अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः
निरनुयोज्यानुयोगः
प्रमाणलक्षणटीका
अतन्निग्रहप्राप्तौ तन्निग्रहोद्भावनं निरनुयोज्यानुयोगः । तच्चतुर्विधम् । छलं जातिः हान्याद्याभासोऽप्राप्तकाले ग्रहणं चेति ।
छलजाती वक्ष्येते । हान्याद्याभासो द्विविधः । सर्वथा हान्याध्यभावप्राप्तौ तदुद्भावनम् अन्यप्राप्तावन्योद्भावनञ्चेति। तत्राऽद्येऽपि द्विविधः । सादृश्याऽदिना भ्रान्त्या, व्यामोहनाय वेति ।
द्वितीयो भ्रान्त्यैव । भ्रान्त्या यथा , अनेकविकल्प-स्फुरणेन विकल्पयतोऽनिष्टविकल्पत्यागे प्रतिज्ञाहानिरित्यादि। द्वितीयो यथा । प्रतिज्ञाहान्यादौ प्रतिज्ञाऽन्तराऽदि इत्यादि । तत्तदुद्भावनावसरमप्राप्य अतिक्रम्य वा तन्निग्रहस्थानोद्भावनं अप्राप्तकाले ग्रहणम् । अनुक्तोच्यमानोक्तग्राह्यभेदात् त्रिविधो ह्युद्भावनकालः । तत्रोच्यमानग्राह्यमुत्तरं उद्भावयतो निग्रह-स्थानम् इत्यादि ।। २० ।।
प्रमाणलक्षणटीकाभावदीपः
।। अतन्निग्रहेति ।। अप्राप्तस्य पराजयहेतोरुद्भावनमित्यर्थः ।। वक्ष्येते इति ।। छलमसङ्गतम् इत्यादिवाक्यव्याख्याऽवसरे छलं, विरोधो मानस्ववाक्याभ्याम् इत्यादिविरोधभेदोक्तिप्रकरणे जातिश्च वक्ष्यत इत्यर्थः ।
तत्राद्यमुदाहरति ।। भ्रान्त्या यथेति ।। इत्यादीति ।। गौः शृङ्गवती इत्यत्र गोपदस्यार्थान्तरभ्रान्त्या ‘प्रतिज्ञाविरोधः’ इत्यादिरादिपदार्थः ।
व्यामोहनाय वा इत्यस्यापि अनेकविकल्पेत्यादिरेवोदाहरणम् इत्युपेत्य अन्यप्राप्तौ इत्येतदेव द्वितीयकल्पं मत्वोदाहरति ।। द्वितीयो यथेति ।। हान्याध्याभासः ।। अनुक्तेति ।।
।। ग्राह्यपदं प्रत्येकमिति ।। अज्ञानाननुभाषणादि अनुक्तग्राह्यं ।। अर्थान्तराप्राप्तकालाऽदिकमुच्यमानग्राह्यं । न्यूनाधिक्यादि उक्तग्राह्यं ।। उत्तरमिति ।। पश्चादित्यर्थः ।। इत्यादीति ।। उक्तग्राह्यस्योच्यमानकाल उद्भावनम् इत्यादिरादिपदार्थः ।। २१ ।।
प्रमाणलक्षणटीकावाक्यार्थकौमुदी
‘‘अतन्निग्रहसम्प्राप्तौ तन्निग्रहनिमित्ततः ।
निगृह्णतो निग्रहः स्यादचोद्यस्यानुयोगतः’’
इति कारिकाऽनुसारेण क्रमप्राप्तं निरनुयोज्यानुयोगं लक्षयति ।। अतन्निग्रह-प्राप्ताविति ।। सर्वता निग्रहस्थानाप्राप्तौ, निग्रहस्थानान्तरप्राप्तावप्युद्भा-व्यमाननिग्रहस्थानाप्राप्तौ चेत्यर्थः।
।। छलजाती वक्ष्येते इति ।। गृष्टिविवक्षया, जातिर्न मेये इत्यादिना ग्रन्थेनेत्यर्थः ।। सादृश्याऽदिनेति ।। सादृश्याऽदिजनितया भ्रान्त्येत्यर्थः ।। द्वितीय इति ।। अन्यप्राप्तावन्योद्भावनमित्यर्थः ।
। भ्रान्त्यैवेति ।। अन्यप्राप्तावन्योद्भावने भ्रान्तिरेव निमित्तम्, न तु व्यामोहोऽपीत्यर्थः ।। भ्रान्त्या यथेति ।। सर्वथा हान्याद्यप्राप्तौ सादृश्याऽदिजनित-भ्रान्त्या तदुद्भावनम् यथेत्यर्थः । व्यामोहनाय तदुद्भावनस्यापीदमेवोदाहरणम् परव्यामोहनार्थमेव हान्याद्यप्राप्तावपि तदुद्भावनसम्भवात् । अतः पृथङ्नोदाहृतम्।
