यो जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वं अङ्गीकुर्यात् स प्रष्टव्यः..

प्रत्यक्षस्य वर्तमानमात्रग्राहितानियमनिरासः

प्रमाणलक्षणटीका

यो जगत्सत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वं अङ्गीकुर्यात् स प्रष्टव्यः जगन्मिथ्यात्वग्राहिणः अनुमानस्य ‘नेह नानास्ति किञ्चन’ इत्याद्यागमस्य च प्रामाण्यं केन गृह्यते ? इति । न तावत् स्वेन । स्वप्रामाण्यविषयत्वाननुभवात् । नाप्यनुमानाद्यन्तरेण । अनवस्थापातात् । प्रत्यक्षेण चेत् तर्हि तस्यानुमानागमप्रामाण्यग्राहिणः प्रत्यक्षस्यापि प्रत्यक्षत्वा-विशेषात् वर्तमानमात्रग्राहित्वं स्यात् ।

तथा च न तेनोत्तरक्षणे अनुमानादिप्रामाण्यसिद्धिः । जगन्मिथ्यात्वानुमानादेः उत्तरक्षणे प्रामाण्यासिद्धौ च ‘द्वा सुपर्णा’ इत्यादिभेदवाक्यानां ‘विश्वं सत्यं’ इत्यादिविश्व-सत्यत्ववाक्यानां मानसिद्धत्वाद्यनुमानानां चोत्तरक्षणे प्रामाण्यं स्यात् । परस्परविरुद्धयोः अन्यतरनिषेधस्य अन्यतरविधिना-न्तरीयकत्वनियमादिति । न चोत्तरक्षणे अनुमानादिप्रामाण्य-ग्राहकं प्रत्यक्षान्तरं भविष्यतीति वाच्यम् । उक्तरीत्या तत्र प्रामाण्याभावस्य वक्तुं शक्यत्वात् ।

प्रमाणलक्षणटीकाभावदीपः

।। अनुमानस्येति ।। दृश्यत्वरूपलिङ्गज्ञानस्य तज्जन्यमिथ्यात्वा-नुमितेर्वा इत्यर्थः ।। इत्याद्यागमस्य चेति ।। ‘नेह नाना’ इत्यादिवाक्यज्ञानस्य वा तज्जन्यविश्वमिथ्यात्वज्ञानस्य वा इत्यर्थः  ।। नान्तरीयकत्वेति । अविनाभूतत्वेत्यर्थः ।। उक्तरीत्येति ।। ‘तस्यापि वर्तमानग्राहितया उत्तरक्षणे प्रामाण्यं न स्यात्’ इत्युक्त-रीत्येत्यर्थः ।               

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

बाध्यत्वं सत्ताप्रतिषेधः । नन्वेष्यत्कालीनबाधाभावं गोचरयितुं प्रत्यक्षं कुतो नेष्टे ? इत्यत आह ।। वर्तमानमात्रेति ।। वर्तमानकाल एव पदार्थानां सत्ताग्राहित्वादित्यर्थः । तेन मात्रशब्दस्य कार्त्स्न्यार्थकत्वं कल्पयित्वा ‘कथं प्रत्यक्षस्य वर्तमानाशेषार्थग्राहित्वं ? इत्याशङ्ग्य वर्तमानयोग्यार्थग्राहित्वमेव वर्तमानग्राहित्वं विवक्षितमिति व्याख्यानक्लेशो निरस्त इति ज्ञातव्यम् । ननु वर्तमानकालीन-सत्ताग्राहिणापि प्रत्यक्षेणापि प्रत्यक्षेण एष्यत्कालीनबाध्यत्वसाधकानुमानस्य बाधः किं न स्यात् ? इत्यत आह ।। न हीति ।। प्रत्यक्षस्य ग्राह्याभावावगाहित्वाभावादिति भावः । ननु भिन्नविषययोरपि बाध्यबाधकभावोऽस्तु को दोषः ? इत्यत आह ।। न हीति ।। पाकरक्ततेति ।। तेजः संयोगेन उत्तरत्र जायमाना या रक्तता तदवगाहि-प्रमाणस्येत्यर्थः ।

।। स्वेनेति ।। अनुमानेन आगमेन चेत्यर्थः ।। स्वप्रामाण्येति ।। स्वस्य स्वप्रामाण्यविषयकत्वाननुभवादित्यर्थः । भेदादिवाक्यानां इत्यत्रादिशब्दार्थमाह ।। विश्वं सत्यमिति ।।

