यत्किञ्चिच्छास्त्रसिद्धान्तमभ्युपेत्य तद्विरुद्धाङ्गी-कारोऽपसिद्धान्तः

अपसिद्धान्तः

प्रमाणलक्षणटीका

यत्किञ्चिच्छास्त्रसिद्धान्तमभ्युपेत्य तद्विरुद्धाङ्गी-कारोऽपसिद्धान्तः ।

प्रामाणिकतया अङ्कीकृतोऽर्थः सिद्धान्तः । स चतुर्विधः । सर्व-तन्त्रप्रतितन्त्राधिकरणाभ्युपगमसिद्धान्तभेदात्। सर्वशास्त्रा-विरुद्धोऽर्थः सर्वतन्त्रसिद्धान्तः । यथा प्रत्यक्षं प्रमाणमिति ।।

स्वशास्त्रमात्रसिद्धोऽर्थः प्रतितन्त्रसिद्धान्तः । यथा नैयायिका-नामीश्वरप्रामाण्यम् । च्कस्य सिद्धावानुपङ्गिको योऽर्थः सोऽधि-करणसिद्धान्तः । यथा ईश्वरस्य र्स्वकर्तृत्वसिद्धौ सार्वज्ञ्यम् ।

शास्त्रान्तरे परीक्षितः स्वशास्त्रे चानिषिद्धोऽभ्युपगमसिद्धान्तः। यथा मनस इन्द्रियत्वम् । अपसिद्धान्तोऽप्यतश्चतुर्विधः । यथा इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते इति प्रतितन्त्रसिद्धान्त-मभ्युपगतवतो मीमांसकस्य सर्गप्रलयाभ्युपगम इत्यादि । न चायं प्रमाणविरोधः । उभयोस्तदाचार्याेक्तौ प्रामाण्यासंमतेः। तत्रैव प्रमाणविरोधप्रसरात् । मूलप्रमाणे च सन्देहादिति ।२१।

प्रमाणलक्षणटीकाभावदीपः

अतश्चतुर्विध इति ।। प्रतियोगिनः सिद्दान्तस्य चातुर्विध्यादित्यर्थः। सर्वतन्त्रसिद्धान्तविरुद्धः अपसिद्धान्तः असम्भवी इति तमनुदाहृत्य द्वितीयाद्येवो-दाहरति ।। इदानीमिवेति ।।

।। इत्यादीति ।।। ईश्वरस्य कर्तृत्वसिद्ध्या सार्वज्ञ्यसिद्धिरित्यधिकरण-सिद्धान्तमभ्युपगतवतो नैयायिकस्यासार्वज्ञ्याभ्युपगमः मनस इन्द्रियत्वं इत्यभ्युप-गमसिद्धान्तमाश्रितस्यानिन्द्रियत्वाभ्युपगम इति आदिपदेन ग्राह्यम् ।। उभयोरिति ।। वादिप्रतिवादिनोरित्यर्थः ।। २१ ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

‘‘सिद्धान्तमेकमालम्ब्य तद्विरुद्धपरिग्रहे ।

अपसिद्धान्ततः सिद्ध निग्रहस्थानमक्षतम्’’

इतिकारिकानुसारेणापसिद्धान्तं  लक्षयति ।। यत्किञ्चिदिति ।। ननु कः सिद्धान्तो यद्विरुद्धाङ्गीकारोऽपसिद्धान्तः ? इत्यत आह ।। प्रामाणिकतयेत्यादि ।। यथाहुः

‘‘अभ्युपेतैः प्रमाणैः स्यादाभिमानिकसिद्धिभिः ।

सिद्धान्तः सर्वतन्त्राऽदिभेदात्स च चतुर्विधः’’  इति ।।

‘‘सर्वशास्त्राविरुद्धोऽर्थः स्वतन्त्रेऽधिकृतश्च यः ।

 स सर्वतन्त्रसिद्धान्तो यथा मानेन मेयधीः’’

