साधनस्य धर्मान्तरेण धर्मान्तरस्य साध्यधर्मेण ...

विकल्पसमजातिः

प्रमाणलक्षणटीका

साधनस्य धर्मान्तरेण धर्मान्तरस्य साध्यधर्मेण धर्मा-न्तरस्य धर्मान्तरेण वा व्यभिचारेण साधनस्यापि साध्यव्यभि-चाराऽपादनं विकल्पसमः ।

तत्र साधनस्य धर्मान्तरेण व्यभिचारस्त्रिविधः । पक्षदृष्टान्तयोः पक्षयोर्दृष्टान्तयोश्चेति ।

तत्र आद्यो यथा ‘महानसे धूमवत्वमपर्वतत्वेन सह वर्तमानमपि यथा पक्षे तेन सह न वर्तते, तथा अत्र अग्निमत्वेन सह वर्तमानमपि पक्षे न तथा वर्तेत’इति ।

द्वितीयो यथा ‘यथा गिरिशिखरयोरुच्चनीचत्वाभ्यां धूमवत्त्वस्य व्यभिचारस्तथाऽग्निमत्वेनापि  स्यात्’ इति ।

तृतीयो यथा ‘यथा महानसयोरल्पत्वमहत्वाभ्यां धूमवत्वं व्यभिचरति तथा अग्निमत्वेनापि व्यभिचरेत्’ इति ।

धर्मान्तरस्य साध्यधर्मेण यथा ‘यथा द्रव्यत्वमग्निमत्व-व्यभिचारि तथा धूमवत्वमपि स्यात्’ इति ।

धर्मान्तरस्य धर्मान्तरेण यथा ‘यथा रूपं रसव्यभिचारि तथा धूमवत्वमग्निमत्वव्यभिचारि स्यादिति ।

प्रमाणलक्षणटीकाभावदीपः

धर्मान्तरस्य साध्यधर्मेणेति द्वितीयकोटिः ।। तथाऽत्रेति ।। महानस इत्यर्थः ।। द्वितीय इति ।। पक्षयोः साधनस्य धर्मान्तरेण व्यभिचारदृष्ट्या साध्येनापि तदापादनपक्ष इत्यर्थः । ‘गिरिशिखरौ वह्निमन्तौ धूमवत्त्वात्’ इत्यत्र गिरौ उच्चत्वेन शिखरे नीचत्वेन व्यभिचारो यथेत्यर्थः ।। तृतीयो यथेति ।। दृष्टान्तयोः साधनस्य धर्मान्तरव्यभिचारेण पक्षे साध्येनापि तदापादनपक्ष इत्यर्थः । महानसयोरित्यत्र स्थूलसूक्ष्मयोरिति योज्यम् ।। रसव्यभिचारीति ।। तेजसीति भावः ।।

प्रमाणलक्षणटीकावाक्यार्थकौमुदी

धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः ।

हेतोः साध्याभिचारोक्तेर्विकल्पसमजातिता ।।

इतिकारिकानुसारेण विकल्पसमजातिं लक्षयति ।। साधनस्येति ।। व्यभिचारेण व्यभिचारदर्शनेन ।। पक्षदृष्टान्तयोरिति ।। पक्षे दृष्टान्ते च साधनस्य धर्मान्तरेण व्यभिचारदर्शनेन साध्यधर्मेणापि व्यभिचाराऽपादनमित्यर्थः ।।पक्षयोरिति ।। पक्षद्वये साधनस्य धर्मान्तरेण व्यभिचारदर्शनात् साध्येनापि व्यभिचारापादनमित्यर्थः

।। दृष्टान्तयोश्चेति ।। दृष्टान्तद्वये साधनस्य धर्मान्तरेण व्यभिचारदर्शनात् साध्येनास्य धर्मान्तरेण व्यभिचारदर्शनात् साध्येनापि तदापादनमित्यर्थः ।

तत्र पक्षे साधनस्य धर्मान्तरेण व्यभिचारदर्शनात् साध्येनापि तदापादन-मुदाहरति ।। तत्राद्यो यथेत्यादि ।। अत्र महानसे । तथा च ‘धुमवत्त्वरूपसाधनस्य अपर्वतत्वरूपधर्मान्तरेण पक्षे व्यभिचारदर्शनात् साध्येन अग्निमत्त्वेनापि व्यभिचारोऽस्तु’ इत्यापादनमिति फलितार्थः ।

तथा ‘धुमवत्त्वस्य दृष्टान्तपाषाणत्वरूपधर्मान्तरेण व्यभिचारदर्शनात् पक्षे साध्येनापि व्यभिचारोऽस्तु’ इत्येवं दृष्टान्ते साधनस्य धर्मान्तरेण व्यभिचारदर्शनेन पक्षे साध्येनापि व्यभिचारापादनमुदाहर्तव्यम्

।। गिरिशिखरयोरिति ।। ‘गिरिशिखरौ अग्निमन्तौ धूमवत्त्वात्’ इत्यत्र धुमवत्त्वस्य गिर्यधोभागे सत्यपि उच्चत्वस्याभावात्  तथोर्ध्वभागे शिखरे धूमवत्त्व-सद्भावेऽपि तत्र नीचत्वस्याभावात् इत्येवं ‘पक्षयोरेव साधनस्य उच्चत्वनीचत्व-रूपधर्मान्तरेण व्यभिचारदर्शनात् अग्निमत्त्वेनापि व्यभिचारः स्यात्’ इत्यापादन-मित्यर्थः ।। महानसयोरिति ।। अत्राल्पमहच्छब्दावणुस्थूलपरौ । तथा च ‘पर्वतोऽग्निमान् धूमवत्वात् महानसद्वयवत् , इत्यत्रापि धूमवत्त्वस्य महति महानसे सत्त्वेऽपि तत्राल्पत्वस्याभावात् तथा अल्पमहानसे धूमवत्वसद्भावेऽपि तत्र महत्त्वस्याभावात् इत्येवं ‘दृष्टान्तद्वये साधनस्य अल्पत्वमहत्त्वरूपधर्मान्तरेण व्यभिचारदर्शनात् अग्निमत्त्वेनापि व्यभिचरेत्’ इत्यापादनमित्यर्थः ।। रसव्यभि-चारीति ।। तेजस्यभावादिति भावः ।

प्रमाणलक्षणटीकाविवरणम्

विकल्पसमलक्षणमाह साधनस्येति ।। अत्रेति ।। महानस इत्यर्थः ।। उच्चेति ।। धूमवत्वसत्वेन तत्र नीचत्वाभावेन व्यभिचारो बोद्धव्यः । उत्थानबीजं पूर्ववत् ।

Load More