निदोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्
प्रत्यक्षसामान्यलक्षणम्
प्रमाणलक्षणटीका
तत्र प्रत्यक्षलक्षणमाह
प्रमाणलक्षणम्
निदोषार्थेन्द्रियसन्निकर्षः प्रत्यक्षम्
निर्दोषत्वमर्थेन्द्रिययोर्विशेषणम् । अर्थग्रहणेनाकाशा-दीनां चक्षुरादिसन्निकर्षव्युदासः । अत्र तत्तदिन्द्रियविषयोऽर्थ उच्यते । तन्निर्दोषत्वग्रहणेन अतिसामीप्यादिदोषयुक्ता-र्थानामिन्द्रियसन्निकर्षनिरासः । इन्द्रियग्रहणेन अर्थानामेव अन्योन्यसन्निकर्षनिरासः । तन्निर्दोषत्वग्रहणं मनोऽनधि-ष्ठितत्वाऽदिदोषवदिन्द्रियाणामर्थसन्निकर्षव्यावृत्त्यर्थम् । सन्निकर्ष इतीन्द्रियाऽदिमात्रव्युदासः। सर्वेण प्रमाणान्तर-व्युदासः ।
प्रमाणलक्षणटीकाभावदीपः
।। अर्थेति ।। अर्थेन्द्रिययोर्विशेषणमित्यर्थः । आकाशस्याप्यर्थत्वात् कथं तेन तन्निरासः ? इत्यत आह ।। अत्रेति ।। लक्षणवाक्य इत्यर्थः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
नन्वाकाशाऽदेरप्यर्थत्वात् कथं तद्ग्रहणेन तत्सन्निकर्षव्यावृत्तिः? इत्यत आह ।। अत्रेति ।। यथाहुः पदार्थविदः ‘अर्थाः स्युरिन्द्रियग्राह्याः’ इति । अतिसामीप्याऽदीत्यादिपदेन अतिदूरत्वसौक्ष्म्यव्यवधानाऽदिग्रहणम् ।। तदिति ।। इन्द्रियेत्यर्थः । आदिपदेन काचाऽदिग्रहणम् ।। इन्द्रियेति ।। असन्नि-कृष्टेन्द्रियेत्यर्थः । निर्दोषः प्रत्यक्षम् इत्येवास्त्विति चेत् तत्राऽह ।। सर्वेणेति ।। उर्वरितेन अर्थेन्द्रियसन्निकर्ष इति भागेनेत्यर्थः । प्रमाणान्तरं अनुमानाऽदिकम् । अन्ते तु सर्वेण समस्तेन लक्षणेन प्रमाणान्तरव्युदासः । तथा चेदं लक्षणमलक्ष्ये नास्तीत्यर्थ इत्याहुः ।
प्रमाणलक्षणटीकाविवरणम्
निर्दोषत्वरूपविशेषणस्य संनिहितार्थविशेषणत्वमात्रशङ्कां निवारयति ।। निर्दोषत्वमिति ।। निर्दोषेंद्रियसन्निकर्षः प्रत्यक्षमित्युक्ते चक्षुर्भूताकाशसन्निकर्षेऽतिव्याप्तिस्तस्य निर्दोषेंद्रियसन्निकर्षत्वेपि प्रत्यक्षत्वाभावादित्यत अर्थपदं प्रयुक्तमिति त्याह ।। अर्थग्रहणेनेति ।।
नन्वाकाशस्याप्यर्थत्वेन चक्षुराकाशसन्निकर्षस्यापि निर्दोषर्थेंद्रिय-सन्निकर्षत्वेन तत्रातिव्याप्तिस्तदवस्थैवेत्यतआह ।। अत्रेति ।। निर्दोषत्वग्रहणेनेति ।। अर्थनिर्दोषत्वग्रहणेनेत्यर्थः । मनोऽनधिष्ठितत्वादीत्यत्रादिशब्देन काचकामलादि-दोषसंग्रहः । इंद्रियादिमात्रेत्यत्रादिपदेन निर्दुष्टार्थसंग्रहः । मात्रेत्यत्र केवलत्वं मात्रशब्दार्थः । सन्निकृष्टस्यैव तस्यानुप्रमाण्येऽपि केवलस्य तस्य तदभावादिति हृदयं ।
ननु निर्दोषत्वमस्तु लक्षणं को दोषः । येन विशेष्यभागस्यावश्यकत्वमित्यत आह ।। सर्वेणेति ।। अयमाशयः । निर्दोषत्वमात्रस्यैव लक्षणत्वे अनुमानस्यापि अतिसामीप्यादिदोषरहितत्वेन निर्दुष्टत्वेपि प्रत्यक्षत्वाभावात् तत्रातिव्याप्तिः स्यात्। सा च यद्यपि न लक्षणैकदेशेन निर्दोषत्वविशेषणेन सम्भवति । तथाऽपि सर्वेण लक्षणेन न तद्व्यावृत्तिः संभवतीति भावः ।
यद्वा सर्वेणेत्यतः परं विशष्यभागनेति शेषः । निर्दोषत्वरूपविशेषणं प्रति विशेष्यं यत् अर्थंेद्रियादि तत् प्रत्यपि यद्विशेष्यं सन्निकर्षादि तस्य सर्वस्यापि ग्रहणार्थं सर्वशब्द उपपन्नः ।
अयमर्थः । निर्दोषत्वमात्रस्यानुमानादिसाधारणत्वेन व्यावर्तकत्वासंभवेऽपि अर्थेंद्रियसन्निकर्षत्वरूपविशेष्यस्य तत्राभावेन व्यापकत्वमुपपन्नमिति ।
इंद्रियार्थसन्निकर्ष इति विशिष्टभागे सन्निकर्ष इत्यास्येंद्रियपदस्यार्थपदस्य च प्रत्येकं प्रयोजनमुक्तं । इदानीं निर्दोषत्वमात्रस्यैव लक्षणत्वसंभवात् किमर्थं इंद्रियसंनिकर्ष इति विशिष्टेत्यतस्तत्प्रयोजनमाह ।। सर्वेणेति ।। अनुमानादेरपि निर्दोषत्वात् तन्निरासायार्थेन्द्रियसन्निकर्ष इति विशिष्टोपादानं । आदिपदेनेंद्रियमात्रस्य परिग्रह इति तत्वं ।