साध्याविशिष्टोऽसिद्धः
साध्याविशिष्टस्य असिद्धावन्तर्भावः
प्रमाणलक्षणटीका
तथापि साध्याविशिष्टत्वं हेतोर्दूषणान्तरमस्तीत्यत आह
प्रमाणलक्षणम्
साध्याविशिष्टोऽसिद्धः
पर्वतोऽग्निमान् अग्निमत्वादिति साध्याविशिष्टो हेतुरसिद्ध एवान्तर्भवति । साध्यमेव ह्यत्र हेतुः । न हि साध्यं सिद्धम् । व्याहतेरेव । न च वाच्यं साध्याविशिष्टो हेतुरव्याप्तौ किं नान्तर्भवति ? व्याप्तेरुभयधर्मत्वेन स्वेनैव स्वस्य व्याप्त्ययोगा-दिति । विवक्षितस्थले लिङ्गदर्शनानन्तरं हि व्याप्तिस्मृतिः स्यात्। तत्र साध्यभूतलिङ्गस्य अदर्शनेनैव अनुमानदोषसिद्धौ व्याप्तिचिन्ताया एवानुदयात् ।
आश्रयासिद्धिरदूषणमित्युक्तम् । तत् किं सर्वापि ? न धर्म्यभावादिनिमित्तैव । यदभाषता असत्यपि व्याप्तिरस्ती-त्यादि ।
प्रमाणलक्षणटीकाभावदीपः
न चेत शङ्कितैव व्याप्तिमुपपादयति ।। व्याप्तेरुभयधर्मत्वेनेत्यादिना ।। अव्याप्तौ अनन्तर्भावे युक्तिमाह ।। विवक्षितेति ।। तत् किं सर्वापि ? इति पृष्टस्योत्तरं न इति । किं तर्हि ? इत्यत आह ।। धर्म्यभावादीति ।। अभावादौ कस्यापि धर्मस्याभावात् साधनाद्याश्रयत्वं व्याप्त्याश्रयत्वं वा न युक्तमिति निर्धर्मकत्वादिनिमित्ताश्रयासिद्धिरेव अदूषणमित्यर्थः । आदिपदेन धर्माभावग्रहः। क्वचित् धर्माभावादिनिमित्तैव इति पाठः ।
कुत एवम् ? इत्यत आह ।। यदभाषतेति ।। असत्यपि व्याप्तिरस्ति इति , नचात्यन्ताभावोऽपि सर्वधर्मरहितः इति यदभाषत मूलकारः पूर्वत्र तेनैवं ज्ञायत इत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।।दूषणान्तरमस्तीति ।। तथा च हेतुस्वरूपासिद्धिः अव्याप्तिरिति हेतुविरोधद्वैविध्यकथनमयुक्तमिति भावः ।। असिद्ध एवेति ।। तथा च हेतुस्वरूपासिद्धिरित्यनेनैव सङ्गृहीत इत्याशयः ।
असिद्ध एवान्तर्भावमुपपादयति ।। साध्यमेव हीति ।। नन्वस्तु साध्यस्यापि हेतुत्वं । को दोषः ? इत्यत आह ।। न हीति ।। साध्यं साधयितुं योग्यं । सिद्धस्यैव हेतुत्वादिति भावः । अव्याप्तौ अव्याप्तिरूपे हेतुविरोधे ।। किमिति ।। किमर्थम् ? इत्यर्थः ।
अव्याप्तौ अन्तर्भावमुपपादयति ।। व्याप्तेरिति ।। कुतो न वाच्यम् ? इत्यत आह ।। विवक्षितस्थल इति ।। अदर्शनेनैवेति ।। साध्यभूतं यत् लिङ्गं तस्य दर्शने तु प्रत्यक्षेणैव साध्यस्य सिद्धत्वात् अनुमानस्य सिद्धसाधनता स्यादिति भावः ।। अनुमानदोषेति ।। अनुमानस्य असिद्धिरूपदोषसिद्धावित्यर्थः ।
