परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च

साध्याप्रसिद्धेरदूषणत्वसमर्थनम्

प्रमाणलक्षणटीका

हेत्वन्तरेण अप्रसिद्धसाध्यस्य हेतोः साधकत्वं साध-यति

प्रमाणलक्षणम्

परिशेषार्थापत्तिप्रामाण्याभ्युपगमाच्च

परिशेषस्य अर्थापत्तेश्च प्रामाण्यं तावत् सर्वैरङ्गीकृतम् । तत्साध्यं अप्रसिद्धमपि दृश्यते । अतो न कुत्रापि साध्याप्रसिद्धे-र्दूषणत्वम् । इतोऽपि नाप्रसिद्धसाध्यस्य असाधकत्वमित्याह

विमतं सकर्तृकं’ इत्यत्र सर्वज्ञत्वस्य

पक्षधर्मताबलेन सिद्ध्यङ्गीकारात्

भूभूधरादिकं सकर्तृकं कार्यत्वात् घटवत्’ इत्यनुमानेन परैः ईश्वरे सर्वज्ञत्वसिद्धिरङ्गीक्रियते । यद्यपि कार्यत्वं सकर्तृकत्व-मात्रेण व्याप्तं भूभूधरादिपक्षधर्मताबलेन सर्वज्ञमेव कर्तारं गमयति । उपादानाऽदिविषयज्ञानवत एव कर्तृत्वात् । न च सर्वज्ञत्वं प्रसिद्धम् । अतस्तद्वत् न कुत्रापि अप्रसिद्धसाध्यस्य दूषणत्वमिति ।

अनेनैव व्यधिकरणत्वेऽपि साधकत्वं चोपपादितं भवति। भूभूधराऽदिनिष्ठेन कार्यत्वेन हेतुना ईश्वरे सर्वज्ञत्वसिद्ध्य-ङ्गीकारात् न कुत्रापि साध्यसाधनयोर्व्यधिकरणत्वं दूषणमिति।

एतेनैव अवयवनियमश्च परास्तः । न हि पक्षधर्मताबलेन सर्वज्ञत्वसिद्धाववयवनियमोऽस्ति ।

प्रमाणलक्षणटीकाभावदीपः

।। हेत्वन्तरेणेति ।। प्रागुक्तातिप्रसङ्गभावरूपहेत्वपेक्षया अप्रसिद्धसाध्यकस्यापि साधकत्वदृष्टिरूपहेत्वन्तरेणेत्यर्थः । पक्षधर्मताबलेने-त्येतद्विवृणोति ।। यद्यपीति ।। अनेनैवेति ।। विमतमित्यादिवाक्येनैवेत्यर्थः । कथम् ? इत्यत आह ।। भूभूधरेति ।। हेतुर्भूम्यादिनिष्ठः साध्यमीश्वरनिष्ठमिति हेतुसाध्ययोर्वैयधिकरण्येऽपि प्रामाण्योपगमात् न कुत्रापि वैयधिकरण्यं दोष इत्यर्थः।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

अप्रसिद्धसाध्यस्य अप्रसिद्धसाध्यसाधकस्य । विमतिविषयं विवेचयति ।। भूभूधरादिकमिति ।। कुत्रापीति ।। जीवच्छरीरं सात्मकमित्यादावपीत्यर्थः । कथम् ? इत्यत आह ।। भूभूधरादीति ।।। एतेनेति ।। पक्षधर्मताबलेन ईश्वरे सर्वज्ञत्वसिद्ध्यङ्गीकारेणेत्यर्थः ।। न हीति ।। दृष्टान्ताभावेन हेतोः पक्षधर्मताबललभ्यसाध्येन व्याप्तिग्रहणायोगेन उदाहरणरूपा-वयवाभावादिति भावः ।

प्रमाणलक्षणटीकाविवरणम्

विमतिविषयतावच्छेदकमाह ।। भूभूधरादिकमिति ।। प्रसक्तप्रतिषेधे अन्यत्राप्रसंगात् परिशिष्यमाणो बुद्धेः परिशेषत्वादनुपपद्यमान-दर्शनात्तदुपपादके बुद्धेरर्थापत्विात् । तयोरुपपत्तित्वं कथमुच्यते । तयोः साध्यत्वेन उपपत्तित्वाभावादित्यत आह ।। अत्रेति ।। अन्यथानुपपत्तिरिति । अनेन उपपत्तेरिति मूलं अन्यथानुपपत्तेरिति व्याख्यातं भवति ।