न चात्यन्ताभावोऽपि सर्वधर्मरहितः मेयत्वाद्यनुभवात्

अभावपक्षकानुमानस्य आश्रयासिद्धतानिरासः

प्रमाणलक्षणटीका

ये पुनरभावस्य निर्धर्मकत्वात् तदाश्रयत्वं आश्रयासिद्धि-दूषणं ब्रुवते तन्निरासायाह

प्रमाणलक्षणम्

न चात्यन्ताभावोऽपि सर्वधर्मरहितः

किमुत प्रागभावादिः प्रामाणिकप्रतियोगिक इति शेषः । कुतो न ? इत्यत आह

प्रमेयत्वाद्यनुभवात्

अनुभूयन्ते हि प्रमेयत्वाभिधेयत्वादयः अत्यन्ताभावेऽपि धर्माः । कथमन्यथा तस्य सर्वधर्मराहित्यादि जानीयात् ? कथं च शिष्यं प्रत्युपदिशेत् ? अनुपदिष्टश्च कथमसौ जानीयात् ? इति ।

प्रमाणलक्षणटीकाभावदीपः

अपिपदाभिप्रायमाह ।। किमुतेति ।। यः प्रामाणिकप्रतियोगकः स प्रागभावादिरिति योजना । य इत्यादि शेषः ।। कथमन्यथेति ।। बुद्ध्यनारोह इत्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। तदाश्रयत्वमिति ।। हेतोरिति शेषः । अभावोऽभिधेयः इत्याद्यभावपक्षकानुमाने यत्र अभाव आश्रयः पक्ष इति यावत् । तत्कत्वं हेतोरित्यर्थः ।। दूषणमिति ।। तथा च अभावस्य निर्धर्मकत्वेन साध्यसाधनधर्माश्रयत्वानुपपत्त्या तदाश्रयहेतोः साधकत्वाभावेन दूषणमिति भावः । अत्यन्ताभावोऽपीति मूलं । अप्रामाणिकप्रतियोगिकेऽपीत्यर्थः ।

 ।।अन्यथेति ।। प्रमेयत्वानङ्गीकार इत्यर्थः ।। जानीयादिति ।। ‘सर्वे धर्मा अत्यन्ताभावे न सन्ति’ इति सर्वधर्मराहित्यप्रकारकात्यन्ताभावाधिकरणकज्ञाने अत्यन्ताभावस्यापि अधिकरणत्वेन विषयत्वं प्राप्तमेवेति भावः । 

अत्रेष्टापत्तिपरिहारायाह ।। कथं चेति ।। अज्ञातस्योपदेष्टुमशक्यत्वादिति भावः । मास्तूपदेश इत्यत आह ।। अनुपदिष्टश्चेति ।।