असिद्धेरेव प्रथमोपस्थितत्वात् प्रथमातिक्रमे च कारणाभावादिति भावः । अत्र यद्यपि अभेदेऽपि व्याप्यव्यापकभावः त्वयैवाङ्गीकृतः । अन्यथा ‘शब्दोऽनित्यः कृतकत्वात्’ इत्यत्र कृतकत्वमेव उपाधिः स्यात् । अतोऽभेदेपि स्वेनैव स्वस्य व्याप्तिसम्भवेन साध्याविशिष्टस्य अव्याप्तौ अन्तर्भावासम्भवात् युक्तो हेतुस्वरूपासिद्धावेवान्तर्भाव इत्युत्तरं वक्तुं शक्यते । तथापि तत् शिष्यैेरेवोह्यतां इत्यभिप्रायेणेदं समाधनानान्तरमुक्तमित्यवधेयम् ।
शङ्कते ।। आश्रयासिद्धिरिति ।। इत्युक्तमिति ।। आश्रयसाध्यव्यधि-करणासिद्धयो न दूषणम् इत्यनेनेत्यर्थः । तत् तत्र ।। सर्वापीति ।। पक्षाभावप्रयुक्ता आश्रयासिद्धिः तथा सिद्धसाधनतायां सन्दिग्धसाध्यधर्मवत्त्वरूपपक्षलक्षणाभावेन आश्रयासिद्धिर्भवति । यथोक्तं परैः
आश्रयासिद्धता हेतोः सिद्धधर्मस्य साधने ।
पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यतः ।। इति ।
एवं द्विविधाप्याश्रयासिद्धिरदूषणं किम् ? इति प्रश्नार्थः ।
उत्तरमाह ।। धर्म्यभावनिमित्तैवेति ।। आश्रयासिद्धिरदूषणमित्यन्वयः । एवकारेण सिद्धसाधनतप्रयुक्ताऽश्रयासिद्धेः अदूषणत्वव्यवच्छेदः ।
अत्र भगवत्पादोक्तं ज्ञापकमाह ।। यदभाषतेति ।। असत्यपीति ।। प्रयोजिका च व्याप्तिरसत्यप्याश्रये साध्यसाधनयोरस्त्येव । ‘वन्ध्यासुतो न वक्ता अचेतनत्वात्’ इत्यादौ दर्शनात् इति तदर्थः पूर्वमुक्तो द्रष्टव्यः ।
प्रमाणलक्षणटीकाविवरणम्
।। उक्तमिति ।। आश्रयसाध्यव्यधिकरणासिद्धयोर्न दूषणमित्यत्रेत्यर्थः । सा किं सर्वापीति आश्रयासिद्धिरनेकप्रकारा । असदाश्रयत्व-मभावश्रयत्वमप्रतीताश्रयत्वं पक्षीकृताकारेणासत्वं सिद्धसाधनत्वं चेति । तत्र कि मुक्तप्रकारेषु किंचित्प्रकारानदूषणमित्यभिमतं उत सर्वप्रकारापीति प्रश्नार्थः ।
अप्रतीताश्रयत्वादेर्दूषणत्वस्य सिद्धान्तिनाऽङ्गीकारेण द्वितीयस्यासंभव-दुक्तिकत्वात् आद्य एवाङ्गीकार्यः । तथा च किंचित्प्रकाराया अदूषणत्वेऽपि प्रकारान्तरविशिष्टायाः दूषणत्वस्यावश्यंभावात् तयैव दोषाधिक्यादुक्तविभगो न्यून इति प्रश्नाशयः ।
गूढाभिसंधिरेव परिहरति ।। धर्म्याभावादिति मत्तैवेति ।। न सर्वप्रकाराश्रया-सिद्धमदूषणत्वेन ब्रूमः । येनापसिद्धान्तः स्यात् । किंतु धर्मिणो सत्वनिमित्तका तथा धर्र्मिणो अभावत्वनिमित्तका चासिद्धिः ,तथा असदाश्रयत्वमभावाश्रयत्वं वा दूषणमिति निष्कृष्टार्थः । द्विरूपाया एव अदूषणत्वाभिमतौ मूलकारीयं ज्ञापकमाह ।। यदिति । आदिपदेन न चात्यन्ताभावोऽपि सर्वधर्मरहित इति वाक्यान्तरस्य संग्रहः । पूर्ववादी स्वाभिसंधिमुद्घाटयति ।। तर्हीति ।।