आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानाऽदयो दूषणानुमा
तर्कस्यानुमानान्तर्भावः
प्रमाणलक्षणटीका
ननु तर्कः प्रमाणं न वा । प्रमाणमिति ब्रूमः । कथं तर्हि त्रित्वम्? इत्यतस्तत्स्वरूपं विवृण्वन्नाह ।
प्रमाणलक्षणम्
आत्मान्योन्याश्रयचक्रकानवस्थाकल्पनागौरव श्रुतदृष्टहानाऽदयो दूषणानुमा
आदिपदेनाश्रुतकल्पनमदृष्टकल्पनं च संगृह्यते । एतत्प्रसं-जनमिहोपलक्ष्यते । व्याप्यांगीकारेऽनिष्टव्यापकप्रसंजनं तर्कः। द्विविधमनिष्टम् । प्रामाणिकहानमप्रामाणिककल्पनं च । तत् पुनः पंचविधम् । आत्माऽश्रयान्योैन्याऽश्रयचक्रकानवस्था-निष्टभेदात् । सर्वस्य अनिष्टत्वेऽपि गोबलीवर्दन्यायेन पृथगुक्तिः।
तत्राद्यचतुष्टयमप्रामाणिककल्पनाऽत्मकम् । न हि कुत्राप्यात्मा-ऽश्रयाऽदिकं प्रमाणसिद्धम् । पंचममुभयात्मकम् । तत्राप्याद्यं द्विविधम् । श्रुतदृष्टहानभेदात् । द्वितीयमपि तथा । अश्रुतादृष्ट-कल्पनभेदात् । तदेव कल्प्यानेकत्वे कल्पनागौरवम् ।
एतत्प्रसंजनाऽत्मकस्तर्कोऽपि पंचधाभिद्यते । तस्य पंचांगानि। प्रसंजकस्य प्रसंजनीयेन व्याप्तिः, प्रतितर्कैरप्रतिघातः , प्रसंजनीयस्य विपर्यये पर्यवसानं, प्रसंजनीयस्यानिष्टत्वं , प्रतिपक्षासाधकत्वं चेति ।
तस्यैवोत्पत्तिज्ञप्त्यर्थं तदुत्पत्तिज्ञप्त्यपेक्षायामात्माश्रयत्वप्रसंगः।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पच्याद्यर्थं तदुत्पत्त्या-द्यपेक्षायामन्योन्याऽश्रयत्वप्रसंगः ।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्यादौ परंपरया तदुत्पत्त्या-द्यपेक्षायामन्योन्याऽश्रयत्वप्रसंगः ।
यदुत्पत्त्याद्यधीनं यदुत्पत्त्यादि तदुत्पत्त्याद्यर्थं तदुत्पत्त्याद्यपेक्षायां चक्रकप्रसंगः।
उत्पत्त्यादावन्योत्पत्त्याद्यपेक्षाया अपर्यवसानेऽनवस्थाप्रसंगः ।
अत्र ‘यद्येवमभ्युपगमः तदाऽऽत्माश्रयादिप्रसंग: । यत्रैवम-भ्युपगमः तत्र तत्प्रसंगः यथाऽमुत्र । यदि नाऽत्माऽश्रयाऽदिः तर्हि नैतदपि’ इति प्रवृत्तिप्रकारः ।
सामान्यत एव व्याप्तिर्वाच्या । श्रुतहानं यथा ‘यदीऽश्वरो न सर्वज्ञः तर्हि न जगत्कर्ता स्यात्’ इति ।
दृष्टहानं यथा ‘यदि पर्वतोऽनग्निमान् तर्हि निर्धूमः स्यात्’ इति।
अश्रुतकल्पनं यथा ‘यदीश्वरो जीवाभिन्नः तर्हि दुःखी स्यात्’ इति ।
अदृष्टकल्पनं यथा ‘यदि पीतमुदकमन्तरधक्ष्यत् तर्हि मामपि दहेत् अविशेषात्’ इति ।
यत्राऽपाद्याऽपादकयोर्न साक्षात्सामानाधिकरण्यं तत्र तथैवानुपपत्तौ प्रकारान्तरेणैकाधिकरणतामापाद्य व्याप्तिरभिधातव्या । यथा ‘यदि देवदत्त: सर्वज्ञस्तर्हि यज्ञदत्तोऽपि तथा स्यात्’ इत्यत्र ‘यत्र यो धर्मो वर्तते स तदविशिष्टेऽपि वर्तत’ इत्यादि । सोयं तर्कोऽनुमान एवान्तर्भूतोऽतो न प्रमाणत्रित्वभंगः ।
प्रमाणलक्षणटीकाभावदीपः
कथं त्रित्वम् ? इत्याक्षेप्तुं पृच्छति ।। नन्विति ।। अपेक्षितसामान्यलक्षणविभागौ स्वयमुक्त्वा मूलवाक्ये घटयति ।। व्याप्याङ्गीकार इति ।। प्रसञ्जनमिति ।। आपादनमित्यर्थः ।
