एकवाक्ये अवान्तरवाक्यानां पदानां च मिथो व्याघातः प्रतिज्ञाविरोधः
प्रतिज्ञाविरोधः
प्रमाणलक्षणटीका
एकवाक्ये अवान्तरवाक्यानां पदानां च मिथो व्याघातः प्रतिज्ञाविरोधः । स च बहुप्रकारः ।
तत्र प्रतिज्ञायां धर्मिपदयोर्यथा ‘श्रोतृत्वे सति बधिरः’ इति ।
साध्यपदयोर्यथा ‘विमतो बधिरत्वे सति श्रोता’ इति ।
धर्मिसाध्यपदयोश्चतुर्विधः । तत्र धर्मविधानाद्यथा ‘मूको वक्ता’ इति ।
तन्निषेधाद्यथा ‘प्रमेयं न प्रमाणसापेक्षम्’ इति । धर्मिविधानाद् यथा ‘अतीतमस्ति’ इति । तन्निषेधाध्यथा‘वर्तमानं नास्ति इति । हेतुपदयोर्यथा ‘मूकत्वे सति वक्तृत्वात्’ इति । उदाहरणे साधनपदयोर्हेतुपदवत् । साध्यपदयोः प्रतिज्ञायामिव। परस्परं तु प्रतिज्ञाहेतुविरोधवत् । दृष्टान्तधर्मिणि साध्यधर्मिवत् । साध्य-धर्मिपदयोः प्रतिज्ञायामिव चतुर्विधः । उपनयपदयोर्हेतुपदवत्। निगमने प्रतिज्ञावत् । हेत्वंशेन विरोधः प्रतिज्ञाहेतुविरोधवत्।
प्रमाणलक्षणटीकाभावदीपः
भिन्नभिन्नवाक्येषु अस्ति नास्ति इत्यादिषु अनतिव्याप्त्यर्थ-मुक्तम् एकवाक्य इति । अव्याप्तिनिरासायावान्तरवाक्यानां पदानां च ग्रहणम् ।। श्रोतृत्वे सति बधिर इति ।। धर्मिनिर्देशोऽयम् । ‘चेतनो भवितुमर्हति ज्ञानित्वात्’ इति साध्याऽदिकमूह्यम् ।। प्रमेयमिति ।। प्रमाणविषय इत्यर्थः
।। हेतुपदवदिति ।। ‘यो मूकत्वे सति वक्ता स चेतनः यथा मैत्रः’ इत्येवमित्यर्थः ।। प्रतिज्ञायामिवेति ।। ‘यश्चेतनः स बधिरत्वे सति श्रोता’ इत्येवमित्यर्थः ।। परस्परं त्विति ।। साध्यहेत्वोरित्यर्थः ‘यत् गुणव्यतिरिक्तं ‘यत् गुणव्यतिरिक्तं तत् तदव्यतिरिक्तं यथा तद्व्यतिरिक्तं द्रव्यम्’ इति वक्ष्यमाणदिशा ज्ञेयमित्यर्थः
।। साध्यधर्मिवदिति ।। ‘श्रोतृत्वे सति बधिरवत्’ इत्येवमित्यर्थः ।। प्रतिज्ञायामिव चतुर्विध इति ।।। उदाहरण इति सर्वत्रानुषज्यते । धर्मविधानात् ‘मूको वक्ता’ इतिवदिति, तन्निषेधात् ‘प्रमेयं न प्रमाणसापेक्षम्’ इतिवदिति, ‘अतीतमस्ति’ इतिवदिति, ‘वर्तमानं नास्ति’ इतिवदित्येवं चतुर्विधो ज्ञेय इति भावः। ।। हेतुपदवदिति ।। ‘तथा चायं मूकत्वे सति वक्ता’ इत्येवमित्यर्थः ।। प्रतिज्ञावदिति ।। ‘बधिरत्वे सति श्रोता’ इत्येवमित्यर्थः ।। हेत्वंशेनेति ।। वक्ष्यमाण एवेति भावः।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘पदयोर्वाक्ययोर्वाऽपि एकवक्तृकयोर्मिथः ।
