वादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा
अप्रतिभा
प्रमाणलक्षणटीका
वादिनोक्तस्य प्रत्युत्तराप्रतिपत्तिरप्रतिभा । सा चानूद्य तूष्णीम्भाव एव । अननुवादेत्वननुभाषणत्वात् । श्लोकपाठाऽदावर्थान्तरप्रसङ्गात् इति ।। १६ ।।
प्रमाणलक्षणटीकाभावदीपः
अज्ञानेऽनतिव्याप्तये प्रत्युत्तरेति ।। श्लोकेति ।। परोक्तमनूद्य दूषणमनुक्त्वा यस्य कस्यचिच्छलोकस्य पाठे लोकवार्ताऽऽदौ वा प्रकृतानुपयुक्तेः अर्थान्तरमित्यर्थः ।। १६ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् ।
प्रतिपत्तुं न शक्नोति तदाऽस्याऽप्रतिभा भवेत्’’
इतिकारिकाऽनुसारेणाप्रतिभां लक्षयति ।। वादिनोक्तस्येति ।।
अननुभाषणेऽतिव्याप्तिं परिहरति ।। सा चेति ।। सा चाप्रतिभा । वाद्युक्तमनू्द्य प्रतिवादिनो यदा तूष्णीम्भावः तस्मिन् सत्येव उद्भावनीयमित्यर्थः । तथा च लक्षणे वादिनोक्तस्येत्यनन्तरम् अनूूदितस्येत्यपि ग्राह्यमित्युक्तं भवति । अनूद्येत्यस्य व्यावर्त्यमाह ।। अननुवादे त्विति ।।
ननु सर्वथोच्चारणाभाव एवाननुभाषणत्वं । वादिनोक्तस्यानूदितस्य प्रत्युत्तरा-प्रतिपत्तिदशायां प्रकृतासङ्गत श्लोकपाठाऽदिकरणदशायां कथम् ? इत्यत आह ।। श्लोकपाठाऽदाविति ।। अथार्ंतरेत्युपलक्षणम् । पठ्यमानश्लोकगायनाऽदेरन्वितत्वे प्रकृतानुपयुक्तत्वे अर्थांतरत्वम् , अनन्वितत्वे अपार्थकत्वम् पदार्थानुपस्थापकत्वे निरर्थकत्वम् इति ज्ञातव्यम् ।। १६ ।।
प्रमाणलक्षणटीकाविवरणम्
अप्रतिभालक्षणमाह ।। वादिनेति ।। तस्याः कदाऽप्रति-भात्वमित्यत आह ।। सा चेति ।। वादिनोक्तमिति शेषः । तूष्णींभावश्चेत्तदेवाप्रतिभा।
अवधारणव्यावर्त्यमाह ।। अनुवाद इति ।। श्लोकपाठादाविति ।। केशादि-शोधनगगनावलोकनभूतललेखनादिसंग्रहायादिशब्दः ।