।। तर्कइति ।। तर्क्यते साधनस्य साध्यव्याप्यत्वम् प्रमीयते अनेन प्रसञ्जनेति करणव्युत्पन्नोऽयं तर्कशब्दो ज्ञेयः।। तत्साध्यं च साधनस्य साध्यव्याप्यत्वं ।। तत्पुनरिति ।। द्विविधमनिष्टमित्यर्थ: ।। गोबलीवर्दन्यायेनेति ।। आत्माऽश्रयाऽदिरनिष्टविशेष इति सामान्यविशेषभावेन पृथगुक्तिरित्यर्थः।
।। तत्राऽपीति ।। प्रामाणिकहानाप्रामाणिकल्पनरूपोभयाऽत्मकेऽप्यनिष्ट इत्यर्थः ।। तथेति ।। द्विविधमित्यर्थः । तदेव अश्रुतादृष्टकल्पनरूपमनिष्टमेवेत्यर्थः ।। एतत्प्रसञ्जनाऽत्मकइति ।। आत्माऽश्रयाऽदिचतुष्टयपञ्चविधानिष्ट-प्रसञ्जनाऽत्मक इत्यर्थः ।।
।। तदुत्पत्त्यादाविति ।। प्रथमोत्पत्त्यादावित्यर्थः ।। परम्परयेति ।। द्वित्रकक्ष्याऽनन्तरं पुनराद्योत्पत्तिज्ञप्त्यपेक्षायामित्यर्थः ।। अत्रेति ।। आत्माऽश्रयाऽ-दितर्के । इति प्रवृत्तिप्रकार इत्यन्वयः ।
।। यद्येवमिति ।। ‘घटोत्पत्तिज्ञप्त्योर्घटोत्पत्तिज्ञप्त्यधीनत्वमभ्युपगम्यते तदा आत्माऽश्रयः स्यात् यथा घटाऽदौ । न चेत् आत्माऽश्रयोऽङ्गीक्रियते तर्हि घटोत्पत्तिज्ञप्त्यधीनत्वं घटोत्पत्तिेेज्ञप्त्योर्न’ इत्येवमित्यर्थः ।
आदिपदेन अन्योन्याऽश्रयचक्रकाऽदिर्ग्राह्यः । आपाद्यस्याप्रामाणिककल्पना-रूपत्वेन विशिष्य व्याप्त्युक्तौ दृष्टान्ताभावादाह ।। सामान्यत एवेति ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
त्रित्वं प्रमाणानां त्रित्वम् । ननु ‘तर्कोऽनिष्टप्रसङ्गः स्यात्’ इत्यनिष्टप्रसञ्जनस्यैव तर्कत्वे नोक्तेः आत्माऽश्रयाऽदेश्च प्रसञ्जनरूपत्वाभावात् कथं तर्कस्वरूपत्वम् ? इत्यत आह ।। एतत्प्रसञ्जनमिति ।। व्याप्येति ।। ‘वह्निर्माऽस्तु’ इति वह्न्यभावाऽदिव्याप्याङ्गीकारे व्यापकं धूमाभावाऽदि ।। द्विविधमिति ।। ‘‘अनिष्टस्य द्वयी विधा । प्रमाणिकपरित्यागस्तथेतरपरिग्रहः ’’ इति वचनादिति भावः । तत् अनिष्टम् । ननु आत्माऽश्रयाऽदेरेवानिष्टत्वेन तस्य आत्माऽश्रयाऽदे: पृथगुक्तिरयुक्ता इत्यत आह ।। सर्वस्येति ।। सामान्यविशेषभावेनापुनरूक्तिरिति भावः । पञ्चमं अनिष्टम् ।
उभयाऽत्मकं प्रामाणिकहानाऽप्रामाणिककल्पनाऽत्मकम् । आद्यं प्रामाणिकहानम् । द्वितीयमपि अप्रामाणिककल्पनमपि । तथाद्विविधम् । तदेव अश्रुतादृष्टकल्पनमेव ।। कल्प्यानेकत्व इति ।। कल्प्यानेकत्व इत्यर्थः ।। यथा ‘शृङ्गाग्रे शशकस्य भानि गणयत्यन्धोऽह्नि वन्ध्यासुतः’ इति ।अनेकाश्रुतादृष्टकल्पन इति यावत् ।
नन्वेवमात्माऽश्रयाऽदे: पञ्चविधत्वेऽपि तर्कस्य किमायातम् ? इत्यत आह ।। एतत्प्रसञ्जनाऽत्मक इति ।। एतेषामात्माऽश्रयाऽदीनां आपादनाऽत्मक इत्यर्थः।
‘ ‘ व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये ।
अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ।
अङ्गपञ्चकसम्पन्नस्तत्वज्ञानाय कल्पते’ ’
