पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः
विरुद्वः
प्रमाणलक्षणटीका
पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः । स द्विविधः। विद्यमानसपक्षोऽविद्यमानसपक्षश्चेति । प्रत्येकं चतुर्विधः ।
तत्र सति पक्षे पक्षविपक्षव्यापको यथा ‘नित्यः शब्दः कार्यत्वात्’ इति ।
पक्षव्यापको विपक्षैकदेशवृत्तिर्यथा ‘सामान्यवत्वे सति अस्मदादिबाह्यैकेन्द्रियग्राह्यत्वात्’ इति ।
पक्षविपक्षैकदेशवृत्तिर्यथा ‘प्रयत्नानन्तरीयकत्वात्’ इति। पक्षैकदेशवृत्तिविपक्षव्यापको यथा ‘पृथिवी नित्या कृतकत्वात्’ इति ।
प्रमाणलक्षणटीकाभावदीपः
।। सामान्यवत्त्वे सतीति ।। ‘शब्दो नित्यः’ इति नित्यत्वप्रतिज्ञा सर्वत्रान्वेति । अस्य हेतो रूपादावनित्ये सत्त्वेऽपि घटादावभावात् पक्षे ध्वनौ वर्णे च भावादिति भावः ।। प्रयत्नेति ।। शब्दनित्यत्वे साध्ये अयं हेतुर्वर्णेषु नास्ति ध्वनिष्वस्ति , विपक्षे घटादावस्ति ज्ञानेच्छादौ नास्तीति भावः ।
।। कृतकत्वादिति ।। अस्य हेतोः पक्षैकदेशपरमाणुष्वभावात् अनित्ये विपक्षे सर्वत्र सत्त्वादिति भावः । अत्रोक्तपक्षचतुष्टयेऽपि नित्यो गगनादिः सपक्षोऽस्तीति भावः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अथ विरुद्धं लक्षयति ।। पक्षविपक्षयोरेवेति ।। यथाऽऽहुः
विरुद्धः स्याद्वर्तमानो हेतुः पक्षविपक्षयोः । इति ।
।। प्रत्येकं चतुर्विध इति ।। सति सपक्षे पक्षविपक्षव्यापक आद्यः पक्षव्यापको विपक्षैकदेशवृत्तिर्द्वितीयः पक्षैकदेशवृत्तिर्विपक्षैकदेशवृत्तिस्तृतीयः पक्षैकदेशवृत्ति-र्विपक्षव्यापकश्चतुर्थः । सति सपक्षेऽप्येवं चातुर्विध्यं द्रष्टव्यम् ।
।। कार्यत्वादिति ।। अत्र नित्यं गगनाऽदिकं सपक्षः । तार्किकमते कार्यत्वहेतुः पक्षीभूतध्वनिवर्णात्मकशब्दव्यापी विपक्षभूतानित्यभावमात्रव्यापी चेति द्रष्टव्यम् । ‘सामान्यवत्त्वे सति’ इत्यादिहेतुत्रयेऽपि ‘शब्दो नित्यः’ इति प्रतिज्ञाऽनुवृतिर्द्रष्टव्या।
‘सामान्यवत्वे सति’ इत्यादिहेतुः पक्षव्यापको विपक्षभूतघटादिवृत्तित्वेऽपि धर्माधर्माऽद्यवृत्तित्वात् विपक्षैकदेशवृत्तिश्चेति मन्तव्यम् । ‘एकेन्द्रियग्राह्यत्वात्’ इति पाठे तु विपक्षभूतरूपाऽदिवृत्तित्वेऽपि द्वीन्द्रियग्राह्यघटाद्यवृत्तित्वाद्विपक्षैक-देशवृत्तित्वं द्रष्टव्यम् ।
।। प्रयत्नानन्तरीयकत्वादिति ।। ‘प्रयत्नानन्तरं जन्यत्वात्’ इत्यर्थः । एवमुत्तरत्रापि व्याख्येयम् । अयं च हेतुः पक्षैकदेशवृत्तिः ध्वन्यात्मकशब्दे सत्त्वेऽपि वर्णात्मकशब्दे मीमांसकरीत्या अभावात् । विपक्षैकदेशवृत्तिश्च नित्यत्वाभाववति घटादौ सत्त्वेऽपि प्रागभावे अभावात् ।। कार्यत्वादिति ।। कार्यरूपायां पृथ्व्यां विद्यमानत्वेऽपि परमाणुरूपायां पृथिव्यामभावात् अयं हेतुः पक्षैकदेशवृत्तिः , अनित्यभावमात्रे सत्त्वात् विपक्षव्यापकश्चेति द्रष्टव्यम् ।
प्रमाणलक्षणटीकाविवरणम्
एवमसिद्धलक्षणमुक्त्वा विरुद्धलक्षणमाह ।। पक्षेति ।। प्रत्येकं चतुर्विध इति ।। सति सपक्षे पक्षविपक्षव्यापकः । असति सपक्षे पक्षविपक्षव्यापक इति प्रत्येकं चतुर्विधः । एवमेवासति सपक्ष इत्यत्रापि पक्षचतुष्टयं द्रष्टव्यं ।
तत्राऽद्यमुदाहरति ।। शब्दः नित्यः कार्यत्वादिति ।। ननु कथमस्य विपक्ष-व्यापकत्वं नित्यत्वरूपसाध्याभावरूपानित्यवति प्रागभावादौ विपक्षे कार्यत्वस्य असत्त्वात् । तस्य प्रागभावं प्रतियोगित्वरूपत्वात् प्रागभावस्यापि तदङ्गीकारे अनित्यत्वस्यापातादिति चेन्मैवं । अनित्यत्वं हि प्रागभावप्रतियोगित्वम् । ध्वंसोनाम सादिरनन्तः । सादित्वं चासतः सत्तासंबंधः । एवं च सत्तागर्भमनित्यत्वं न प्रागभावेऽस्ति अतो विपक्षत्वान्न वा तत्रास्याभावेऽपि अन्यत्र विपक्षव्यापकत्वोपपत्तेः । अत्र च कार्यत्वस्य पक्षव्यापकत्वोक्तिः परमतानुसारेण । नतु स्वमतेन वर्णानां कूरस्थनित्यत्वस्य स्वेनांगीकारादिति ध्येयं
द्वितीयमुदाहरति ।। सामान्यवत्वे सतीति ।। शब्दे सत्वात् । पक्षव्यापकत्वं नित्यत्वरूपसाध्याभाववद्घटादिवृत्तित्वेऽपि तद्धर्माद्यवृत्तित्वाद्विपक्षैकदेशवृत्तित्वं नित्यस्य गगनादेः सत्वात् सपक्ष सत्वं ।
तृतीयमुदाहरति ।। प्रयत्नेति ।। शब्दमात्रे न प्रयत्नोत्पाद्यत्वं । ध्वन्यादावभात्। अतः पक्षेकदेशावृत्ति विपक्षभूतं घटाद्यपि न सर्वप्रयत्नोत्पाद्यमिति विपक्षैकदेश-वृत्त्यपि कृतकत्वादिपरमाणुरूपपृथिव्यामभावात् पक्षेकदेशावृत्ति अनित्यघटादौ कृतकत्वसत्वाद्विपक्षव्यापकत्वं । असतीति सपक्षे पक्षव्यापको विपक्षैकदेशवृत्तिरित्यर्थः ।