हेतुं विना प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधोद्भावनं प्रति-दृष्टान्तसमः
प्रतिदृष्टान्तसमजातिः
प्रमाणलक्षणटीका
हेतुं विना प्रतिदृष्टान्तमात्रेण बाधप्रतिरोधोद्भावनं प्रति-दृष्टान्तसमः । यथा ‘हृदवत् पर्वतो निरग्निरेव’ इति । ‘निर-ग्निकोऽपि किं न स्यात्’ इति वा ।
अत्र हेतुरनङ्गं साध्यातिदेशे इत्यभिमान उत्थानबीजम् । बाधादि आरोप्यम् । बाधाद्यङ्गस्य अधिकबलादेरनभ्युपगमात् युक्ताङ्गत्यागः । साधनस्य हेतुसाहित्यात् । अत्र तदनुपन्यासात्। तस्यानङ्गत्वे ‘प्रतिदृष्टान्तो न दूषकः रासभादिवत इति व्याघात् इति ।। ११ ।।
प्रमाणलक्षणटीकाभावदीपः
क्रमेण बाधप्रतिरोधौ व्यनक्ति ।। यथा ह्नदवदित्यादिना ।। साध्यातिदेश इति ।। ‘ह्नदवत् पर्वतो निरग्निरेव’ इत्यनग्नित्वाऽद्यतिदेशे हेतुरङ्गं नेत्यर्थः । युक्ताङ्गहानिं व्यनक्ति ।। साधनस्येति ।। साध्यसत्त्वसमर्थस्येत्यर्थः ।। अत्रेति ।। जात्युत्तर इत्यर्थः । इति सुवचत्वात् व्याघात इति योज्यम् ।। ११ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
अनङ्गत्वधिया हेतोः प्रतिदृष्टान्तमात्रतः ।
प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणम् ।।
इतिकारिकानुसारेण प्रतिदृष्टान्तसमजातिं लक्षयति ।। हेतुं विनेति ।। ‘निरग्निरेव’ इति बाधोद्भावनप्रकारः । ‘निरग्निकोऽपि’ इति सत्प्रतिपक्षोद्भावनप्रकारः ।
।। साध्यातिदेश इति ।। अतिदेशोे ज्ञानम् । तथा च साध्यज्ञाने हेतुरनङ्गम्। किं नाम ? दृष्टान्तएव इत्यभिमान इत्यर्थः ।। बाधाद्यङ्गस्येति ।। बाधे अधिक-बलत्वमङ्गम् प्रतिरोधे तु तुल्यबलत्वम् । तदुभयमपि प्रतिदृष्टान्तमात्रस्य नास्ति इत्यभ्युपगमादित्यर्थः । प्रकारान्तरेण युक्ताङ्गत्यागं दर्शयति ।। साधनस्येति ।। भावे ल्युडन्तोऽयं शब्दः । तथा च विवक्षितार्थसिद्धेरित्यर्थः । हेतुसाहित्यात् हेतु-साहित्यसापेक्षतानियमादित्यर्थः ।। तदनुपन्यासादिति ।। हेत्वनुपन्यासादित्यर्थः । तथा च न्यूनतया युक्ताङ्गहानिरिति भाव: । यथोक्तं पद्धतौ अत्र न्यूनत्वं वाच्यम् इति । तस्य हेतोः ।। प्रतिदृष्टान्त इति ।। यद्दृष्टान्तमात्रेण बाधाऽदिकमुद्भाव्यते स ह्नदादिरूपः प्रतिदृष्टान्त इत्यर्थः । न च हेत्वनभिधानात् न्यूनतेति वाच्यं तस्य त्वया अङ्गत्वानङ्गी कारात् इति स्वन्यायविरोध इत्यर्थः ।।११ ।।
प्रमाणलक्षणटीकाविवरणम्
।। उत्थानबीजमाह ।। अत्रेति ।। साध्यस्यातिदेशो नाम ज्ञानं तत्रेत्यर्थः । बाधादित्यादिपदेनसत्प्रतिपक्षपरिग्रहः ।। द्वितीये तदंगस्य सम-बलत्वादेः संग्रहः प्रकारान्तरेण युक्ताङ्गराहित्यं दर्शयति ।। साध्यासाधनस्येति।।
दृष्टान्तमात्रं साधकं किं हेतुनेत्यत आह ।। तस्येति न च तद्दृष्टान्तमात्रं साधकं किंतु हेतुरिति वाच्यम् ।। पूर्वं तदनंगीकारात् ।। अङ्गीकारे वा विरोधात्। आदिपदेन भागासिद्धिसंग्रहः ।।