तत्र व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिः । तद्रहितोऽसिद्धः
हेत्वाभासा:
प्रमाणलक्षणटीका
हेतोरुक्तरूपेषु पक्षव्यापकत्वादिषु कैश्चिद्युक्ताः केनचिद् रहिता हेत्वाभासा: । ते चासिद्धविरुद्धानैकान्तिका-नध्यवसितकालात्ययापदिष्टप्रकरणसमसत्प्रतिपक्षाः ।
असिद्धः
तत्र व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिः । तद्रहितोऽसिद्धः। स चतुर्विधः । व्याप्तपक्षतद्धर्मत्वैतत्प्रतीतिराहित्यभेदात् ।
तत्र व्याप्यत्वासिद्धो द्वेधा । स्वरूपतो वैयर्थ्येन चेति । तत्राद्यो यथा ‘यत् सत् तत् क्षणिकं यथा घटः’ इति । व्यर्थ-विशेषणासिद्धो यथा ‘शब्दोऽनित्यः सामान्यवत्वे सति कृतक-त्वात् ,इति । व्यर्थविशेष्यासिद्धो यथा ‘कृतकत्वे सति सामान्य वत्वात्’ इति । आश्रयासिद्धो द्वेधा । धर्मिणः साध्यत्वस्य चाभावात् ।
तत्राऽद्यो यथा ‘प्रधानं नित्यं अकार्यत्वात्’ इति । आश्रयैक-देशासिद्धो यथा ‘प्रधानपुरुषौ नित्यौ आकार्यत्वात्’ इति । द्वितीयो यथा ‘परमाणवो नित्याः अकार्यत्वात्’ इति । पक्षधर्मत्वासिद्धः पञ्चविधः । तत्र स्वरूपासिद्धो यथा ‘शब्दोऽ-नित्यश्चाक्षुषत्वात्’ इति । व्यधिकरणासिद्धो यथा ‘घटस्य कृतकत्वात्’ इति । विशेषणासिद्धो यथा ‘चाक्षुषत्वे सति सामान्यवत्वात्’ इति । विशेष्यासिद्धो यथा ‘सामान्यवत्वे सति चाक्षुषत्वात्’ इति । भागासिद्धो यथा ‘प्रयत्नानैन्तरीय-कत्वात्’ इति ।
प्रमाणलक्षणटीकाभावदीपः
।। पक्षव्यापकत्वादिष्विति ।। पक्षव्यापकत्वसपक्षवृत्तित्वादिषु पञ्चरूपेष्वित्यर्थः । प्राचीनरीत्या निर्दिशति ।। असिद्धेति ।। व्याप्तेति ।। त्वप्रत्ययो राहित्यपदं च प्रत्येकमन्वेति ।। तद्धर्मत्वेति ।। पक्षधर्मत्वेत्यर्थः ।। तत्प्रतीतीति ।। पक्षधर्मत्वप्रतीतीत्यर्थः ।। वैयर्थ्येन चेति ।। विशेषणविशेष्ययोरिति योज्यम् ।। यत्सदिति ।। तत्र व्याप्तिग्राहकप्रमाणाभावादिति भावः । पक्षत्वराहित्यरूपं द्वेधा विकल्पयति ।। आश्रयेति ।। धर्मिण इति ।। अभावादित्यन्वयः ।
।। साध्यत्वस्य चेति ।। सिषाधयिषितधर्मवतया सिद्धत्वहेतुना साध्यत्वस्या-भावेनेत्यर्थः ।। प्रधानमिति ।। न्यायमते तस्याभावादिति भावः ।।