक्षणटीकाभावदीपः
।। यदुक्तमिति ।। अनुप्रमाणम्त्रिविधम् इत्यारभ्य लिङ्गविशेषः इत्यन्तेन ग्रन्थजातेन इति योज्यम् । आत्मस्वरूपत्वघटनाय आह ।। ज्ञानरूप इति ।। यद्वा वक्ष्यमाणनैयायिकलक्षणस्य साक्षिणि अव्याप्तिघटनाय आह ।। ज्ञानरूप इति ।। इन्द्रियमात्रत्वे तदयोगात् । तद्धर्माः स्वरूपाऽनन्दपरिमाणाविद्या-ऽदयः ।। सुखाऽदय इति ।। मनोधर्माः । मनश्च ग्राह्यम् । आकाशोऽव्याकृतः । आदिपदेन प्राच्यादिदिग्विशेषाः क्षणलवाऽदिकालविशेषाः तयोः अनन्तपरिमाणम् ज्ञानप्रामाण्याप्रामाण्ये इत्येतत् गृह्यते । ।। भिन्नेन्द्रियेति ।। स्वरूपातिरिक्त-प्राकृतेन्द्रियेत्यर्थः ।।साक्षिण एव हि धर्म इति ।। तथा च अनन्यथात्वनियमान्यथा-नुपपत्त्या सुखाऽदिबुद्धेः साक्षिरूपत्वसिद्धेः इति भावः । परिशेषतः कालाऽदेः साक्षिविषयत्वम् साधयति ।। न चेति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
सुखदुःखाऽदय इत्यत्र आदिपदेन ज्ञानेच्छाप्रयत्नद्वेषभयकृपा-विद्याऽदीनाम् एतदभावानाम् अज्ञानाऽदीनाम् आत्मस्वरूपस्य मनसश्च ग्रहणम् । कालाऽदय इत्यत्र आदिपदेन द्व्यणुकपरमाणुप्रकृत्यादीनां ग्रहणम् ।
ननु सुखाऽदीनां प्रमातृस्वरूपभूतसाक्षिरूपेन्द्रियतो भिन्नेन्द्रियविषयत्वम् किं न स्यात् ? इत्यत आह ।। सुखाऽदीनामिति ।। भिन्नेन्द्रियेति ।। प्रमातृस्वरूपभिन्नेन्द्रियेत्यर्थः ।
।। भ्रमविषयतेति ।। भिन्नेन्द्रियाणां कदाचित् दोषयुक्तानां भ्रमजनकत्व-स्यापि दर्शनात् इति भावः ।। आपातादिति ।। तथात्वे परीक्षानवस्थायाः दुष्परिहरत्वापत्तेरिति भावः । यथोक्तम् अनुव्याख्याने
‘‘न परीक्षाऽनवस्था स्यात् साक्षिसिद्धे त्वसंशयात्’’ इति ।
साक्षिविषयत्वे तु नायं दोष इत्याह ।। अनन्यथात्वनियम इति ।। अर्थाव्यभिचारित्वनियम इत्यर्थः ।। साक्षिण एव हीति ।।
‘‘साक्षी निर्दोष एवैकः सदाऽङ्गीकार्य एव नः’’
इत्यादिप्रसिद्धिः हिशब्देन दर्शितेति ज्ञातव्यम् । बहिः कालाऽदीनां साक्षिविषयत्वम् उक्तम् । तदुपपादयितुम् आशङ्कते ।। न चेति ।। असाक्षिविषयत्वमिति ।। साक्षीतरप्रत्यक्षाऽदिप्रमाणविषयत्वमित्यर्थः । कुतो न ? इति चेत् , साक्षीतरप्रमाणं कालाऽदिग्राहकं प्रत्यक्षं वा स्यात् ? उत अनुमानम् ? यद्वा आगमः ? आद्येऽपि तत् प्रत्यक्षं चक्षुरादिरूपं बाह्यं विवक्षितम् ? उत अन्तरिन्द्रियरूपं मनो वा? नाऽद्य इत्याह ।। रूपादीति ।। आदिपदेन उद्भूतस्पर्शाऽद्यभावात् न स्पार्शनत्वम् इत्यादि द्रष्टव्यम् । न द्वितीय इत्याह ।। मनस इति ।। बहिरस्वातन्त्र्येति ।। चक्षुराद्यधिष्ठानेनैव बहिः पदार्थविषयकज्ञानजनकत्वेन तज्ज्ञानजनने स्वातन्त्र्या-भावात् इत्यर्थः।
