योग्यानुपलब्धेश्च लिङ्गत्वम्

अनुपलब्धेरनुमानत्वसमर्थनम्

प्रमाणलक्षणटीका

अभावप्रमाणस्यापि अनुमानेऽन्तर्भावमुपपादयति

प्रमाणलक्षणम्

योग्यानुपलब्धेश्च लिङ्गत्वम्

भावानुपलब्धिरभावप्रमाणमङ्गीक्रियते । सापि अर्थे लिङ्गमेव । न तु पृथक्प्रमाणम् । कुतः ? न ह्यनुपलब्धिमात्र-मभावगमकमङ्गीक्रियते । किं तु ? उपलब्धियोग्यस्यानुपलब्धिः।तथापि कुतोऽनुमानत्वं इत्यत आह

अविशेषात्

अनुपलब्धिमभावप्रमाणमङ्गीकुर्वता योग्यस्यानुप-लब्धिरिति कस्मादुच्यते ? अनुपलब्धिमात्रस्य अभावव्यभि-चारादिति चेत् । तत् किं योग्यानुपलब्धिरभावाव्यभिचारिणी ? बाढमिति चेत् हन्त तर्हि व्याप्तिसापेक्षा अर्थं गमयतीत्यङ्गी-कृतं स्यात् । तथा च प्रसिद्धानुमादविशेषादनुमानमेवेति ।

किं चानुपलब्धेरभावगमकत्वे अभावत्वाविशेषात् अनुपलब्ध्यन्तरापेक्षेत्यनवस्था स्यादित्याह

अविशेषात्

अस्मत्पक्षे स्वप्रकाशसाक्षिसिद्धत्वाददोषः ।

न च वाच्यमनुपलब्धिरज्ञातैवार्थं बोधयतीति । तथासत्य-नुपलब्धित्वाविशेषात् सुषुप्त्यादावपि बोधयेदित्याह

अविशेषात्

नच चक्षुरादिवदुपपत्तिः । तस्य सम्प्रयोगादिविशेषा-पेक्षत्वात् । अनुपलब्धेस्तदभावादित्याह

अविशेषात्

प्रमाणलक्षणटीकाभावदीपः

व्याप्तिसापेक्षा अर्थं गमयतीत्यत्र अनुपलब्धिरिति विशेष्यं योज्यम् । इत्याह विशेषात् इत्यत्र अभावत्वाविशेषात् अनुपलब्धेरित्यर्थः । साक्षिणोऽपि अन्येन ज्ञातव्यत्वे अनवस्था इत्यत उक्तम् स्वप्रकाशेति ।। साक्षिसिद्दत्वादिति ।। अनुपलब्धेरिति योज्यम् । प्रतियोगिनः साक्षिसिद्धत्वे तदभावस्यापि तथात्वादिति भावः । अन्त्ययोजनायां अविशेषात् इत्यस्य अनुपलब्धेः सम्प्रयोगरूपविशेषा-भावादित्यर्थः ।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

।। अभावप्रमाणस्यापीति ।। अभावप्रमितिकरणस्य अनुपलब्धिरूपप्रमाणस्यापीत्यर्थंः । अभावप्रमाणं अभावप्रमापकं । अर्थे अभावे ।। लिङ्गमेवेति ।। ‘अत्र घटो नास्ति योग्यत्वे सत्यनुपलभ्यमानत्वात्’ इति लिङ्गत्वेन ज्ञापिकेत्यर्थः ।। न हीति ।। तथात्वे परमाण्वादेरप्यभावप्रमा स्यादिति भावः ।। व्यभिचारादिति ।। ‘यत् नोपलभ्यते तत् नास्ति’ इत्यस्य परमाण्वादौ व्यभिचारादित्यर्थः । बाढं दृढं । गाढबाढदृढानि च इत्यमरः ।। व्याप्तीति ।। अव्यभिचरितसम्बन्धस्यैव व्याप्तित्वादित्यर्थः । गमयति अनुपलब्धिः ।। अभावत्वाविशेषादिति ।। अनुपलब्धेरपि उपलब्ध्यभावरूपत्वादिति भावः ।

नन्वनुपलब्धेः लिङ्गत्वेन अभावप्रमापकत्वे अज्ञाताया अनुपलब्धेः लिङ्गत्वायोगात् ज्ञाताया एव लिङ्गत्वेवाच्ये उपलब्ध्यभावरूपानुपलब्धिज्ञानमपि उपलब्धिविषयकानुपलब्धिरूपलिङ्गेनैवेति वाच्यम् । तत्राप्येवमिति योग्यानुपलब्धेः लिङ्गत्वेन ज्ञापकत्वपक्षेऽपि अनवस्था स्यादेव इत्यत आह ।। अस्मत्पक्ष इति ।। उपलब्धेः साक्षिवेद्यत्वेन तदभावरूपानुपलब्धेरपि साक्षिणैव सिद्धत्वात् नानुपलब्धेः लिङ्गत्वेन ज्ञापकत्वपक्षे अनवस्थादोष इत्यर्थः ।

