व्याप्तिरेव हि प्रयोजिका
व्याप्तिसमुचितदेशसिद्ध्योरेव साध्यसिध्दिप्रयोजकत्वम्
प्रमाणलक्षणटीका
इतोपि नाश्रयासिद्ध्यादेर्दोषत्वमित्याह
प्रमाणलक्षणम्
व्याप्तिरेव हि प्रयोजिका
साध्यसिद्धौ हि साधनस्य व्याप्तिरेव प्रयोजिका । न तु सदाश्रयत्वं साध्यप्रसिद्धिः साध्यसाधनयोरेकाधिकरणत्वं वा। व्यतिरेकाभावात् । न हि सत्यां व्याप्तौ दोषान्तरासङ्गीर्णाश्रया-सिद्ध्यादिना साध्यासिद्धिर्दृष्टेति । उपलक्षणमेतत् । विवक्षित-स्थले सिद्धिश्चेति ज्ञातव्यम् । हेतुस्वरूपासिद्धिरिति ह्युक्तम् । एवकारस्तु सदाश्रयत्वादिव्यावर्तकः । व्याप्तिमत्साधनं हि विवक्षितस्थले विद्यमानं विवक्षितस्थले साध्यं प्रयोजयति ।
प्रमाणलक्षणटीकाभावदीपः
व्याप्तिरेवेत्येवकारव्यावर्त्यं त्रयमिति दर्शयति ।। न तु सदाश्रयत्व मित्यादिना ।। ‘येन आश्रयासिद्धिसाध्यासिद्धिव्यधिकरणसिद्धीनां दोषत्वं कल्प्येत इति वाक्यशेषः । कुतः ? इत्यत आह ।। व्यतिरेकाभावादिति ।। व्याप्त्यभावे यथा साध्यासिद्धिः न तथा सदाश्रयत्वादिव्यतिरेकेण साध्यानुमितिव्यतिरेकोऽस्ति तस्मादित्यर्थः । ननु ‘वन्ध्यासुतो वक्ता सुतत्वात्’ इत्यादिप्रयोगे सदाश्रयत्वादि-व्यतिरेकेण साध्यसिद्धिव्यतिरेकदर्शनमस्ति इत्यत आह ।। न हि सत्यामिति ।। तत्र व्याप्तिरेव नास्ति , बाधासिद्ध्यादिदोषान्तरसङ्गीर्णं च आश्रयासिध्द्यादीति भावः ।
।। एतदिति ।। व्याप्तिरेव प्रयोजिका इत्येतदित्यर्थः ।। सिद्धिश्चेति ।। लिङ्गस्येति योज्यम् । सिद्धिश्च प्रयोजिका इति कस्मादुपलक्ष्यम् ? तथात्वे व्याप्तिरेवेत्येवकारविरोधात् इत्यत आह ।। हेतुस्वरूपेति ।। प्राक् हेतुविरोधोक्ति-प्रस्तावे हेतुस्वरूपासिद्धिरव्याप्तिश्चेति हेतुविरोधः इत्युक्तम् । अतः सिद्धेरभावे असिद्धिरूपदोषप्राप्तेः स्वोचितस्थले हेतोः सिद्धिश्च प्रयोजकत्वेन अवश्यं ग्राह्येत्यर्थः। एवकारविरोधं निराह ।। एवकारस्त्विति ।। हेतुसाध्ययोः सामानाधिकरण्य-साध्यप्रसिद्धिसदाश्रयत्वानां व्यावर्तक इत्यर्थः । प्राक् तथैव व्याख्यानादिति भावः । हेतुसिद्धेः कृत्यमाह ।। व्याप्तिमत्साधनमिति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
एवकारस्य व्यावर्त्यं दर्शयति ।। न त्विति ।। कुतः सदाश्रयत्वा-दीनामप्रयोजकत्वम् ? इत्यत आह ।। व्यतिरेकाभावादिति ।। व्यतिरेकः साध्यासिध्दिः । व्यतिरेकाभावमेवोपपादयति ।। न हीति ।। व्याप्त्याद्यङ्गसाकल्ये बाधादिदोषान्तरासङ्गीर्णाऽश्रयासिद्ध्यादिमात्रेणैव साध्यासाधकत्वस्य क्वाप्यनुपलम्भादित्यर्थः । यद्युदाह्र्रियते तर्हि तत्र दोषान्तरमेवोपपादयिष्याम इति भावः ।