ननु ‘परमाणुम् अहं जानामि’ इतिवत् प्रमाणान्तरोपनीतस्य कालाऽदेः मानसप्रत्यक्षत्वम्् युक्तम् इति चेन्न । तत्र परमाणूपनायकस्य ‘ त्रसरेणुः सावयवावयवारब्धः जन्यमहत्त्वाधिकरणत्वात् । द्व्यणुकम् स्वापेक्षया स्वल्पपरि-माणद्रव्यारब्धम् कार्यद्रव्यत्वात् घटवत्’ इत्याद्यनुमानस्य सत्त्वात् अत्र तदभावात् इति भावः ।
ननु अस्तु तर्हि तृतीयः पक्षः । तथा हि, कालस्य ‘परापरव्यतिकरयौग-पद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गः’ इति परोक्तरीत्या दिग्विपरीतपरत्वापरत्वाऽदि-षट्प्रत्ययानुमेयत्वोपपत्तेः । आकाशस्यापि ‘शब्दः अष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति गुणत्वात्’ इत्यनुमानवेद्यत्वोपपत्तेः । प्रकृतेरपि
भेदानां परिमाणात् समन्वयात् शक्तिः प्रवृत्तेश्च ।
कार्यकारणविभागात् अविभागाद्वैश्वरूप्यस्य ।।
इति साङ्ख्योक्तरीत्या कार्यकारणविभागाद्यनुमानवेद्यत्वोपपत्तेः इत्यत आह ।। अननुसंहितव्याप्तीनामिति ।। व्याप्त्याद्यनुसन्धानरहितानामपि मूर्खाणाम् ‘इदानीमागतोऽस्मि, सर्वत्रास्त्यवकाशः’ इत्यादिप््रातीतेरित्यर्थः ।
अननुभूतव्याप्तिकस्य पुंसोऽनुभूयमाने धर्मिणि व्याप्यधर्मस्य अनुभवात् प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्यस्य हेतोः पक्षे अनुसन्धानं ह्यनुमानम् । न ह्येतावती अनुमानसामग्री मूर्खाणामस्तीति भावः ।
ननु अस्तु तर्हि ‘कालश्च नित्यःप्रकृतिश्च नित्या , अनादिर्वाअयमाकाशः , प्राणः श्रद्धाऽकाशः’ इत्याद्यागमात् कालाऽदीनां सिद्धिः इति चतुर्थः पक्ष: इत्यत आह ।। जातिबधिराणामपीति ।। एतेन अनुमानायद्युपनीतस्य कालादेः मानसप्रत्यक्षेणैव भानमस्तु इत्यपि परास्तं ज्ञातव्यम् ।।
प्रमाणलक्षणटीकाविवरणम्
प्रत्यक्षविभागस्य प्रत्यक्षलक्षणान्तरमेव वक्तव्यत्वात्तमनुक्त्वा उपपत्तिदोषान्तरनिरूपणमसंगतमित्यत आह ।। सिंहेति ।। न चात्र साक्षिषडिंद्रिय-भेदेनेति सर्वेषामपि निर्देशापत्तेः । अथ सामान्योऽयं निर्देशः । तथात्वे सप्तेन्द्रिय-भेदेनेति वक्तव्यत्वात् उभयथाऽपि साक्षिषडिंद्रियभेदेनेत्युक्तमित्यतोऽस्य तदपेक्षया महावैलक्षण्यसत्वाद्युक्तमित्याह ।। द्विविधमिति ।।
न चैवमपि स्वरूपेन्द्रियतदतिरिक्तभेदेनेत्येव वक्तव्यं साक्षिषडिंद्रिय-भेदेनेत्ययुक्तमेवेत्यत आह ।। तत्रेति ।। तत्र साक्षिणः चक्षुरादिवत् ज्ञानकारणत्व-मात्रं मन्तव्यमित्याह ।। स चेति ।। चशब्दो भिन्नक्रमः संज्ञानस्वरूपश्च न केवलं चक्षुरादिवत् ज्ञानकारणमात्रं अपि तु ज्ञानरूपश्चेति तदर्थः ।