परमाणवो नित्या इति ।। न्यायमते नित्यत्वस्य सिद्धत्वाभावादिति भावः । लाघवायैकैक-निर्देशपूर्वमुदाहरणान्येव दर्शयति ।। स्वरूपासिद्धो यथेत्यादिना ।। शब्दोऽनित्य इति प्रतिज्ञा सर्वत्रान्वेति ।। प्रयत्नेति ।। मीमाम्सकं प्रत्युक्ते शब्दोऽनित्यः प्रयत्नानन्त-रमुत्पद्यमानत्वरूपप्रयत्नानन्तरीयकत्वस्य ध्वनिषु सत्त्वेऽपि वर्णेष्वभावादित्यर्थः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘हेतोः केनापि रूपेण रहिताः कैश्चिदन्विताः । हेत्वाभासाः’’ इतिकारिकानुसारेण क्रमप्राप्तान् हेत्वाभासान् लक्षयति ।। हेतोरुक्तरूपेष्विति ।। पक्षव्यापकत्वादिषु इत्यत्र आदिपदेन सपक्षसत्वविपक्षव्यावृत्त्य-बाधितविषयत्वासत्प्रतिपक्षत्वानाम् ग्रहणम् । घटादावतिव्याप्तिवारणायाऽद्यं विशेषणम् । सद्धेतुव्यावृत्त्यै द्वितीयमिति बोध्यम् ।
तत्रादौ सिद्धलक्षणकथनपुरः सरमसिद्धिं लक्षयति ।। तत्नेत्यादिना ।। तद्रहित इति ।। व्याप्तस्य पक्षधर्मत्वप्रतीत्यभाववानित्यर्थः । अयं च विशिष्टाभावः क्वचिद्व्याप्त्यभावेन क्वचित् पक्षाभावेन क्वापि हेत्वभावेन क्वचित्प्रतीत्यभावेन चतुुर्विधेऽपि लक्ष्येऽनुगत इति ध्येयम् ।। एतदिति ।। व्याप्त्यादीत्यर्थः । यथाऽऽहुः
व्याप्तस्य पक्षधर्मत्वप्रतीतिः सिद्धिरुच्यते ।
असिद्धिस्तदभावे स्याद्धेतोः सा च चतुर्विधा ।।
व्याप्तेः पक्षस्य हेतोश्च तज्ज्ज्ञानस्याप्यभावतः । इति ।
।। वैयर्थ्येन चेति ।। विशेषणस्य विशेष्यस्य वैयर्थ्येन व्याप्यत्वासिद्धिरित्यर्थः ।। यत्सत्तत्क्षणिकमिति ।। अत्र व्याप्तिग्राहकप्रमाणाभावेन सत्त्वहेतौ स्वरूपत एव क्षणिकत्वनिरूपितव्याप्त्यभावात् स्वरूपतो व्याप्यत्वासिद्धिरित्यर्थः
।। शब्दोऽनित्य इत्यादि ।। ननु सामान्यवत्वे सति कृतकत्वे अनित्यत्वनिरूपितव्याप्तिसद्भावात् कथम् व्यर्थविशेषणस्य व्याप्यत्वासिद्धत्वम् ? इति चेत् । उच्यते, अत्र हि कृतके धर्मिणि कृतकत्वसामान्यवत्वे सति कृतकत्वरूपधर्मद्वयसमावेशे लघुभूतकृत्वरूपधर्मावच्छेदेनैव अनित्यत्वव्याप्ति-ज्ञानसम्भवात् गुरुभूतस्य सामान्यवत्वे सति कृतकत्वस्य अनावश्यकत्वेन व्यर्थविशेषणस्य व्याप्यत्वासिद्धत्वम् । यथा नीलधूमवत्वम् । कुत एतत् ? एकस्मिन्धर्मिणि लघुगुरुधर्मद्वयसमावेशे लघुना व्याप्त्यवच्छेदे गुरोरनावश्यकत्वमिति व्यर्थविशेषणताबीजसद्भावादिति मन्तव्यम् । एवमेव व्यर्थविशेष्यासिद्धस्यापि व्याप्यत्वासिद्धत्वं द्रष्टव्यम् ।।
धर्मिणोऽभावादित्यन्वयः ।। साध्यत्वस्य चेति ।। साध्यस्य सिद्धत्वेन आश्रायस्य साध्यत्वस्य साधयितुं योग्यत्वस्याभावादित्यर्थः । सिद्धसाधनादा-श्रयासिद्धिरिति भावः । यथाऽऽहुः ,