 इतिकारिकां मनसि निधायाऽह ।। सर्वशास्त्रेत्यादि ।।

‘‘स्वतन्त्र एव सिद्धार्थः परतन्त्रैर्निवारितः ।

प्रतितन्त्रो यथा न्याये सर्वज्ञस्य प्रमाणता’’

इति कारिकानुसारेणाऽह । स्वशास्त्रमात्रेति ।।

‘‘अनुमेयस्य  सिध्द्यर्थो योऽनुषङ्गेण सिध्यति ।

स स्यादाधारसिद्धान्तो जगत्कर्ता यथेश्वरः’’

इतिकारिकां हृदि निधायाऽह ।। एकस्य सिद्धाविति ।। सार्वज्ञ्यमिति ।। सार्वज्ञ्यस्य सर्वकर्तृत्वान्तर्गतत्वादित्यर्थः ।

‘‘साधितः परतन्त्रे यः स्वतन्त्रे च समाश्रितः ।

स ह्यभ्युपगमो न्याये मनसोऽनुमतिर्यथा’’

इतिकारिकामनुसृत्याऽह ।। शास्त्रान्तर इति ।।

ननु सिद्धान्तस्य चातुर्विध्येऽपसिद्धान्तस्य किमायातम् ? इत्यत आह ।। अपसिद्धान्तोऽपीति ।। अत इति ।। प्रतियोगिभूतस्य चतुर्विधत्वात्तद्विरुद्धोऽप-सिध्दान्तोऽपि चतुर्विध इत्यर्थः ।

उपलक्षणतया प्रतितन्त्रापसिद्धान्तमुदाहरति ।। यथेदानीमिवेत्यादि ।। सर्वत्रेति ।। भूतभविष्यत्कालयोरित्यर्थः ।। दृष्टान्नाधिकमिति ।। तथा च सर्गप्रलयौ न स्त इति भावः ।

।। इत्यादीति ।। ‘प्रत्यक्षं न प्रमाणम्’ इत्यभ्युपगमः सर्वतन्त्रापसिद्धान्तः, ईश्वरस्य सर्वकर्तृत्ववादिमते तदसार्वज्ञ्याङ्गीकारः अधिकरणापसिद्धान्तः, नैयायिकस्य मनसोऽनिन्द्रियत्वाभ्युपगमोऽभ्युपगमापसिद्धान्त इति द्रष्टव्यम् । ननु सर्गप्रलयाभ्युपगमवतो मीमांसकस्य नापसिद्धान्तरूपनिग्रहस्थानं वक्तव्यम् । किं तु ?  इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते । इति सर्गप्रलयाभावप्रतिपादकाचार्य-वचनरूपप्रमाणविरोध एवेत्याशङ्क्य निराकरोति ।। न चायमिति ।। कुतो न च ? इत्यत आह ।। उभयोरिति ।। वादिप्रतिवादिनोरित्यर्थः ।

अत्र यद्यपि वादिनो  मीमांसकस्य स्वाचार्योक्तौ प्रामाण्यनिश्चयोऽस्त्येव । अतः उभयोरसंमतेः इत्येतदयुक्तम् । तथापि न प्रतिवादिनोऽस्ति । अतो व्यासज्यवृत्तिप्रतियोगिकाभावाभिप्रायेणेदम् । ‘एकसत्त्वे द्वयमिह नास्ति’ इति प्रतीतिदर्शनादिति ध्येयम् । तदाचार्योक्तौ मीमांसकाचार्योक्तौ ।

