स्मृतेश्च प्रामाण्यानङ्गीकारे अनुभूतं मया इत्यत्र प्रमाणाभावात्

स्मृतिप्रामाण्यसमर्थनम्

प्रमाणलक्षणटीका

यथार्थस्मृतावव्याप्तिश्च प्राक् आदिशब्देन संगृहीता । तत्र स्मृतिर्न ।। प्रमाणमिति न वाच्यम् । साधितत्वात् । तदनङ्गीकारे बाधकं चाह

प्रमाणलक्षणम्

स्मृतेश्च प्रामाण्यानङ्गीकारे अनुभूतं मया

इत्यत्र प्रमाणाभावात्

यदि स्मृतिर्न प्रमाणं तर्ह्यनुभूतमप्रामाणिकं स्यात् । ‘अनुभूतं मयेदं’ इत्यत्र स्मृतिं विना प्रमाणाभावात् ।