व्याघातो निग्रहस्थानं सत्प्रतिज्ञाविरोधतः’’
इति कारिकाऽनुसारेण प्रतिज्ञाविरोधं लक्षयति ।। एकवक्तृक इति ।। मिथो विरुद्धे भिन्नकर्तृकवाक्येऽतिव्याप्तिपरिहारायोक्तम् एकवक्तृक इति । महा-वाक्येऽवान्तरवाक्यानामवान्तरवाक्ये पदानां मिथो व्याघात इति विशदनार्थमुक्तम् । वस्तुतस्तु एकवक्तृकमिथोविरुद्धवाक्यत्वमेव लक्षणं द्रष्टव्यम् ।
तत्रावान्तरवाक्यगतपदयोर्मिथो व्याघातं तावदुदाहरति ।। तत्रेत्यादिना ।। तत्र बहुप्रकारमध्ये ।। श्रोतृत्वे सतीति ।। ‘श्रोतृत्वे सति बधिरः’ पक्ष इत्यर्थः ।। धर्मिसाध्यपदयोरिति ।। प्रतिज्ञायां धर्मिपदसाध्यपदयोर्विरोधो धर्मविधानात् धर्मनिषेधात् धर्मिविधानात् धर्मिनिषेधाच्च चतुविध इत्यर्थः ।। प्रमेयमिति ।। प्रमाणविषयस्यैव प्रमेयत्वेन प्रमेयपदेनैव प्रमाणसापेक्षत्वप्राप्त्या तस्मिन् प्रमेये प्रमाणसापेक्षत्वरूपधर्मनिषेधप्रतिज्ञायां धर्मिपदसाध्यपदयोः विरोधः प्राप्त इत्यर्थः।
।। हेतुपदवदिति ।। ‘मूकत्वे सति वक्तृत्वात्’ इति हेतुपदविरोधवत् उदाहरणेऽपि ‘यो यो मूकत्वे सति वक्ता’ इत्येव साधनपदयोर्विरोधो द्रष्टव्य इत्यर्थः ।। प्रतिज्ञायामिवेति ।। ‘विमतः श्रोतृत्वे सति बधिरः’ इति प्रतिज्ञान्तर्गतसाध्य-पदयोर्विरोधो द्रष्टव्य इत्यर्थः । ।। परस्परं त्विति ।। साध्यसाधनपदयोरित्यर्थः ।
।। प्रतिज्ञाहेतुविरोधवदिति ‘द्रव्यं गुणव्यतिरिक्तम् अव्यतिरिक्तत्वात् इत्यत्र प्रतिज्ञाहेत्वोर्विरोधवत् उदाहरणेऽपि ‘यत् यदव्यतिरिक्तं तत् तद्व्यतिरिक्तम्, इत्येवं साध्यसाधनपदयोः परस्परं विरोधो द्रष्टव्य इत्यर्थः । दृष्टान्तधर्मिणि दृष्टान्तरूपे धर्मिणि ।
।। साध्यधर्मिवदिति ।। साध्यधर्मी पक्षः तत्र पदविरोधवदित्यर्थः । यथा ‘श्रोतृत्वे सति बधिरः पक्षः’ इत्यत्र साध्यधर्मिभूतपक्षपदयोर्विरोधः एवमुदाहरणेऽपि ‘य एतादृशः स एतादृशः, यथा श्रोतृत्वे सति बधिरः’ इत्येवं दृष्टान्तरूपधर्मिपदयोर्विरोधो द्रष्टव्यः ।