आश्रयासिद्धता हेतोः सिद्धधर्मस्य साधने ।
पक्षो हि संश्रयस्तस्य स च साध्यान्वितो यतः ।। इति ।
।। प्रधानमिति ।। साङ्ख्येन तार्किकादीन् प्रत्येवं साधिते सति तैराश्रयासिद्धिरुद्भाव्यते । तन्मते प्रधानस्वरूपस्यैवाभावादिति भावः।
।। द्वितीयो यथेति ।। साध्यत्वाभावादाश्रयासिद्धो यथेत्यर्थः ।। नित्या इति ।। परमाणुनित्यतायास्तार्किकमते सिद्धत्वादिति भावः।
।। घटस्येति ।। न हि घटीयं कृतकत्वं शब्देऽस्ति । अतोव्यधिकरणस्य असिद्धत्वं युक्तमिति भावः । चाक्षुषत्वे सतीत्यादिहेतुत्रयेऽपि ‘शब्दोऽनित्यः’ इति प्रतिज्ञानुवृत्तिर्द्रष्टव्या । विशेषणासिद्धिस्थले विशेष्यस्य पक्षे सत्त्वेऽपि विशेषणाभावेन तद्विशिष्टस्यापि हेतोरभावो द्रष्टव्यः । एवं विशेष्यासिद्धिस्थलेऽपि विशेषणसद्भावेऽपि विशेष्यस्याभावाद्विशिष्टहेतोरप्यभावो मन्तव्यः ।। प्रयत्नेति ।। प्रयत्नानन्तर-जन्यत्वादित्यर्थः । ध्वनिवर्णात्मकशब्दद्वयस्यापि पक्षत्वेन वर्णात्मकशब्दे मीमांसकरीत्या हेतोरभावाद्भागासिद्धत्वमिति भावः ।।
प्रमाणलक्षणटीकाविवरणम्
अथ हेत्वाभासः ।। तत्रेति ।। विवक्षितेषु रूपेषु यस्य हेतोः यावन्ति रूपाणि विवक्षितानि पक्षव्यापकत्वादीनि तेषु मध्ये कैश्चिदित्यर्थः ।
असिद्धं विभजते ।। व्याप्तीति ।। व्याप्यत्वासिद्धः, पक्षासिद्धः, पक्षधर्मतासिद्धः, व्याप्तिप्रमित्यसिद्धः, पक्षप्रमित्यसिद्धः, पक्षधर्मत्वप्रमित्यसिद्ध इति चतुर्विधः ।। प्रधानमिति ।। अत्र प्रधानस्यैवाभेदोऽश्रयासिद्धः ।। अकार्यत्वादिति । अत्राविप्रतिपत्ताविति शेषः । विप्रतिपत्तौ साध्यत्वसत्त्वादिति बोध्यं ।। चाक्षुषत्वादिति ।। शन्दस्य श्रावणत्वेन चाक्षुषत्वाभावादित्यर्थः ।
।। स्वरूपासिद्धत्वं ।। व्यधिकरणासिद्ध इति ।। ननु व्यधिकरणासिद्धस्य कथं दूषणत्वम् ? अन्यथा कृत्तिकोदयेन रोहिण्युदयासत्त्यनुमानं न स्यात् । अत एवोक्तमनुव्याख्याने । ‘‘आश्रयव्याश्रयसिद्धी साध्यासिद्धिश्व दूषणम्’’ इति । केषांचिन्न च ते दोषा इतीति चेत् । मैवं । अभिप्रायानवगमात् । व्यप्त्यभावे व्यधि-करणस्य असिद्धस्य दूषणत्वांगीकारात् । कृत्तिकोदयस्य च तेन सह व्याप्तिसत्त्वात् । न व्यधिकरणस्य दूषणत्वं । अत एवोक्तमनुव्याख्याने । व्याप्तौ सत्यामिति प्रयत्नानन्तर्यकत्वादिति । जन्यप्रयत्नोत्पाद्यत्वादित्यर्थः । तेन ध्वन्यात्मकशब्दोऽपि ईश्वरस्य प्रयत्नसत्त्वान्न भागासिद्धत्वमस्येति परास्तं भवति ।