छलमसङ्गतम्
अन्तर्भावप्रकरणम्
छलस्य असङ्गतस्वन्यायविरोधयोरन्तर्भावः
प्रमाणलक्षणटीका
अथ निरनुयोज्यानुयोगांशस्य छलस्यापि उक्तान्तर्भावमाह
प्रमाणलक्षणम्
छलमसङ्गतम्
परोक्तस्यार्थान्तरं परिकल्प्य तद्दूषणेन परोक्तभङ्गः छलम् परोक्तदूषणस्यैव सङ्गतत्वेन अनुक्तारोपितदूषणं छलं असङ्गते अन्तर्भवति ।
प्रमाणलक्षणटीकाभावदीपः
।। अथेति ।। जातिहान्याद्याभासाप्राप्तकालग्रहणरूपत्रयस्य उक्त्यनन्तरमिति वा जातेरन्तर्भावोक्त्यनन्तरमिति वा अर्थः ।। असङ्गत इति ।। आकाङ्क्षाभावरूपे असङ्गते अन्तर्भवतीत्यर्थः ।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
।। अथेति ।। परेक्तजातीनां अन्तर्भावकथनानन्तरमित्यर्थः ।। निरनुयोज्यानुयोगांशस्येति ।। तत्प्रभेदरूपस्येत्यर्थः ।। उक्तान्तर्भावमिति ।। उक्तेषु विरोधाऽदिनिग्रहस्थानषट्केषु अन्तर्भावमाहेत्यर्थः । छलस्वरूपाज्ञाने अन्तर्भावस्य दुर्ज्ञानत्वात्
कंचिदर्थमभिप्रेत्य प्रयुक्ते वचने पुनः ।
अनिष्टमर्थमारोप्य तन्निषेधश्छलं मतं ।।
इतिकारिकानुसारेण छललक्षणमाह ।। परोक्तस्येति ।।असङ्गत्यन्तर्भावमुपपादयति ।। परोक्तेति ।। अनुक्तेति ।। परानुक्तेत्यर्थः ।। आरोपितेति ।। स्वारोपितेत्यर्थः।
प्रमाणलक्षणटीकाविवरणम्
।। अथेति ।। परोक्तजातीनामन्तर्भावकथनानन्तरमित्यर्थः । असंगत्यन्तर्भावकथनस्य छलस्वरूपाज्ञानेऽनुपपत्या तत्र प्रयोजकत्वेन तल्लक्षण-माह ।। परोक्तस्येति ।।
अन्तर्भावमुपपादयति ।। परोक्तेति ।। विरोधादिसर्वस्यासंगत्यन्यत्वेन तत्र अन्तर्भावशंका स्यात् तां वारयति ।। असङ्गतेति ।। विरोधातिरिक्तः असंगत्यति-रिक्तश्च न साक्षादर्थदोषोऽस्तीति भावः ।