लिङ्गभूतानुपलब्धिग्राहकस्य  साक्षिणोऽपि ग्राहकमन्यदङ्गीकार्यम् । तस्यापि पुनर्ग्राहकान्तरमङ्गीकार्यमित्यनवस्थैव इत्यत उक्तम् स्वप्रकाशेति । स्वविषयकज्ञानस्वरूपेत्यर्थः । तथा च विशेषबलेन स्वस्यैव स्वग्राहकत्वाङ्गीकारात् न ग्राहकानवस्थेति भावः ।

नन्वनुपलब्धिः न लिङ्गत्वेनाभावज्ञापिका । किं तु ? स्वातन्ञ्येणैव । कुतः ? इति चेत्, लिङ्गस्य ज्ञातकरणत्वात्, अनुपलब्धेश्व अज्ञाताया एव करणत्वात् इत्याशङ्ग्य निषेधति ।। न च वाच्यमिति ।। अनुपलब्धित्वाविशेषादिति ।। अज्ञाताया एव बोधकत्वाविशेषादित्यर्थः ।

।। बोधयेदिति ।।  घटाभावबोधं जनयेदित्यर्थः । न चेष्टापत्तिरिति वाच्यम्। तदानीं बाह्यपदार्थज्ञानमात्राभावस्य सर्वसंमतत्वात् । घटाद्यभावस्यापि बाह्यपदार्थत्वादिति भावः ।

ननु यथा चक्षुरादीन्द्रियसद्भावेऽपि जागरावस्थायां न नियमेन ज्ञानम् । एवं सुषुप्तौ अनुपलब्धिसद्भावेऽपि नाभावबोध, इत्याशङ्कां प्रतिषेधति ।। न चेति ।। युज्यते चक्षुरादिसद्भावेऽपि कदाचिज्ज्ञानाभावः । अर्थसन्निकर्षरूपावान्तर-व्यापारादिरूपविशेषाभावात् । तादृशविशेषवत एव चक्षुरादेर्नियमेन ज्ञानसाधनत्वा-ङ्गीकारादित्याह ।। तस्येति ।। सम्प्रयोगोऽर्थसन्निकर्षः । आदिपदेन मनोधिष्ठितत्वादिग्रहणम् ।

ननु तर्ह्येवमेव सुषुप्तावपि अनुपलब्धेः सत्त्वेऽपि अवान्तरव्यापाररूपविशेषा-भावादेव नाभावबोध इत्यत आह ।। अनुपलब्धेरिति ।। तदभावादिति ।। सम्प्रयोगादिरूपविशेषाभावादित्याहेत्यर्थः । अनेन अविशेषात् इति मृलार्थोऽप्युक्त इति द्रष्टव्यम् ।

प्रमाणलक्षणटीकाविवरणम्

नन्वनुपलब्धेरभावग्राहकत्वे अनवस्था न वक्तुं शक्या । भवत्पक्षेऽपि साम्यात् । तथाहि । अनुपलब्धेरनुमानत्वेऽपि अज्ञाताया अर्थगमकत्वाभावेन तव एतज्ज्ञानजनकत्वमावश्यकं तद्भानं च पुनरुपलब्ध्याद्यनुमानेन तथा चानवस्था स्यादित्यत आह ।। अस्मत्पक्ष इति ।।

साक्षिणो ग्राहकत्वेऽपि तस्यापि ग्राहकान्तराङ्गीकारेऽनवस्था स्यादित्यत उक्तं स्वप्रकाशत्वादिति ।। ननु नानुपलब्धेरनुमानत्वं अज्ञाताया अनुपलब्धेरर्थगमकत्वात् । अनुमानस्य ज्ञातस्यैवार्थगमकत्वादित्याशंक्य निषेधति न चेति ।। तथासतीति ।। तथा चातिप्रसंगः स्यादिति भावः ।

ननु यथा चक्षुरादिसद्भावेऽपि न नियमेन ज्ञानं, एवं सुषुप्त्यादौ अनुपलब्धिसत्वेऽपि नार्थावबोधः । अन्यथा चक्षुरादेरपि तत्स्यादित्यभिप्रेत्य शंकते। न चेति परिहरति ।तस्येति चक्षुरादेरित्यर्थः  । आदिपदेन मनोऽनधिष्ठितत्वग्रहणम् । ननु चक्षुरादिवदस्यापि संयोगादिविशेषापेक्षत्वान्नाभावज्ञानमित्यत आह अनुपलब्धेरिति ।।