ननु प्रतिवादिनः कुतो मीमांसकाचार्योक्तौ प्रामाण्यासंमतिः ? इत्यत  आह ।। तत्रैवेति ।। ‘दृष्टान्नाधिकमिष्यते’ इतिसर्गाद्यभावप्रतिपादकाचार्योक्तावेव सर्गादिप्रतिपादकप्रमाणविरोधप्रसरेण प्रमाणविरुद्धायां तदाचार्योक्तौ प्रतिवादिनः स्वस्य प्रामाण्यासंमत्या प्रमाणविरोधस्य प्रतिवादिनोद्भावयितुमशक्यत्वादप-सिद्धान्त एवोद्भाव्य इत्यर्थः ।

ननु न मीमांसकाचार्योक्तौ प्रमाणविरोधः प्रसरति । तस्याः प्रमाणमूलकत्वा-दिति चेतत्राह ।। मूलप्रमाणे चेति ।। सर्गाद्यभावप्रतिपादकाचार्यवचनमूलभूत-प्रमाणस्वरूपमेवादौ सन्दिग्धम् । सत्त्वे वा तस्य प्रामाण्यं सन्दिग्धम् । सर्गादिप्रति-पादकप्रमाणप्रतिरुद्धत्वादित्यर्थः । सन्देहादित्येतत् सर्गादिप्रतिपादकप्रमाण-प्राबल्यानिर्धारणदशायामेव । निश्चिते तु प्राबल्ये तद्बाधात् अप्रामाण्यनिश्चय एवेति द्रष्टव्यम् । यथाऽऽहुः ‘न हि प्रतिपक्षो यावज्जीवं प्रतिपक्ष’ इति ।

केचित् , ननु माऽस्तूभयोः प्रामाण्यनिश्चयः तथापि प्रमाणविरोधः किं नोद्भाव्यते ? इत्यत आह ।। तत्रैवेति ।। यत्रोभयोस्तदाचार्योक्तौ प्रामाण्यनिश्चय-स्तत्रैवेत्यर्थः । ननु तथाप्याचार्यवाक्यमूलभूतप्रमाणविरोध एवोद्भाव्यः , न त्वपसिद्धान्त इत्यत आह ।। मूलप्रमाण इति ।। इत्याहुः ।। २१ ।।

प्रमाणलक्षणटीकाविवरणम्

अपसिद्धान्तलक्षणमाह ।। यत्किञ्चिदिति ।। सर्वकर्तृत्व-सिद्धाविति ।। ईश्वरस्य सर्वकर्तृत्वसिद्धौ कर्तुत्वस्य तदुपादानापरोक्षज्ञानचिकीर्षा-कृतिमत्त्वरूपत्वात् सर्वज्ञसिद्धिरिति ।। अपसिद्धान्त इति ।। अतः सिद्धान्तस्य पूर्वोक्तरीत्या चतुर्विधत्वात् तद्विद्धोऽपसिद्धान्तोऽपि चतुर्विधइत्यर्थः ।।

तमेवोदाहरति ।। यथेति ।। इदानीमस्मिन् वर्तमानकाल इव सर्वत्र कालान्तरे दृष्टादधिकं दृश्यमानादतिरिक्तं सृष्टिप्रलयात्मकं वस्तुमेष्यते न मन्यत इत्यर्थः ।

ननु मीमांसकमतमभ्युपगतवतोऽपि प्रलयांगीकारेऽपसिद्धान्तो नोद्भाव्यः, किं तु प्रमाणविरोध एवेत्याशयेन शंकते ।। नचायमिति ।। उभयोरिति ।। यद्यपि वादिनः तदुक्तौ प्रामाण्यनिश्चयो वर्तते तथाऽपि नोभयोः मास्तु, उभयोः प्रामाण्यनिश्चयः, तथापि प्रमाणविरोधः किं नोद्भाव्य इत्यत आह ।। तत्रैवेति ।। यत्रोभयोस्तदाचार्योक्तौ प्रामाण्यनिश्चयस्तत्रैवेत्यर्थः । ननु तदाचार्यवाक्यमूलभूत-प्रमाणविरोध एवोद्भाव्यः नत्वपसिद्धान्त इत्यत आह ।। मूलेति ।। २१ ।।