।। एतदिति ।। व्याप्तिः प्रयोजिकेत्येतत् विवक्षितस्थले सिद्धेरप्युपलक्षण-मित्यर्थः । विवक्षितस्थले सिद्धिः समुचितदेशे सिद्धिः । ननु विवक्षितस्थले सिद्धिः आचार्यानभिप्रेता किमित्युपलक्ष्यते ? इत्यतः तत्र ज्ञापकमाह ।। हेत्विति ।। विवक्षितस्थले सिद्धेरेव प्रयोजकत्वादेव हि पूर्वं सामान्यतो हेतुस्वरूपस्यासिद्धि-र्हेतुविरोधः इत्येवोक्तम् । यदि च पक्षधर्मत्वं प्रयोजकं स्यात् तर्हि हेतुस्वरूपस्य पक्षे असिद्धिरित्येव ब्रूयादित्यर्थः ।
अत्र यद्यपि व्याप्तिपदेन समुचितदेशसिद्धिवत् अबाधितत्वमपि उपलक्षणया वक्तव्यं तथापि व्याप्तावेव तस्योपयोगेन व्याप्तिग्रहणेन प्राप्तत्वात् नात्रोपलक्षणया गृहीतम् । अबाधितत्वाभावे पक्ष एव व्यभिचारेण व्याप्तेरसम्भवादिति ध्येयम् । यथोक्तम् ।
...................व्याप्तौ सत्यां कथञ्चन ।
इत्यत्र सुधायाम् व्याप्तिग्रहणमबाधितत्वाद्युपलक्षणम् । वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम् इति ।
ननु विवक्षितस्थले सिद्धेरपि प्रयोजकत्वे व्याप्तिरेवेति एवकारविरोधः । तेन प्रयोजकान्तरस्य व्यावर्तितत्वात् इत्यत आह ।। एवकारस्त्विति ।। न तु विवक्षितस्थलसिद्धेः प्रयोजकत्वव्यावर्तक इति भावः । आदिपदेन साध्यप्रसिद्धेः साध्यसाधनयोरैकाघिकरण्यस्य च ग्रहणम् ।
हि इत्यनेन व्याप्त्यादेः प्रयोजकत्वं प्रसिद्धमित्युक्तम् । तदुपपादयति ।। व्याप्तिमदिति ।। विद्यमानं सत् । प्रयोजयतीत्यनन्तरम् इतीति शेषः । तथा च इति हि प्रसिद्धमित्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
व्याप्तिरेवेत्येवकारव्यावृत्यमाह ।। नत्विति ।। साध्याप्रसिद्धिः विशेषत इत्यर्थः । एकाधिकरणत्वं समानाधिकरणत्वम् । कुत एषां प्रयोजकत्वाभाव इत्यतः प्रयोजकस्यान्वयव्यतिरेकसमधिगम्यत्वात् प्रकृते च सदाश्रयत्वे साध्यप्रसिद्धिसत्वेनान्वयसत्वेप्यसदाश्रयत्वे व्याप्तौ विद्यमानायामपि साध्यासिद्धेर्दृष्टत्वेन व्यतिरेकाभावान्न प्रयोजकत्वमित्यभिप्रेत्याह ।। व्यतिरेकेति।
तमेवोपपादयति ।। नहीति ।। त्रयणामेव एवकारव्यावर्त्यत्वाभिधानेन लब्धमन्यस्य यदव्यावर्त्यत्वं तदाह ।। उपलक्षणमेतदिति ।।
यद्वा ननु व्याप्तिमात्रस्यैव साधकत्वे ह्रदस्यापि धूमवत्वेन वह्निमत्वं स्यात् । धूमवत्वस्य वह्निमत्वव्याप्यत्वादित्यत आह ।। उपलक्षणमेतदिति ।। अस्मिन्नेव अर्थे आचार्ययंज्ञापकमाह हेतुरिति ।। नन्वेवं समुचितदेशसिद्धेरप्यावश्यकत्वे व्याप्तिरेवेति कथमुक्तमित्यतो अवधारणव्यावर्त्यं पूर्वमुक्तमेव स्मारयति ।। एवकारस्त्विति ।।