स एवोपाधिदोषोऽपि

उपाधेः सप्रतिसाधनोन्नायकत्वम्

प्रमाणलक्षणटीका

उपाधिविरोधोऽप्यन्योऽस्तीत्याह

प्रमाणलक्षणम्

स एवोपाधिदोषोऽपि

नोपाधिः स्वयमेव दोषः । किं तु दोषोन्नायक एव । स चोपाधिना उन्नेयो दोषः उपाधिदोषः प्रतिज्ञायाः समबलविरोध एवान्तर्भवतीति  नोक्तविरोधः । प्रकृतसाध्यव्यापकः प्रकृतसाधनाव्यापकः उपाधिः । स हि पक्षात् व्यावर्तमानः साध्यं  व्यावर्तयन् प्रतिपक्षोन्नायको भवति ।।

उपाध्यभावस्य साध्याभावे लिङ्गत्वात् । उपाधेर्हि पक्षात् व्यावृत्तिः स्वव्यावृत्त्या साध्यव्यावर्तने शक्तिश्चापेक्षिता ।  तत्र साध्यव्यापक इत्येवोक्ते साधनव्यापकस्य साधनस्येव पक्षे वर्तमानत्वात् साध्यव्यापकोऽप्युपाधिर्न पक्षात् साध्यं व्यावर्तयेदिति  साधनाव्यापकत्वं ग्राह्यम् ।

 तावत्येवोच्यमाने साध्याव्यापकस्य पक्षात्  व्यावृत्तावपि साध्यव्यावर्तनसामर्थ्याभावात् वैयर्थ्यं स्यादिति साध्यव्यापक-त्वमपि ग्राह्यम् । तथा च साधनाव्यापकत्वात् पक्षात् व्यावृत्त उपाधिः साध्यव्यापकत्वात् व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति साध्यं व्यावर्तयतीति ।

प्रमाणलक्षणटीकाभावदीपः

यत्किञ्चित्साध्यव्यापकादावनतिप्रसङ्गाय प्रकृतेत्युक्तिः । लक्षणगतपदकृत्यं वक्तुमाह ।। उपाधेर्हीति ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। अन्योऽस्तीति ।। तथा च त्रिविधो विरोधः इत्युक्तमसदिति भावः । दोषः सप्रतिसाधनरूपः ।। उक्तेति ।। अनुमानविरोधत्रैविध्येत्यर्थः ।

उपाधिनोन्नेयस्य दोषस्य उपाधिस्वरूपाज्ञाने दुर्ज्ञानत्वात् उपाधिलक्षणमाह ।। प्रकृतेति ।। शब्दोऽनित्यः कृतकत्वात् इत्यत्र आर्द्रेन्धनसंयोगस्यापि उपाधित्वं स्यात् । तस्यापि धूमरूपसाध्यव्यापकत्वात् अग्निरूपसाधनाव्यापकत्वाच्च इत्यतः प्रकृतेत्याद्युक्तम् ।

कथमुपाध्यभावस्य साध्याभावे लिङ्गत्वम् ? इत्यतो विशेषणद्वयकृत्य-प्रदर्शनव्याजेन तत्प्रकारं दर्शयति ।। उपाधेर्हीत्यादिना ।। साध्यव्यापक इत्येवोक्ते ‘घटोऽनित्यः सावयवत्वात्’ इत्यत्र उपाधिः स्यात् ।  अतः साधनाव्यापक इत्युक्ुतं इत्यभिपे्रत्योपपादयति ।। तत्र साध्यव्यापक इत्येवोक्त इति ।। साधनस्येवेति ।। पक्षीभूते घटे सावयवत्ववत् कृतकत्वस्यापि सत्त्वादिति भावः ।। साध्यव्या-पकोऽपीति ।। 

कृतसावयवत्वादिप्रयुक्ता च विनाशिता ।

इतिवचनात् कृतकत्वस्य नित्यत्वरूपसाध्यव्यापकत्वादिति भावः । साधनाव्यापक इत्येवोक्ते ‘शब्दोऽनित्यः कृतकत्वात्’ इत्यत्र सावयवत्वं उपाधिः स्यात् । अतः साध्यव्यापक इत्युक्तमित्यभिप्रेत्योपपादयति ।। तावत्येवोच्यमान इति ।। साध्याव्यापकस्येति ।। अनित्यत्वरूपसाध्यवति गुणादौ सावयवत्वाभावादिति भावः ।। पक्षाद्व्यावृत्तावपीति ।। कृतकत्ववत्यपि शब्दे सावयवत्वाभावादिति भावः ।

प्रमाणलक्षणटीकाविवरणम्

ननु स एवोपाधिदोषोऽपीति न युक्तं सप्रतिसाधनस्य उपाधि-रूपदोषत्वाभावादित्यत आह ।। नोपाधिरिति ।। तर्हि किमिति पृच्छति ।। किन्त्विति ।।

तर्हि उपाधिदोष इति कथमित्यत आह ।। उपाधिनेति ।। उपाधिनोन्नेयो दोषः सप्रतिसाधन एवेत्युक्तम् । तदुपाधिस्वरूपाज्ञाने दुर्ज्ञानमित्यतस्तल्लक्षणमाह ।। प्रकृतेति ।। यत्किंचित्साध्यव्यापकस्य यत्किंचित्साधनाव्यापकस्योपाधित्व-निराकरणाय उभयत्र प्रकृतपदम् । यदर्थमुपाधिलक्षणमुक्तं तदाह ।। स चेति ।।

नन्वेवं पक्षे साध्याभावः कथं साध्यभावे हेत्वभावात् इत्यत आह ।। उपाध्य-भावस्येति ।। नन्विदं विशेषणद्वयं किमर्थमित्यत आह ।। उपाधेरिति ।। तथाचोपाधित्वप्रयोजकीभूतपक्षात् व्यावृत्तिः स्वव्यावृत्या साध्यव्यावृत्युपपादकत्वा-द्विशेषणद्वयं सार्थकमिति भावः ।

उपाधेः साध्याव्यापकस्य पक्षादव्यावृत्तस्याप्युपाधित्वसंभवेनापेक्षितोप-पादकत्वेन विशेषणद्वयसार्थक्योपपत्तिरयुक्तेत्यतः आवश्यकत्वमुपपादयति तत्रेत्यादिना । न पक्षात् साध्यं व्यावर्तयेत् स्वव्यावृत्या साध्यव्यावृत्तेः कर्तव्यत्वात् । स्वस्यापि पक्षे सत्वादित्यर्थः ।

।। साध्याव्यापकस्येति ।। व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वेऽपि उपाधेः साध्याव्यपकत्वात्तन्निवृत्या साध्यनिवृत्तेर संभवादव्यापकनिवृत्याऽपि तन्निवृत्तौ उच्यमानायां अतिप्रसंगापत्तेरिति भावः ।

एवं च पक्षव्यावृत्तत्वसाध्यव्यापकत्वरूपं यदुपाध्यपेक्षितंरूपं तदुपपादकत्वेन सिद्धं विशेषणद्वयस्य तत्र प्रयोजकत्वमिति न वैय्यर्थ्यमित्यभि-प्रेत्योपसंहरति ।। तथाचेति ।।