इति वचनानुसारेणाऽह ।। तस्येति ।। प्रसञ्जकस्येत्यादि ।। आपादकस्याऽ-पाद्येनेत्यर्थः ।
।। प्रतिपक्षासाधकत्वं चेति ।। विरुद्वहेत्वाभासवत् प्रतिपक्षासाधकत्व-मित्यर्थः । एतदेवाननुकूलत्वमित्युच्यते । अतः अननुकूलत्वस्य पञ्चमत्वेन पद्धतौ परिगणितत्वात् कथमेतत् ? इति शङ्काऽनवकाशः । एवं आत्माऽश्रयाऽदिस्वरूप-मुक्त्वा तदापादनस्वरूपप्रकारं दर्शयति ।। अत्रेति ।। यद्येवमभ्युपगम इति ।। घटोत्पत्त्याद्यर्थं घटोत्पत्त्याद्यभ्युपगम इत्यर्थः । अत्र विशेषव्याप्तौ दृष्टान्ताभावादाह ।। यत्रैवमिति ।। यथाऽमुत्रेति ।। सामान्यत एव व्याप्तिर्वाच्येत्यन्वयः । अमुत्र घटाऽदौ । विपर्ययपर्यवसानमाह ।। यदीति ।। यदि इत्यनन्तरं अमुत्र इत्येतद-नुवर्तनीयम्। श्रुतहानं श्रुतस्य हानाऽपादनम् । एवं दृष्टहानम् इत्येतदपि योज्यम् । अविशेषात् पीतत्वाविशेषात् । तदविशिष्टे तत्समाने ।।
प्रमाणलक्षणटीकाविवरणम्
प्रसंजनस्य तर्कत्वेन आत्माश्रयत्वादेश्च प्रसंजनरूपत्वाभावात् कथं तर्कत्वमित्यत आह ।। एतत्प्रसंजनमिति ।। तर्कस्यानुमानत्वं वक्तुं तर्कलक्षणमाह ।। व्याप्येति ।।
नन्वात्माश्रयादेरप्यनिष्टत्वेनानिष्टस्य अनिष्टस्य ततः पृथगुक्तिरनुपपन्नेत्यत आह ।। सर्वस्येति ।। यथा खलु गावः समागताः बलीवर्धाश्च समागताः इत्यत्र बलीवर्दस्य गोत्वेऽपि तद्विशेषत्वाद् यथा न पुनरुक्तिः । एवमात्माश्रयादेरनिष्टत्वेऽपि तद्विशेषत्वेन न पुनरुक्तिरिति भावः ।
।। तत् पुनः पंचविधमिति ।। विरुद्धस्यानिष्टस्य पंचविधत्वं प्रत्येकमिति शङ्कां परिहरति ।। तत्राद्येति ।। तत्कुत इत्यत आह ।। नहीति ।। उभयात्मकं प्रामाणिकहानाप्रमाणिककल्पनात्मकं ।। तत्राप्याद्यमिति ।। प्रामाणिकहानमित्यर्थः ।। तथेति ।। द्विविधमित्यर्थः ।
नन्वेवमात्माश्रयादेः पंचविधत्वेऽपि तर्कस्य किमायातमित्यत आह ।। एतदिति ।। प्रतिपक्षसाधकत्वं चेति ।। विरुद्धत्वे भासमानवत्प्रतिपक्ष साधकत्वमित्यर्थः । एतदेव चाननुकूलत्वं चेति टीकाकारैः पद्धतौ पंचमत्वेनोक्त-मिति न विरोधः ।
तर्कस्वरूपमाह ।। अत्रेति ।। नन्वयं तर्को न संभवति । तर्के आपाद्येनाऽपादकस्य व्याप्तिरपेक्षिता । प्रकृते च नापादकस्यापाद्येन व्याप्तिः संभवति । यदि घटः घटं प्रति कारणं स्यात् तदा स्वापेक्षया पूर्ववृत्तिः स्यात् । यथाऽमुक इति दृष्टांताभावादिति । अतो विशेषव्याप्त्यसंभवेऽपि सामान्यव्याप्तिः संभवतीत्यभिप्रायेणाह ।। यत्रैवमभ्युपगम इति ।।
तर्कस्य विपर्ययपर्यवसानमाह ।। यदीति ।। व्याप्तिः यथा बाह्यार्थमपलपतो बौद्धस्य यदिदं स्थूलं स्यात् तर्हि स्थूलतया प्रतिभासेतेति बाह्याद्यवादिनाऽ-प्यभिधातव्येति । इदं च परमतानुसारेणोक्तं । वस्तुतस्तु साध्यसाधनयोः सामानाधिकरण्यमनपेक्षितं । पक्षधर्मताया अनावश्यकत्वात्।
अत एवोक्तं पद्धतौ – ‘‘अनुमानस्य द्वयं सामर्थ्यं । व्याप्तिः समुचितदेशसिद्धिश्च। । नतु पक्षधर्मतानियमः’’ इति ।