।। साध्यधर्मिपदयोरिति ।। उदाहरणे साध्यपददृष्टान्तरूपधर्मिपदयोः विरोधस्तु प्रतिज्ञायामिव धर्मधर्मिविधानतन्निषेधाभ्यां चतुर्विध इत्यर्थः । तथा हि । उदाहरणे धर्मविधानात् साध्यधर्मिपदयोर्विरोधो यथा ‘य एतादृशःसवक्ता, यथा मूकः’ इति ।
तन्निषेधाद्यथा ‘यत् एतादृशं तत् न प्रमाणसापेक्षम् , यथा प्रमेयम्’ इति । उदाहरणे धर्मविधानात् साध्यधर्मिपदयोर्विरोधो यथा ‘यत् एतादृक् तत् अस्ति, यथाऽतीतम्’ इति । तन्निषेधात् यथा ‘यत् एतादृक् तत् नास्ति यथा वर्तमानम्’ इत्येवं द्रष्टव्यम् ।। हेतुपदवदिति ।। श्रोतृत्वे सति बधिरत्वात्’ इति हेतुपदयोर्यथा विरोधः एवं ‘तथा चायं श्रोतृत्वे सति बधिरः’ इत्युपनयान्तर्गतपदयोर्विरोधो द्रष्टव्य इत्यर्थः ।
।। प्रतिज्ञावदिति ।। यथा ‘बधिरत्वे सति श्रोता’ इति प्रतिज्ञापदयोर्विरोधः एवं ‘तस्मात् श्रोतृत्वे सति बधिरः’ इति निगमनान्तर्गतपदयोर्विरोधो द्रष्टव्य इत्यर्थः।
।। हेत्वंशेनेति ।। निगमने साध्यांशस्येति शेषः । यथा ‘द्रव्यं गुणव्यतिरिक्तम् अव्यतिरिक्तत्वात्’ इत्यत्र प्रतिज्ञाहेत्वोर्विरोधः एवं ‘तस्मात् अव्यतिरिक्तत्वात् व्यतिरिक्तमेव’ इति निगमनेऽपि साध्यांशस्य हेत्वंशेन विरोधो द्रष्टव्य इत्यर्थः ।
प्रमाणलक्षणटीकाविवरणम्
प्रतिज्ञाविरोधलक्षणमाह ।। एकवक्तृक इति ।। उदाहरणे साधनपदयोर्विरोधो हेतुपदविरोधवत् ज्ञातव्य इत्याह ।। उदाहरण इति ।। तद् यथा मूकत्वे सति वक्तृत्वादिति हेतुपदविरोधवदित्यर्थः ।
।। साध्यपदयोरिति ।। विमतः श्रोतृत्वे सति बधिरो यथा मूक इति दृष्टांते साध्यगतपदर्योर्विरोधः, विमतः श्रोतृत्वे सति बधिर इति । अत्र प्रतिज्ञांतर्गतपद विरोधवत् ज्ञातव्य इत्यर्थः।
।। परस्परं त्विति ।। दृष्टांते साध्यसाधनपदयोर्विरोधः । द्रव्यं गुणव्यतिरिक्तं अव्यतिरिक्तत्वादिति प्रतिज्ञाहेतुविरोधवत् ज्ञातव्यः ।
।। यथा श्रोतृत्वे सति बधिर इति ।। दृष्टांतधर्मिणि विरोधः विमतः श्रोतृत्वे सति बधिरः पक्ष इति साध्यधर्मिवद्विरोधः । साध्यधर्मिपदयोरिति ।। दृष्टांत इति शेषः । धर्मविधानादित्युक्तप्रकारेण चतुर्विधः।
।। उपनयपदयोरिति ।। श्रोतृत्वे सति बाधिरत्वादिति हेतुपदविरोधवत् उपनयांतर्गतपदयोरविरोधो बोध्यः ।
।। निगमन इति ।। निगमनांतर्गतपदयोर्विरोधः प्रतिज्ञाविरोधवत् ।। हेत्वंशेनेति ।। निगमनस्येति शेषः । उपपादितमेतत् ।