।। द्वितीयो यथेति ।। भ्रान्तिमात्रानिमित्तकमन्यप्राप्तावन्योद्भावनमित्यर्थः । अप्राप्तकाले ग्रहणं लक्षयति ।। तत्तदुद्भावनेति ।। निग्रहोद्भावनकालमित्यर्थः ।। अप्राप्येति ।। तदुद्भावनकालप्राप्त्यभावेऽपीत्यर्थः ।। अतिक्रम्येति ।। उद्भावनावसरमतिक्रम्येत्यर्थः । उद्भावनकालं दर्शयति ।। अनुक्तेति ।। हि इति
उक्तग्राह्याः केचिदन्येऽनुक्तग्राह्यास्तथा परे ।
उच्यमानदशाग्राह्या इति कालस्त्रिधा मतः ।।
इति परकीयप्रसिद्धिं द्योतयति । उद्भावनावसरमतिक्रम्योद्भावनप्रकारं दर्शयति ।। तत्रोच्यमानग्राह्यमिति ।। उच्यमानदशोद्भावनीयमपशब्दादिकमित्यर्थः ।
।। इत्यादीति ।। उच्यमानग्राह्यमुक्तेः पूर्वमुद्भावयतो निग्रहस्थानम् इत्यादि ज्ञातव्यमित्यर्थः ।। २० ।।
प्रमाणलक्षणटीकाविवरणम्
निरनुयोज्यानुयोगं लक्षयति ।। अतन्निग्रहेति ।। नन्वादावुद्दिष्टे छलजाती कुतो नोच्यत इत्यत आह ।। छलजातीति ।। गृष्टिविवक्षयेत्यादिना ।। मेये मानापेक्षेत्यादिना छलजाती वक्ष्येते इत्यर्थः ।। तत्राद्य इति ।। हान्याद्यप्राप्तौ तदुद्भावनरूपः हान्याद्याभासो द्विविध इत्यर्थः। के ते द्वे विधे इत्यत आह ।। सादृश्यादिनेति ।। सादृशयादिना भ्रांत्येत्यर्थः । परव्यामोहनाय चेत्यपरः ।
तत्राद्यवत् द्वितीयोऽपि किं द्विविधः ? नेत्याह ।। द्वितीय इति ।। द्वितीयः अन्यनिग्रहप्राप्तौ अन्योद्भावनरूपो हान्याद्याभासभ्रान्त्यैव । तत्र भ्रांतिरेव निमित्तम्। न तु व्यामोहोपीत्यर्थः । तत्राद्यमुदाहरति तत्राद्य इति द्वितीयपक्षापेक्षया द्विविधस्य आप्याद्यत्वात् आद्य इत्युक्तिरुपपन्नेति ध्येयं ।
यथा खलु परेणानुमाने कृते स्वनिष्टपक्षं परित्यज्येष्टपक्षग्रहणे हानिरुद्भाविता । तत्र हि सादृश्यमेव निमित्तं प्रतिज्ञाहानौ अनिष्टपरित्यागे च पक्षपरित्याग-सादृश्यत्वात् । तत्र च हानिप्राप्त्यभावेऽपि तदुद्भावनात् । हान्याद्याभासः पर-व्यामोहायोक्तस्याप्येतदेवोदाहरणम् । परव्यामोहनार्थमेव हान्याद्यभावेऽपि तदुद्भवनसम्भवात् ।
अन्यप्राप्तौ अन्योद्भावनरूपं हान्याद्यभासरूपं द्वितीयमुदाहरति ।। द्वितीय इति ।। अप्राप्तकाले ग्रहणमाह ।। तत्तदिति ।। स्यादिदं निग्रहस्थानं तदा यद्येतेषामुद्भवनकालो नियतः स्यादित्यतः सत्यमित्याह ।। अनुक्तेति ।। उक्ताग्राह्या अनुक्ताग्राह्या उच्यमानग्राह्या इति निग्रहोद्भावनकालः त्रिविध इत्यर्थः । तत्रोक्तग्राह्यमज्ञानादि, अनुक्तग्राह्यमप्रतिहान्यादि उच्यमानग्राह्यं अपशब्दर्थान्तरता इति विवेकः । तत्रोच्यमानग्राह्यं उक्तेः पूर्वं उक्त्यनन्तरं वा यद्युद्भावितं तदा प्राप्तकाले ग्रहणमिति ज्ञातव्यमित्याह।। तत्रेति ।।