वादिसाधनसामर्थ्येन साध्यस्यैव व्याप्तिं विना ..
उत्कर्षसमजाति:
प्रमाणलक्षणटीका
वादिसाधनसामर्थ्येन साध्यस्यैव व्याप्तिं विना कस्यचिद-निष्टधर्मस्य दृष्टान्तात् पक्षे उत्कर्षः उत्कर्षसमः । यथा ‘यदि धूमवत्वात् महानसवत् अग्निमान् पर्वतः तर्हि तत एव स्थाल्या-दिमानपि स्यात् । अविशेषादिति ।
अत्र साधनसाहचर्यदर्शनमुत्थानबीजम् । विशेष-विरुद्धत्वमारोप्यम् । व्याप्त्यभावात् युक्ताङ्गहानिः । तदनङ्गीकारे ‘नेदं साधकं विशेषविरुद्धत्वात् नित्यत्वसाधककृतकत्वत्’ इति प्रतिषेधहेतावपि नित्यत्वसाधककृतकत्ववत् तत एव हेतोर्धूम-वत्वस्यामूर्तवृत्तित्वं च स्यादित्युत्कर्शसाम्यात् व्याघात इति ।। २ ।।
प्रमाणलक्षणटीकाभावदीपः
सामर्थ्येन पक्षधर्मत्वरूपेणेत्यर्थः ।। प्रतिषेधहेतावपीति ।। जाति-वादिनोक्तदूषणहेतावपीत्यर्थः ।। २ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
कस्याप्यनिष्टधर्मस्य वादिसाधनशक्तितः ।
दृष्टान्तात्पक्ष उत्कर्ष उत्कर्षसम उच्यते ।।
इतिकारिकानुसारेण उत्कर्षसमजातिं लक्षयति ।। वादिसाधनेति ।। अविशेषसमव्यवच्छेदाय वादिसाधन सामर्थ्येनेत्युक्तं । तत्र हेत्वन्तरेणोत्कर्षं वक्षयति । सदुत्तरव्यावृत्त्यै व्याप्तिं विनेति । शिष्टं स्वरूपकथनमिति ज्ञेयम् । तत एव धूमवत्वा-देव । तद्वदेव इति शेषः । स्थाल्यादीति आदिपदेन व्यञ्जनवत्त्वग्रहणम् । अविशेषात् धूमवत्वाविशेषात् ।
दर्शनं स्थाल्यादिमत्त्वस्येति शेषः ।। विशेषविरुद्धत्वमिति ।। हेतोः पक्ष-धर्मताबललभ्यं यत् पक्षीयं साध्यं तत् विशेषशब्देनोच्यते । यथा ‘क्षित्यादिकं सकर्तृकम्’ इत्यत्र कार्यत्वहेतोः पक्षधर्मताबललभ्यं सर्वज्ञकर्तृकत्वमिव धूमवत्त्वहेतोः पक्षधर्मताबललभ्यं यत् पक्षीयसाध्यं पर्वतीयवह्निरूपं तेन विरुद्धत्वं तदभावेना तददर्शनात् प्रत्युत तदभावेनैव सहचारदर्शनात् विरुद्धत्वम् इति सम्प्रदायः ।
।। तदनङ्गीकार इत्यादि ।। अयं भावः, ‘धूमवत्वात् इति हेतुः साध्यसाधको न विरुद्धत्वात् शब्दे नित्यत्वसाधककृतकत्ववत्’ इति जातिवादिप्रत्युक्ते प्रतिषेध-हेतावपि विरुद्धत्वं कृतकत्वे यथा साध्यासाधकत्वेन सह दृष्टं एवममूर्तवृत्तित्वेनापि सहचरितं दृष्टम् शब्दस्यामूर्तत्वेन कृतकत्वस्य तद्वृत्तित्वात् । तथा च तद्वदेव धूमवत्त्वेऽप्यमूर्तवृत्तित्वं साधयेत् विरुद्धत्वाविशेषात् । धूमवत्वे च अमूर्तवृत्तित्व-मनिष्टं पर्वतस्य मूर्तत्वेन धूमवत्त्वस्य तद्वृत्तित्वात् । तथा च धूमवत्त्वात् अमूर्तवृत्ति विरुद्धत्वात् नित्यत्वसाधककृतकत्ववदिति । न चात्र व्याप्त्यभावः । तदनङ्गीकारात् इति स्वन्यायविरोध इति ।। २ ।।
प्रमाणलक्षणटीकाविवरणम्
।। विशेषविरुद्धत्वमिति ।। हेतोः पक्षधर्मतालंबलभ्यं यत्पक्षीयं साध्यं तद्विषशब्देनोच्यते । यथा क्षित्यादिकं सकर्तृकमित्यत्र कार्यत्वहेतोः पक्षधर्मताबललभ्यं सर्वज्ञकर्तृत्वमिव धूमवत्वहेतोः पक्षधर्मताबललभ्यं यत्पक्षीयं साध्यं पर्वतीयवन्हिरूपं तेन विरुद्धत्वं तदभावेन व्याप्तत्वमारोप्यमित्यर्थः ।। तथाहि ।। धूमवत्वस्य महानसे स्थाल्यादिमत्वेन साहचर्यदर्शनेन पर्वतीयवन्हिना तददर्शनात् प्रत्युत तदभावेन साहचर्यदर्शनाद्विरुद्धत्वमिति संप्रदायः ।। व्याप्तीति ।। धूमवत्वस्य स्थाल्यादिमत्वेन व्याप्त्यभावादिति ।। प्रतिषेधहेतावपीति ।। धूमवत्वं अमूर्त-वृत्तिविरुद्धत्वानित्यत्व-साधककृतकत्ववत् कृतकत्वं हि यथा साध्यासधकत्वेन व्यप्य एव मूर्तावृत्तित्वेनापि सहचरितं शब्दस्य मूर्तत्वात् एवं धूमवत्वस्या-प्यमूर्तवृत्तित्वं स्यात् । न च व्याप्याद्यभावः। तस्यानङ्गीकारात् । अङ्गीकारे वा विरुद्धात्वात् ।। तत एवेति ।। विशेषविरुद्धत्वादेवेत्यर्थः ।। २ ।।