भेदादिवाक्यानां इत्येतदप्युपलक्षणमित्यभिपे्रत्याह ।। मानसिद्धत्वादिति ।। नान्तरीयकत्वादिति ।। व्याप्तत्वादित्यर्थः । गूढाभिसन्धिराशङ्कते ।। न चोत्तरक्षण इति ।। प्रत्यक्षान्तरमिति ।। प्रसिद्धचक्षुरादिप्रत्यक्षविलक्षणमित्यर्थः।

कुतो न च वाच्यं ? इत्यतः अविदिताशया इवोत्तरमाह ।। उक्तरीत्येति ।। अनुमानादिप्रामाण्यग्राहकप्रत्यक्षन्तरस्यापि प्रत्यक्षत्वाविशेषेण वर्तमानमात्र-ग्राहित्वात् इत्युक्तरीत्या तदुत्तरक्षणे तत्र अनुमानादौ प्रामाण्याभावस्य प्रामाण्य-ग्राहकत्वाभावस्य वक्तुं शक्यत्वादित्यर्थः ।

प्रमाणलक्षणटीकाविवरणम्

एवञ्च हेतुदृष्टान्तविरोधमुपपाद्य समबलप्रमाणविरोधो-द्भावनमसंगतमित्यत आह प्रागिति ।। कथममानसिद्धत्वमुपाधिरित्यत उपाधेर्लक्षण मुपपादयति । तद्धीति ।। मिथ्यात्वमपीति ।। व्यापकनिवृत्तौ व्याप्यनिवृत्तेरा-वश्यकत्वादित्यर्थः ।

ननु प्रत्यक्षस्य वर्तमानमात्रगा्रहित्वेऽपि तद्बाधो अनुमानस्य किं न स्यादित्यत आह ।। न हीति ।। अस्तु भिन्नविषययोरेव बाध्यबाधकभावः । ततः को दोष इति चेत् तत्राह ।। न हि भवतीति ।। स्वप्रामाण्येति ।। स्वविषयत्वेन तद्धर्मप्रामाण्यग्रहणासंभवात् । न हि धर्मो गृह्यते । धर्मी न गृह्यत इति संभवतीति भावः ।

।। अनवस्थापातादिति ।। अनुमानादीनां  विश्वमिथ्यात्वानुमानागम-प्रामाण्यग्राहकत्वे तेषामप्यनुमानादीनां प्रामाण्यग्राहकान्तरमंगीकार्यम् । गृहीतप्रामाण्यभावानामेव प्रामाण्यग्राहकत्वादित्यनवस्थापातादित्यर्थः । प्रत्यक्षत्वाविशेषादित्यनेन यदि विश्वसत्यत्वग्राहिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वं स्यात् तर्हि विश्वमिथ्यात्वानुमानागमप्रामाण्यग्राहिप्रत्यक्षमपि वर्तमानमात्रग्राहि स्यात् । प्रत्यक्षत्वाविशेषेऽपि अस्य त्रैकालिकाप्रामाण्यग्राहित्वे विश्वसत्यत्व-ग्राहिप्रत्यक्षस्यापि तथात्वं स्यादित्यतिप्रसंगं सूचयति ।

भेदादिवाक्यानमित्यत्रादिशब्दसंग्राह्यमाह  ।। विश्वं सत्यमितीति ।। तमेवादिशब्दमुपलक्षणतया व्याचष्टे ।। मानसिद्धत्वेति ।।

ननु विश्वमिथ्यात्वानुमानादेरुत्तरक्षणे अप्रामाण्ये विश्वसत्यत्वप्रतिपादक-श्रुत्यादेः अप्रामाण्यं कुत इत्यत आह परस्परेति ।। नांतरीयकत्वात् व्याप्यत्वादित्यर्थः प्रत्यक्षस्य वर्तमानमात्रग्राहित्वेन उत्तरक्षणे प्रामाण्यगा्रहकत्वाभावेऽपि प्रत्यक्षा-न्तरस्यैवोत्तरक्षणे प्रामाण्यग्राहकत्वं भविष्यतीत्यभिप्रायेण शंकते ।। न चेति ।। पूर्वोक्तं परिहारं स्मारयति ।। उक्तरीत्येति ।। एतदारभ्य अन्यस्त्वाहेत्यन्तं स्पषटो   ग्रन्थः ।