याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात्

मीमांसकैकदेश्यभिमतप्रमाणसामान्यलक्षणनिराकरणम्

प्रमाणलक्षणटीका

अन्यस्त्वाह, प्रमासाधनत्वमेव लक्षणम् । प्रमा च नार्थप्राकट्यम् । किं तु ? अज्ञातार्थस्य यथार्थज्ञानम् । अतो नोक्तदूषणमित्यत आह

प्रमाणलक्षणम्

न चाज्ञातपरिच्छित्तिरेव प्रमेत्यत्र किञ्चिन्मानम्

परिच्छित्तिरिति यथार्थज्ञानमुच्यते । अज्ञातेति स्मृति-साधनव्युदासार्थम् । यथार्थग्रहणं भ्रमादिसाधनव्युदासार्थम् ।

अस्तु नाम अज्ञातपरिच्छित्तिः प्रमा तत्साधनं च प्रमाणम् । तथापि न लक्षणमेतत् युक्तम् ज्ञातपरिच्छित्तेरपि प्रमात्वेन तत्साधनस्य च प्रमाणत्वेन तत्राव्याप्तेः । न हि ज्ञातपरि-च्छित्यादेः अमात्वादौ प्रमाणमस्ति । ज्ञातपरिच्छित्त्यादेः प्रमात्वादौ स्मृत्यादेरपि तत् स्यादित्यत आह

याथार्थ्यमेव प्रामाण्यमित्यङ्गीकारात्

स्मृत्यादेः प्रमात्वादिप्रसङ्गो नानिष्टः । याथार्थ्यमेव प्रामाण्यमित्यङ्गीकुर्वद्भिः स्मृत्यादिकस्य प्रमात्वादेरङ्गीकृत-त्वादिति।

प्रमाणलक्षणटीकाभावदीपः

तावता लक्षणस्य किं दूषणमुक्तम् ?इत्यत एवकाराभिप्रायं व्यनक्ति ।। अस्तु नामेत्यादिना ।। ज्ञातपरिच्छित्त्यादेरित्यादिपदेन तत्साधनग्रहः ।। स्मृत्यादेरिति ।। आदिपदेन अनुवादादिग्रहः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अन्यो मीमांसकैकदेशी ।। अज्ञातार्थस्येति ।। अनधिगतार्थस्येत्यर्थः ।। नोक्तदूषणमिति ।। ‘ज्ञाततासाधनं प्रमाणम्’ इति मतोक्तदूषणं नेत्यर्थः ।

 ।। स्मृतिसाधनेति ।। स्मृतिकारणीभूतसंस्कारेत्यर्थः । यथार्थज्ञानसाधनत्वस्य संस्कारेऽपि  सत्त्वेन तत्रातिव्याप्तिपरिहाराय अज्ञातेत्यर्थविशेषणमुपात्तम् । स्मृतेश्च पर्वानुभूतार्थविषयकत्वेन तत्कारणे संस्कारे अज्ञातार्थज्ञानसाधनत्वाभावात् नातिव्याप्तिरिति भावः । भ्रमादीत्यादिपदेन संशयग्रहणम् । तत्साधनं दुष्टेन्द्रियम् । अनधिगतार्थज्ञानसाधनत्वस्य दुष्टेन्द्रियेऽपि सत्त्वात् तत्रातिव्याप्तिपरिहाराय यथार्थग्रहणमित्यर्थः । प्रमाणं अस्त्विति सम्बन्धः।

।। ज्ञातपरिच्छितेरपीति ।। ज्ञातार्थविषयिकायाः परिच्छित्तेरपीत्यर्थः । प्रमात्वादावित्यादिपदेन तत्साधनस्य प्रमाणत्व इति ग्राह्यम् । स्मृत्यादेरित्यादिपदेन तत्साधनानुवादधारावाहिकज्ञानादिग्रहणम् । प्रमात्वादिप्रसङ्ग इत्यत्र आदिपदेन तत्साधनस्य प्रमाणत्वप्रसङ्गोग्राह्यः । अङ्गीकुर्वद्भिरस्माभिः । प्रमात्वादेरित्यत्र आदिपदेन तत्साधनस्य मनसः प्रमाणत्वस्यापि अङ्गीकृतत्वादित्यर्थः ।