ननु तथाऽपि न साक्षिणः इंद्रियत्वं तद्धि चक्षुरादिवदसाधारणविषयान्यथा-नुपपत्या स्यात् । न चास्य असाधारणविषयोऽस्ति । तत्कथमिंद्रियत्वमित्यत आह तस्येति । तद्धर्मा इत्युक्तऽपि यदा सुरवादय इति पृथगुपादत्ते तेन तेषामात्मधर्मत्वं वदतां नैय्यायिकादीनां मतं निरस्तं भवति । तेषामात्मधर्मत्वे प्रमाणाभवात् ।
न चैवं मनोधर्मत्वेऽपि तदभावः । कामःसंकल्प इत्यादेः एतत्सर्वं मन एवेति। तन्न प्रमाणत्वात् । तद्धर्मपदेन च कर्तुत्वभोक्तृत्वादेर्ग्रहणम् । आकशोऽव्याकृताकाशः । यः परैः दिक्त्वेनाभ्युपगतः आदिपदेन अव्द्यिादिसंग्रहः । आकाशादीनां बाध्यस्थत्वोक्त्या सुखादीनामन्तरत्वमुक्तं भवति । कुतस्तेषां साक्षिविषयत्वं अन्य-विषयत्वस्यापि संभवादित्यत आह । सुखादीनामन्यविषयत्वे तावद्बाधकमाह ।। सुखादीनामिति ।। भिन्नेन्द्रियविषयत्वे प्रमातृस्वरूपभिन्नेन्द्रियविषयत्व इत्यर्थः।
नन्वेवं कदाचित् भ्रमविषयत्वापातेनाऽन्येंद्रियविषयत्वाभावे साक्षिविषयत्व-मपि न स्यात् । तथापि भ्रमविषयत्वापातादित्यतः पूर्वं भिन्नेंद्रियविषयत्व इत्यदिना सूचितां युक्तिमाह ।। अन्यथात्वेति ।। एवं सुखादेरन्यविषयत्वे बाधकमुक्त्वाऽ-काशादेरन्यविषयत्वं वदन् प्रष्टव्यः किं बाह्येंद्रियग्राह्यत्वं वा अंतरिंद्रियग्राह्यत्वं वाऽनुमानग्राह्यत्वं वा आगमग्राह्यत्वं वा ? नाद्य इत्याह ।। रूपाद्यभावेनेति ।। उपलक्षणमेतत् । उद्भूतस्पर्शाभावेन चेत्यपि द्रष्टव्व्यम् ।
इदमुक्तं भवति । बाह्येन्द्रियविषयत्वे ऽपि न तावच्चक्षुरिंद्रिविषयत्वम् । महत्वसमानाधिकरणोद्भूतरूपवत्वस्य द्रव्यचाक्षुषत्वे प्रयोजकत्वेन प्रकृते चाकाशादेर्नीरूपत्वेन तद्विषयत्वसंभवात् । नापि स्पर्शेन्द्रियविषयत्वम् । उद्भूतस्पर्शवत्वस्य द्रव्यस्पर्शवत्वे प्रयोजकत्वेन तद्विषयत्वसंभवात् । नापि श्रोत्रादिविषयत्वं तेषां शब्दादिगुणमात्रग्राहकत्वादिति ।
अस्तु तर्हि द्वितीय इत्यत आह ।। मनस इति ।। न च त्रसरेणुः सावयवारब्धः जन्यमहत्वाधिकरणत्वादित्यनुमानेनोपनीतस्य परमाणुमहं जानामीति चाक्षुषे भानवत् । अव्याकृताकाशादेरपि अनुमानोपनीतस्य मानसे ज्ञाने भानं भवत्विति वाच्यम् । तत्रोपनायकप्रमाणसद्भावेन मानसे ज्ञाने भानसंभवेऽपि अत्र तदभावेन भानासंभवात् कुतस्तदभाव इत्यत आह ।। अननुसंहितेति ।। यद्वा तृतीयं निरा-करोति अननुसंहितेति । व्याप्तिज्ञानरूपसहकार्यभावेऽपीत्यर्थः चतुर्थं निराकरोति जातिबधिराणामिति ।
इदमुक्तं भवति । नागमोऽज्ञातःकरणं अतिप्रसंगात् । किं तु ज्ञात एव । तथा च येन ज्ञातः तस्यैव तद्बोधो भवतीति वक्तव्यम् । न च प्रकृते तथाऽस्ति जातिबधिराणामप्युपलंभात् । न चोपलंभो सिद्धः हस्तप्रसारणाद्यनुपपत्तेस्तद्भाना-भावेऽपि तत्सत्वे कुमध्येपि मध्येऽपि हस्तौ निक्षिप्येतेति ।।